73008: श्वादेरिञि¶
Padacheda: श्वादेः | S | 6 | 1 |
इञि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A compound beginning with श्वन् and followed by the तद्धित affix इञ् is not governed by the prohibition nor takes the augment taught in द्वारादीनां च (7.3.4).
Vasu English Translation¶
A compound beginning with श्वन् and followed by the तद्धित affix इञ् is not governed by the prohibition nor takes the augment taught in द्वारादीनां च (7.3.4). Thus the descendant of श्वभस्त्र is श्वाभस्त्रिः, so also श्वादंष्ट्रिः ॥ The word श्वन् is included in the list of Dvaradi words (7.3.4)., the present sutra implies that the rule (7.3.4) applies not only to those words, but to compounds beginning with those words.
Vart:- This rule applies when any Taddhita affix beginning with इ follows; as श्वगणेन चरति = श्वागणिकः, श्वायूथिकः (4.4.11).
The prohibition applies, when other Taddhita affixes follow such a word ending with इञ् (an affix beginning with इ) : as from श्वाभस्त्रि we have श्वाभस्त्रम् (श्वाभस्त्रेरिदं) ॥
Bhashya¶
श्वादेरिञ्ञि अयं श्वञ्ञ्छब्दो(2) द्वारादिषु पठ्यते, तत्र कः प्रसङ्गो यत्तदादेः स्यात्, नैव(3) प्राप्नोति नाऽर्थः प्रतिषेधेन ॥ (ःइह तस्य वा(1) ग्रहणं भवति तदन्तस्य वा, न चेदं तत्, नापि तदन्तम् ) ॥ तदादिविधिना प्राप्नोति ॥ न(4) वै तदादिविधिरस्ति ॥ अत उत्तरं पठति - प्रतिषेधे श्वादिग्रहणं ज्ञापकमन्यत्र श्वन्ग्रहणे(5) तदादिग्रहणस्य, शौवहानाद्यर्थम् प्रतिषेधे श्वादिग्रहणं क्रियते ज्ञापकार्थम् ॥ किं ज्ञाप्यम् ? ॥ एतज्ज्ञापयत्याचार्यः-अन्यत्र च श्वन्ग्रहणे तदादिविधिर्भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ शौवहानाद्यर्थम् । शौवहानं नाम(1) नगरं शौवादंष्ट्रो मणिरिति इकारादिग्रहणं च श्वागणिकाद्यर्थम् इकारादिग्रहणं च कर्तव्यम् ॥ किं प्रयोजनम् ? ॥ श्वागणिकाद्यर्थम् । श्वगणेन चरति श्वागणिकः(2) तदन्तस्य चाऽन्यत्र प्रतिषेधः(3) तदन्तस्य चाऽन्यत्र(3) प्रतिषेधो वक्तव्यः । श्वाभस्त्रेः स्वं(1) श्वाभस्त्रम् ॥
Kashika¶
श्वादेरङ्गस्येञि परतो यदुक्तं तद् न भवति। श्वभस्त्रस्यापत्यं श्वाभस्त्रिः। श्वादंष्ट्रिः। श्वन्शब्दो द्वारादिषु पठ्यते, तत्र च तदादिविधिर्भवतीत्येतदेव वचनं ज्ञापकम्। इकारादिग्रहणं कर्तव्यं श्वागणिकाद्यर्थम्॥ श्वगणेन चरति श्वागणिकः। श्वायूथिकः। तदन्तस्य चान्यत्रापि तद्धिते प्रतिषेध इष्यते। श्वाभस्त्रेरिदं श्वाभस्त्रम्॥
Siddhanta Kaumudi¶
ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्टिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ ॥<!इकारादाविति वाच्यम् !> (वार्तिकम्) ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥
Balamanorama¶
श्वादेरिञि - आआदेरिञि । ‘न कर्मव्यतिहारे’ इत्यतो नेत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । आन्शब्द आदिर्यस्येति विग्रहः । आन्शब्दपूर्वपदस्याङ्गस्य इञि परे नैजागम इत्यर्थः । आआमस्त्रिरिति ।अत इञ् । आआदंष्ट्रिरिति ।आदंष्ट्रस्याऽपत्यमित्यर्थः । ननु आन्शब्द एव द्वारादौ पठते नतु आभस्त्रशभ्दः । ततश्च तस्य द्वारादित्वाऽभावादैजागमप्रसक्तिरेव नेत्यत आह — तदादिविधाविति । द्वारादिगणे आन्शब्दस्य पाटेऽपि अस्मादेव प्रतिषेधात् आन्शब्दपूर्वकस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः । तत्फलं तु आवहनस्येदं शौववहानं नाम नगरम् ।ननु प्रकृते आआगणिके इञभवात्कथमयं निषेध इत्यत आह — इकारादाविति वाच्यमिति । इञीति परित्यज्य इकारादाविति वाच्यमित्यर्थः । इढि तु व्यपदेशित्त्वेन इकारादित्वम् । आआगणिक इति ठञि आदिवृद्धिः । आगणिक इति । ष्ठनि रूपम् । आआगणिकीति । ठञन्तात्टिड्ढाण॑ञिति ङीप् । आगणिकीति । षित्त्वान्ङीष् ।
