73007: स्वागतादीनां च

Padacheda: स्वागतादीनाम् | S | 6 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The prohibition and the augment ordained by न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् (7.3.3), do not apply also to स्वागत etc.

Vasu English Translation

The prohibition and the augment ordained by न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् (7.3.3), do not apply also to स्वागत etc. As स्वागतिकः, (= स्वागतमिति आह) स्वाध्वरिकः, (= स्वधरेण चरति) स्वाङ्गिः, व्याङ्गिः, व्याडिः (sons of Svanga, Vyanga and Vyada). व्यावहारिकः and स्वापतेयः (= स्वपतौ साधुः) ॥ The word व्यवहार does not mean reciprocity of action, for then it would have been governed by the last sutra. स्वपत being a compound with स्व, would have been governed by (7.3.4) as it is included in the Dvaradi list, hence its specific mention here. The following is the list of svagatadi words.

1 स्वागत, 2 स्वध्वर, 3 स्वङ्ग, 4 व्यङ्ग, 5 व्यड, 6 व्यवहार, 7 स्वपति ॥

Kashika

स्वागत इत्येवमादीनां यदुक्तं तद् न भवति। स्वागतमित्याह स्वागतिकः। स्वध्वरेण चरति स्वाध्वरिकः। स्वङ्गस्यापत्यं स्वाङ्गिः। व्यङ्गस्यापत्यं व्याङ्गिः। व्यडस्यापत्यं व्याडिः। व्यवहारेण चरति व्यावहारिकः। व्यवहारशब्दोऽयं लौकिके वृत्ते वर्तते, न तु कर्मव्यतिहारे। स्वपतौ साधुः स्वापतेयः। द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः॥ स्वागत। स्वध्वर। स्वङ्ग। व्यङ्ग। व्यड। व्यवहार। स्वपति। स्वागतादिः॥

Siddhanta Kaumudi

ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्याहरेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् ।<!आहौ प्रभूतादिभ्यः !> (वार्तिकम्) ॥ प्रभूतमाह प्राभूतिकः । पार्याप्तिकः ।<!पृच्छतौ सुस्नातादिभ्यः !> (वार्तिकम्) ॥ सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः । गच्छतौ परदारादिभ्यः ॥ पारदारिकः । गौरुतल्पिकः ॥

Balamanorama

स्वागतादीनां च - स्वागतादिगणे-स्वागत, स्वध्वर इति पठितं, तत्र विशेषमाह — स्वागतादीनां च ।न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच॑ इति प्रकरणे ‘न कर्मव्यतिहारे’ इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति । शेषपूरणमिदम् ।न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच॑ इति प्राप्त ऐज्न स्यादित्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्याहेत्यर्थः । अथ स्वागतादिगणशेषमुदाहरति — स्वङ्गस्येति । व्याङ्गिरिति । व्यङ्गस्यापत्यमिति विग्रहः । व्यडस्येति । न विद्यते डो यस्य स अडः, विगतोऽडो व्यडः । स्वापतेयमिति ।पथ्यतिथिवसतिस्वपतेर्ढञ् । द्वारादित्वादैच् प्राप्तो निषिध्यते । आहाविति । आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः । तदिति पूर्ववार्तिकादनुवर्तते । आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्ठग्वाच्य इत्यर्थः । पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति ।त॑दित्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यष्ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति । ‘सुखशयनशब्द’ इति शेषः । ततश्चअनुशतिकादीनां चे॑ति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः । गच्छताविति । तदित्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यष्ठगित्यर्थः । पारदारिक इति । परदारान्गच्छतीत्यर्थः । गौरुतल्पिक इति । गुरुतल्पं गच्छतीत्यर्थः । गुरुतल्पो=गुरुस्त्री ।

Tattvabodhini

स्वागतादीनां च - स्वपतेयमिति ।पथ्यतिथि वसतिस्वपतेर्ढञ॑ । स्वशब्दस्य द्वारादित्वादैजागमस्य प्राप्तिः । द्वारादित्वफलं तु स्वस्येदंसौव॑मिति ज्ञेयम् ।आहौ प्रभूतादिभ्यः । आहाविति ।उपसङ्ख्यान॑मित्यनुषज्यते । आहेतिपदे एकदेशस्य प्रकृतिभागस्यागन्तुकेनेकारेणआहा॑वित्यनुकरणम् । प्राभूतिक इति । क्रियाविशेषणाद्वक्तरि प्रत्ययः ।

Padamanjari

व्यावक्रोशीत्यादौ व्यवपूर्वो धातुः कर्मव्यतिहारे दृष्ट इति व्यवहारशब्दोऽपि कर्मव्यतिहारे वर्तते, ततश्च पूर्वेणैवात्र सिद्धेरत्रास्य पाठोऽनर्थक इत्याशङ्क्याह - व्यवहारशब्दोऽयमिति । द्वारादिषु स्वशब्दस्य पाटादत्र प्रसङ्ग इति ।’तदादेरपि तत्र ग्रहणं भवति’ इत्युक्तमेव ॥

Nyaas

स्वागतिकः इति। शोभनमागतं स्वागतम्। तदाहेत्यादौ प्रभूतादिब्य उपसंख्यानम् (वा।483) इति ठक्। स्वाध्वरिकः इति। अत्रापि चरति (4.4.8) इति ठक्। शोभनोऽध्वरः स्वध्वरः। स्वाङ्गिः इत्यादि। स्वाङ्गिण्र्याडिः इति। अत इङ् (4.1.95) । शोभनान्यङ्गान्यस्य स्वङ्गः, विगतान्यङ्गान्यस्य व्यङ्गः, विगतोऽडोऽस्य व्यङः। व्यवहरणं व्यवहारः, भावे घञ्। ननु च व्यवहारशब्दोऽयं क्रमव्यतीहारे वर्तते, तत्र न कर्मव्यतीहारे (7.3.6) इति प्रतिषेधः सिद्धः, तत्? कस्मादिह पठते? इत्याह - व्यवहारशब्दोऽयम् इति। किं पुनर्लौकिकम्? लौकिकं पुनर्वृत्तं येनाचारेण व्यवहाराल्लोके व्यावहारिक इत्युच्यते तद्वेदितव्यम्। स्वापतेयम् इति। पथ्यतिथिवसतिस्वपतेर्ढञ् (4.4.104) । कथं पुनरत्र प्राप्तिः, यावता नास्य वकारः पदन्तः? इत्याह - द्बारादिषु स्वशब्दपाठादस्य प्राप्तिः इति। तदादिविधिनेत्यभिप्रायः। यता तदादिविधिर्भवति तथा तत्रैवोक्तम्॥

Prakriyasarvasvam

एषामैजागमो न स्यात् । एषु स्वङ्गव्यङ्गव्यडानां स्वाङ्गिः । व्याङ्गिः । व्याडिः ॥