73008: श्वादेरिञि ================= **Padacheda:** श्वादेः | S | 6 | 1 | इञि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A compound beginning with श्वन् and followed by the तद्धित affix इञ् is not governed by the prohibition nor takes the augment taught in द्वारादीनां च (7.3.4). Vasu English Translation ------------------------ A compound beginning with श्वन् and followed by the तद्धित affix इञ् is not governed by the prohibition nor takes the augment taught in द्वारादीनां च (7.3.4). Thus the descendant of श्वभस्त्र is श्वाभस्त्रिः, so also श्वादंष्ट्रिः ॥ The word श्वन् is included in the list of *Dvaradi* words (7.3.4)., the present *sutra* implies that the rule (7.3.4) applies not only to those words, but to compounds beginning with those words. Vart:- This rule applies when any *Taddhita* affix beginning with इ follows; as श्वगणेन चरति = श्वागणिकः, श्वायूथिकः (4.4.11). The prohibition applies, when other *Taddhita* affixes follow such a word ending with इञ् (an affix beginning with इ) : as from श्वाभस्त्रि we have श्वाभस्त्रम् (श्वाभस्त्रेरिदं) ॥ Bhashya ------- श्वादेरिञ्ञि अयं श्वञ्ञ्छब्दो(2) द्वारादिषु पठ्यते, तत्र कः प्रसङ्गो यत्तदादेः स्यात्, नैव(3) प्राप्नोति नाऽर्थः प्रतिषेधेन ॥ (ःइह तस्य वा(1) ग्रहणं भवति तदन्तस्य वा, न चेदं तत्, नापि तदन्तम् ) ॥ तदादिविधिना प्राप्नोति ॥ न(4) वै तदादिविधिरस्ति ॥ अत उत्तरं पठति - प्रतिषेधे श्वादिग्रहणं ज्ञापकमन्यत्र श्वन्ग्रहणे(5) तदादिग्रहणस्य, शौवहानाद्यर्थम् प्रतिषेधे श्वादिग्रहणं क्रियते ज्ञापकार्थम् ॥ किं ज्ञाप्यम् ? ॥ एतज्ज्ञापयत्याचार्यः-अन्यत्र च श्वन्ग्रहणे तदादिविधिर्भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ शौवहानाद्यर्थम् । शौवहानं नाम(1) नगरं शौवादंष्ट्रो मणिरिति इकारादिग्रहणं च श्वागणिकाद्यर्थम् इकारादिग्रहणं च कर्तव्यम् ॥ किं प्रयोजनम् ? ॥ श्वागणिकाद्यर्थम् । श्वगणेन चरति श्वागणिकः(2) तदन्तस्य चाऽन्यत्र प्रतिषेधः(3) तदन्तस्य चाऽन्यत्र(3) प्रतिषेधो वक्तव्यः । श्वाभस्त्रेः स्वं(1) श्वाभस्त्रम् ॥ Kashika ------- श्वादेरङ्गस्येञि परतो यदुक्तं तद् न भवति। श्वभस्त्रस्यापत्यं श्वाभस्त्रिः। श्वादंष्ट्रिः। श्वन्शब्दो द्वारादिषु पठ्यते, तत्र च तदादिविधिर्भवतीत्येतदेव वचनं ज्ञापकम्। इकारादिग्रहणं कर्तव्यं श्वागणिकाद्यर्थम्॥ श्वगणेन चरति श्वागणिकः। श्वायूथिकः। तदन्तस्य चान्यत्रापि तद्धिते प्रतिषेध इष्यते। श्वाभस्त्रेरिदं श्वाभस्त्रम्॥ Siddhanta Kaumudi ----------------- ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्टिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ ॥ (वार्तिकम्) ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥ Balamanorama ------------ **श्वादेरिञि** - आआदेरिञि । 'न कर्मव्यतिहारे' इत्यतो नेत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । आन्शब्द आदिर्यस्येति विग्रहः । आन्शब्दपूर्वपदस्याङ्गस्य इञि परे नैजागम इत्यर्थः । आआमस्त्रिरिति ।अत इञ् । आआदंष्ट्रिरिति ।आदंष्ट्रस्याऽपत्यमित्यर्थः । ननु आन्शब्द एव द्वारादौ पठते नतु आभस्त्रशभ्दः । ततश्च तस्य द्वारादित्वाऽभावादैजागमप्रसक्तिरेव नेत्यत आह — तदादिविधाविति । द्वारादिगणे आन्शब्दस्य पाटेऽपि अस्मादेव प्रतिषेधात् आन्शब्दपूर्वकस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः । तत्फलं तु आवहनस्येदं शौववहानं नाम नगरम् ।