Tattvabodhini¶
श्वादेरिञि - इदमेव ज्ञापकमिति । द्वारादिगणे आन्शब्दः पठते, न तु आभस्त्र आदंष्ट्रेत्यादिस्तथा चआआदेरिञी॑ति निषेधसूत्रमेव व्यर्थं सद्द्वारादिषु तदादिविधिं ज्ञापयतीत्यर्थः । फलं तु द्वारपालस्यायंदौबारपाल॑इत्यादावैजागमस्य प्रवृत्तिः ।इकारादाविति वाच्यम् । इकारादाविति । सूत्रे इञीत्यपनीय इकारादाविति पठनीयमित्यर्थः । अन्ये तु इञीति स्थाने इतीति पठनीयम् । तथा चाऽङ्गाक्षिप्रप्तत्ययस्य विशेष्यत्वात्यस्मिन्विधिस्तदादौ॑इत्यनेन इकारादिर्लभ्यत इत्याहुः । आगणिकीति । ष्ठनः षित्त्वान्ङीष् ।
Padamanjari¶
तत्र चेत्यादि । यदि तत्र तदादिविधिर्न स्यात् एतद्वचनमनर्थकम्, कथम् ? केवलश्वन्शब्दो द्वारादिषु पठ।ल्ते, तत्र कः प्रसङ्गो यतदादेः स्यात् ! तदादिविधिर्भवतीति । अस्मिन्प्रकरणे यदुक्तं तद्वृद्धिभाजोऽचो विशेषणमित्यस्मिन्नर्थे ज्ञापकमित्यर्थः । इकारादिग्रहणं चेत्यादि । श्वादेरितीति वक्तव्यमित्यर्थः । तत्र वर्णग्रहणे सप्तमीनिर्देशातदादिविधिः । श्वागणिक इति ।’श्वगणाट्ठञ्’ इति ठञ् । तदन्तस्येति । इञन्तस्य । श्वाभस्त्रमिति । ठिञश्चऽ इत्यण् । तन्निमितो वृद्धिप्रतिषेधः, ऐजागमश्च भिन्नकक्षत्वादशक्य इञाश्रयेण प्रतिषेधेन निवारयितुमिति वचनारम्भः ॥
Nyaas¶
आआभास्त्रिः आआदंष्ट्रिः इति। ओव भस्त्रा यस्य, शुन इव दंष्ट्रा यस्येति बहुव्रीहिः, उपसर्जनह्रस्वत्वम्। केन पुनः आआदेर्वृद्धिप्रतिषेधः प्राप्नोति; यतोऽयं प्रतिषेध उच्यते, न ह्रस्य वकारः पदानतः? इत्यत आह - आशब्दो द्रारादिषु पठते इति। ननु च केवलः आशब्दो द्वारादिषु पठते, तत्र कः प्रसङ्गौ यतस्तदादेः स्यात्! यस्मिन्? विधिस्तदादावल्ग्रहणे (व्या।प।127) इत् तददिविधिर्ति चेत्? नैतदस्ति; सप्तमीनिर्दिष्टै हल्ग्रहणे च सति तदादिविधिर्भवति, न चात्रैतदुभयमस्तीत्यत आह - तत्र च इत्यादि। यदि तत्र तदादिविधिर्न स्यात्, तदैतत्? प्रतिषेधवचनमनर्थकं स्यात्; प्राप्त्वभावादित्यभिप्रायः। ज्ञापकसय प्रयोजनम् - शौवादंष्ट्रो मणिरित्यादौ वृद्धिप्रतिषेधः। इकारादिग्रहणं कर्तव्यम् इति। इकारादितद्धितो गृह्रते, येन तदिकारादिग्रहणं व्याख्यानं कर्तव्यमित्यर्थः। किमर्थमित्याह - आआगणिकाद्यर्थम् इति। आआगणिकादीनामर्थः=प्रयोजनं यस्मस्तत्? तथोक्तम्। अर्थस्तु तेषामादिवृद्धिरेव। तत्रैवं व्याख्यानम् - इञ्ग्रहणमिहेकारादेस्तद्धितस्योपलक्षणार्थम्, तेनान्यत्रापि तद्धिते प्रतिषेधो भवतीति। तदन्तस्य इति। इञन्तस्यान्यन्नायीति। कथं पुनरिष्यमाणोऽन्यत्र लभ्यते, यावताऽन्यत्रापि तद्धित उत्पन्न इञः यस्येति च (6.4.148) इति लोपेन भवितव्यम्? नैष दोषः; इञीति नेयं निमित्तसप्तमी, किं तर्हि? परसप्तमी। निमित्तसप्तम्यामण्निमित्ताय वृद्धेः प्रतिषेधस्य प्रतिषेधो न स्यात्। परसप्तम्यां तु यद्यपि लोपः क्रियते, तथापि स्थानिवद्भावात्? प्रतिषेधः सिध्यति। आआभस्त्रम् इति। इञश्च (4.2.111) इत्यण्॥
Prakriyasarvasvam¶
श्वादेः शब्दस्येञि परे द्वारादित्वात् प्राप्त ऐच् न स्यात् । श्वदंष्ट्रस्यापत्यं श्वादंष्ट्रिः ॥ <karika> वहीनरस्यादिवृद्धिप्राप्तावित्वमिहेष्यते । इकारस्य पुनर्वृद्धिस्तेन वैहीनरिः सुतः ॥ २०० ॥ </karika>
Vartika¶
इकारादाविति वाच्यम् ।