72116: अत उपधायाः¶
Padacheda: अतः | S | 6 | 1 |
उपधायाः | S | 6 | 1 |
Sutrartha¶
अङ्गस्य उपधा-अकारस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।
यदि कस्मिंश्चित् अङ्गे अकारः उपधास्थाने अस्ति, तर्हि तस्य अकारस्य णित्-प्रत्यये परे / ञित्-प्रत्यये परे च वृद्धि-आदेशः (= आकारः) भवति । यथा - 1. पठ् + घञ् [भावे (3.3.18) इत घञ्-प्रत्ययः] → पाठ [अत उपधायाः (7.2.116) इति ञित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः] 2. पठ् + ण्वुल् [ण्वुल्तृचौ (3.1.133) इति ण्वुल्-प्रत्ययः] → पाठ् + वु [अत उपधायाः (7.2.116) इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः] → पाठ् + अक [युवोरनाकौ (7.1.1) इति वु-इत्यस्य अक-आदेशः] → पाठक 3. क्षल्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - क्षल् + णिच् [सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) इति स्वार्थे णिच्] → क्षल् + इ [इत्संज्ञालोपः । सनाद्यन्ताः धातवः (3.1.32) इति धातुसंज्ञा] → क्षालि [अत उपधायाः (7.2.116) इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः] → क्षालि+ लट् [वर्तमाने लट् इति लट्] → क्षालि + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → क्षालि+ शप् + तिप् [कर्तरि शप् (3.1.68) इति शप्] → क्षाले + अ + ति [सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → क्षालय् + अ + ति [एचोऽयवायावः (6.1.78) इति अयादेशः] → क्षालयति ज्ञातव्यम् - अस्मिन् सूत्रे ‘अतः’ इत्यनेन ‘अकारस्य वृद्धिः भवति’ इति निर्दिष्टमस्ति, अतः इको गुणवृद्धी (1.1.3) इत्यस्य प्रयोगः अत्र न भवति ।
Sutrartha (English)¶
The उपधा-अकार of an अङ्ग undergoes a वृद्धिः when followed by a णित् or a ञित् प्रत्यय.
Vasu English Summary¶
In a अङ्ग (stem) ending in a consonant with an अ immediately preceding it, the वृद्धि is substituted for such अ when followed by an indicatory ञ् or ण्।
Vasu English Translation¶
In a अङ्ग (stem) ending in a consonant with an अ immediately preceding it, the वृद्धि is substituted for such अ when followed by an indicatory ञ् or ण्। As पाकः, त्यागः, यागः with घञ्, पाचि with the causative णि, पाचकः with ण्वुल् ॥ Why do we say ‘अ’? Observe भेदयति, भेदकः with guna only from भिद् where इ is penultimate and not अ ॥ Why do we say ‘penultimate’? Observe चकासयति, तक्षकः ॥
Kashika¶
अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति। पाकः। त्यागः। यागः। पाचयति। पाचकः। पाठयति। पाठकः। अत इति किम्? भेदयति। भेदकः। उपधाया इति किम्? चकासयति। तक्षकः॥
Siddhanta Kaumudi¶
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ॥
Laghu Siddhanta Kaumudi¶
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥
Balamanorama¶
अत उपधायाः - णलि अजन्तत्वाऽभावादचो ञ्णितीति वृद्धेरप्राप्तौ — अत उपधायाः । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतस्तदनुवृत्तेरिति भावः । चखादेति । एत्वाभ्यासलोपौ तु नात्र भवतः, पित्त्वेऽकित्त्वात्, आदेशादित्वात्, तदपेक्षया वृद्धेः परत्वाच्च ।
Tattvabodhini¶
अत उपधायाः - अत उप । अतः किम् । तुतोद । उपदायाः किम् । गणयति । इह अतो लोपं बाधित्वा परत्वाद्वृद्धिः स्यात् ।
Nyaas¶
पाक इत्यादौ भावे घञ्, चजोः कु घिण्ण्यतोः (7.3.52) इति कुत्वम्। रागः इति। घञि च भावकरणयोः (6.4.27) इत्यनुनासिकलोपः। पाचयति इति। हेतुमति च (3.1.26) इति णिच्। चकासयति इति। उपधाग्रहणादिह चकारादकारस्य न भवति। तपरकरणं लाघवार्थम्। असति हि स्मिन्नस्योपधाया इत्युच्यमाने गौरवं स्यात्। दीर्घनिवृत्त्यर्थं तु तपरकरणं न भवति, न दीर्घस्य कृतायां वृद्धौ कश्चिद्विशेषोऽस्ति॥
Prakriyasarvasvam¶
ञिणि णिति च परेऽङ्गस्योपधाया अतो वृद्धिः स्यात् । वाह्यम् । ग्राह्यम् । समासार्हा समस्या । ‘संज्ञापूर्वकं विधिरनित्य’ इतीह वृद्धिर्न । ‘मव्य बन्धने’ मव्य् य,
Sutra Prayogas¶
अपाती (भट्टिकाव्यम्): अत उपधायाः इति वृद्धिः।