ननु प्रकृते आआगणिके इञभवात्कथमयं निषेध इत्यत आह — इकारादाविति वाच्यमिति । इञीति परित्यज्य इकारादाविति वाच्यमित्यर्थः । इढि तु व्यपदेशित्त्वेन इकारादित्वम् । आआगणिक इति ठञि आदिवृद्धिः । आगणिक इति । ष्ठनि रूपम् । आआगणिकीति । ठञन्तात्टिड्ढाण॑ञिति ङीप् । आगणिकीति । षित्त्वान्ङीष् । Tattvabodhini ------------- **श्वादेरिञि** - इदमेव ज्ञापकमिति । द्वारादिगणे आन्शब्दः पठते, न तु आभस्त्र आदंष्ट्रेत्यादिस्तथा चआआदेरिञी॑ति निषेधसूत्रमेव व्यर्थं सद्द्वारादिषु तदादिविधिं ज्ञापयतीत्यर्थः । फलं तु द्वारपालस्यायंदौबारपाल॑इत्यादावैजागमस्य प्रवृत्तिः ।इकारादाविति वाच्यम् । इकारादाविति । सूत्रे इञीत्यपनीय इकारादाविति पठनीयमित्यर्थः । अन्ये तु इञीति स्थाने इतीति पठनीयम् । तथा चाऽङ्गाक्षिप्रप्तत्ययस्य विशेष्यत्वात्यस्मिन्विधिस्तदादौ॑इत्यनेन इकारादिर्लभ्यत इत्याहुः । आगणिकीति । ष्ठनः षित्त्वान्ङीष् । Padamanjari ----------- तत्र चेत्यादि । यदि तत्र तदादिविधिर्न स्यात् एतद्वचनमनर्थकम्, कथम् ? केवलश्वन्शब्दो द्वारादिषु पठ।ल्ते, तत्र कः प्रसङ्गो यतदादेः स्यात् ! तदादिविधिर्भवतीति । अस्मिन्प्रकरणे यदुक्तं तद्वृद्धिभाजोऽचो विशेषणमित्यस्मिन्नर्थे ज्ञापकमित्यर्थः । इकारादिग्रहणं चेत्यादि । श्वादेरितीति वक्तव्यमित्यर्थः । तत्र वर्णग्रहणे सप्तमीनिर्देशातदादिविधिः । श्वागणिक इति ।'श्वगणाट्ठञ्' इति ठञ् । तदन्तस्येति । इञन्तस्य । श्वाभस्त्रमिति । ठिञश्चऽ इत्यण् । तन्निमितो वृद्धिप्रतिषेधः, ऐजागमश्च भिन्नकक्षत्वादशक्य इञाश्रयेण प्रतिषेधेन निवारयितुमिति वचनारम्भः ॥ Nyaas ----- `आआभास्त्रिः आआदंष्ट्रिः` इति। ओव भस्त्रा यस्य, शुन इव दंष्ट्रा यस्येति बहुव्रीहिः, उपसर्जनह्रस्वत्वम्। केन पुनः आआदेर्वृद्धिप्रतिषेधः प्राप्नोति; यतोऽयं प्रतिषेध उच्यते, न ह्रस्य वकारः पदानतः? इत्यत आह - `आशब्दो द्रारादिषु पठते` इति। ननु च केवलः आशब्दो द्वारादिषु पठते, तत्र कः प्रसङ्गौ यतस्तदादेः स्यात्! `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इत् तददिविधिर्ति चेत्? नैतदस्ति; सप्तमीनिर्दिष्टै हल्ग्रहणे च सति तदादिविधिर्भवति, न चात्रैतदुभयमस्तीत्यत आह - `तत्र च` इत्यादि। यदि तत्र तदादिविधिर्न स्यात्, तदैतत्? प्रतिषेधवचनमनर्थकं स्यात्; प्राप्त्वभावादित्यभिप्रायः। ज्ञापकसय प्रयोजनम् - शौवादंष्ट्रो मणिरित्यादौ वृद्धिप्रतिषेधः। `इकारादिग्रहणं कर्तव्यम्` इति। इकारादितद्धितो गृह्रते, येन तदिकारादिग्रहणं व्याख्यानं कर्तव्यमित्यर्थः। किमर्थमित्याह - `आआगणिकाद्यर्थम्` इति। आआगणिकादीनामर्थः=प्रयोजनं यस्मस्तत्? तथोक्तम्। अर्थस्तु तेषामादिवृद्धिरेव। तत्रैवं व्याख्यानम् - इञ्ग्रहणमिहेकारादेस्तद्धितस्योपलक्षणार्थम्, तेनान्यत्रापि तद्धिते प्रतिषेधो भवतीति। `तदन्तस्य` इति। इञन्तस्यान्यन्नायीति। कथं पुनरिष्यमाणोऽन्यत्र लभ्यते, यावताऽन्यत्रापि तद्धित उत्पन्न इञः **यस्येति च** (6.4.148) इति लोपेन भवितव्यम्? नैष दोषः; इञीति नेयं निमित्तसप्तमी, किं तर्हि? परसप्तमी। निमित्तसप्तम्यामण्निमित्ताय वृद्धेः प्रतिषेधस्य प्रतिषेधो न स्यात्। परसप्तम्यां तु यद्यपि लोपः क्रियते, तथापि स्थानिवद्भावात्? प्रतिषेधः सिध्यति। `आआभस्त्रम्` इति। `इञश्च` (4.2.111) इत्यण्॥ Prakriyasarvasvam ----------------- श्वादेः शब्दस्येञि परे द्वारादित्वात् प्राप्त ऐच् न स्यात् । श्वदंष्ट्रस्यापत्यं श्वादंष्ट्रिः ॥ वहीनरस्यादिवृद्धिप्राप्तावित्वमिहेष्यते । इकारस्य पुनर्वृद्धिस्तेन वैहीनरिः सुतः ॥ २०० ॥ Vartika ------- इकारादाविति वाच्यम् ।