73009: पदान्तस्यान्यतरस्याम्¶
Padacheda: पदान्तस्य | S | 6 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The sūtra द्वारादीनां च (7.3.4) is optionally applied to श्वन् followed by पद।
Vasu English Translation¶
The sūtra द्वारादीनां च (7.3.4) is optionally applied to श्वन् followed by पद। As श्वापदस्येदं = श्वापदम् or शौवापदम् ॥
Kashika¶
श्वादेरङ्गस्य पदशब्दान्तस्यान्यतरस्यां यदुक्तं तद् न भवति। श्वपदस्येदं श्वापदम्, शौवापदम्॥
Siddhanta Kaumudi¶
श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥
Balamanorama¶
पदान्तस्यान्यतरस्याम् - प्रसङ्गादाह — पदान्तस्यान्यतरस्याम् ।आआदेरिञी॑त्यस्यमादुत्तरं सूत्रमिदम् । पदं-पदशब्दोऽन्तो यस्येति विग्रहः । तदाह — पदशब्दान्तस्येति ऐज्वेति । निषेधविकल्पे सति विधिविकल्पः । फलित इति भावः । आआपदस्येति । शुनः पदमिव पदं यस्येति विग्रहः ।शुनो दन्तदंष्ट्रे॑त्यादिना दीर्घः । शौवापदमिति ।तस्येद॑मित्यण् । ‘वृद्धाच्छः’ इति तु न , अनभिधानादित्याहुः । अन्ये तु आपुच्छवद्दीर्घाऽभावे अणमाहुः ।
Tattvabodhini¶
पदान्तस्यान्यतरस्याम् - आआपादस्येति ।अन्येषामपि दृश्यते॑इति दीर्घः । धावुक इति वेतनादिगणे धनुर्दण्डेति पठते, तच्च सङ्घातविगृहीतार्थम् । तथा चधानुर्दण्डिकः॑,दाण्डिक॑ इत्यप्युदाहार्यम् ।
Nyaas¶
पूर्वेण नित्ये प्राप्ते प्रतिषेधे विकल्प उच्यते। पदान्तस्य इति। पदशब्दान्तस्येत्यर्थः। आआपदम् इति। शुन इव पदमस्येति आपदः, तस्येदं आआपदम्। शौवापदम् इति। अन्येषामपि दृश्यते (6.3.137) इति दीर्घः॥
Prakriyasarvasvam¶
श्वादेः पदशब्दान्तस्याङ्गस्य ऐज् वा न स्यात् । श्वापदसम्बन्धि श्वापदं, शौवापदम् । ‘न्यङ्कोर्वा’ इति केचिदिति कौमुदी । न्याङ्कवं, नैयङ्कवम् । सुहृद इदं सौहार्दम् । क्षैरसैन्धवम् । ‘हृद्भग—’ (७-३-१९) इत्युभयपदवृद्धिः । तत्र नदीसमुद्रजनपदाः सिन्धव उक्ताः । अनुशतिकस्येदम् आनुशातिकम् । सर्वपुरुषाणामिदं सार्वपौरुषम् । अनुशतिकादिः ।।