72117: तद्धितेष्वचामादेः¶
Padacheda: तद्धितेषु | S | 7 | 3 |
अचाम् | S | 6 | 3 |
आदेः | S | 6 | 1 |
Sutrartha¶
णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति ।
यदि कस्मिंश्चित् तद्धित-प्रत्यये णकारः ञकारः वा इत्संज्ञकः अस्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य प्रथमः यः अच्-वर्णः, तस्य वृद्धिः भवति । उदाहरणानि एतानि - 1. दक्ष + इञ् [तस्यापत्यम् (4.1.92) अस्मिन् अर्थे अत इञ् (4.1.95) इति इञ्-प्रत्ययः] → दाक्ष इञ् [तद्धितेष्वचामादेः (7.2.117) इति ञित्-प्रत्यये परे आदिवृद्धिः । इत्युक्ते, अङ्गस्य आदिवर्णः यः अकारः, तस्य वृद्धिः आकारः] → दक्ष् + इञ् [यस्येति च (6.4.148) इति अङ्गस्य अकारस्य लोपः] → दाक्षि 2. शीत + ष्यञ् [वर्णदृढादिभ्यः ष्यञ् च (5.1.123) इति ष्यञ्-प्रत्ययः] → शैत + य [तद्धितेष्वचामादेः (7.2.117) इति ञित्-प्रत्यये परे आदिवृद्धिः । ईकारस्य वृद्धिः ऐकारः] → शैत् + य [यस्येति च इति अकारलोपः] → शैत्य 3. उपगु + अण् [तस्यापत्यम् (4.1.92) इति अण्-प्रत्ययः] → औपगु अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः । उकारस्य वृद्धिः औकारः] → औपगो अ [ओर्गुणः (6.4.146) इत्यनेन उकारस्य गुणः ओकारः] → औपगव [एचोऽयवायावः (6.1.78) इति अव्-आदेशः] 4. सोम + ट्यण् [सास्य देवता (4.2.24) अस्मिन् अर्थे सोमाट् ट्यण् (4.2.30) इति ट्यण्-प्रत्ययः] → सौम + य [तद्धितेष्वचामादेः (7.2.117) इति ञित्-प्रत्यये परे आदिवृद्धिः । ओकारस्य वृद्धिः औकारः] → सौम् + य [यस्येति च इति अकारलोपः] → सौम्य ज्ञातव्यम् - अस्मिन् सूत्रे ‘अङ्गस्य आदिस्वरस्य वृद्धिः भवति’ इति निर्दिष्टमस्ति, तथा च ‘अचः’ इत्यपि अनुवर्तते, अतः इको गुणवृद्धी (1.1.3) इत्यस्य प्रयोगः अत्र न भवति ।
Sutrartha (English)¶
When followed by a णित् / ञित् तद्धित-प्रत्यय, the आदि-स्वर of the अङ्ग undergoes a वृद्धि.
Vasu English Summary¶
The वृद्धि is substituted for the first vowel of the अङ्ग (stem) when a तद्धित affix having an indicatory ञ् or ण् follows.
Vasu English Translation¶
The वृद्धि is substituted for the first vowel of the अङ्ग (stem) when a तद्धित affix having an indicatory ञ् or ण् follows. As गार्ग्यः from गर्ग + यञ्, so also वात्स्यः ॥ दाक्षिः (दक्ष + इञ्), प्लाक्षिः, औपगवः (with अण् from उपगु), कापठवः &c. This debars the Vriddhi of (7.2.115) and (7.2.116) as त्वाष्ट्रः from त्वष्ट्, and जागतः from जगत् ॥
Bhashya¶
तद्धितेष्वचामादेः अज्ग्रहणं कर्तव्यम् ॥ ननु च क्रियत एव(2) ॥ द्वितीयं कर्तव्यं, - यथाऽचामादिग्रहणमज्विशेषणं विज्ञायेत - अचामादेरचइति ॥ अथाऽक्रियमाणेऽज्ग्रहणे कस्याऽचामादिग्रहणं विशेषणं स्यात् ? ॥ इग्विशेषणमित्याह, - अचामादेरिक इति ॥ तत्र को दोषः ? ॥ इहैव स्यात् - ऐतिकायनः औपगवः । इह न स्यात् - गार्ग्यो वात्स्य इति ॥ तत्तर्ह्यज्ग्रहणं कर्तव्यम् ? ॥ न कर्तव्यम् । प्रकृतमनुववर्तते ॥ क्व प्रकृतम् ? ॥ अचो ञ्ञ्णितीति ॥ यदि तदनुवर्ततेऽत उपधाया अचश्चेति अज्मात्रस्य उपधाया वृद्धिः प्रसज्येत - भेदकः(3) छेदक इति ॥ अकारेण तपरेणाऽचं विशेषयिष्यामः - अचोऽतइति ॥ इहेदानीमच इत्यनुवर्तते अतइति निवृत्तम् । अथवा - ॥ मण्डूकगतयोऽधिकाराः(4) ॥ तद्यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ॥ अथ वैकयोगः करिष्यते अचो ञ्ञ्णित्यत उपधायाः (इति(1)) । ततः - तद्धितेष्वचामादेरिति । न चैकयोगेऽनुवृत्तिर्भवति ॥ तद्धितेष्वचामादिवृद्धावन्त्योपधलक्षणप्रतिषेधः ॥ तद्धितेष्वचामादिवृद्धावन्त्योपधलक्षणाया वृद्धेः प्रतिषेधो वक्तव्यः । क्रौष्ट्रः । जागत इति ॥ ननु चाऽचामादिवृद्धिरन्त्योपधालक्षणां वृद्धिं बाधिष्यते ॥ कथमन्यस्योच्यमानाऽन्यस्य बाधिका स्यात् ? ॥ असति खल्वपि संभवे बाधनं भवति,अस्ति च संभवो यदुभयं स्यात् ॥ लोकविज्ञानात्सिद्धम् ॥ सत्यपि संभवे बाधनं भवति । तद्यथा- दधि ब्राह्मणेभ्यो(3) दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति, एवमिहापि सत्यपि संभवेऽचामादिवृद्धिरन्त्योपधलक्षणां(2) वृद्धिं बाधिष्यते ॥ विषम उपन्यासः । नाप्राप्ते दधिदाने तक्रदानमारभ्यते तत्प्राप्ते आरभ्यमाणं बाधकं भविष्यति, इह पुनरप्राप्तायामन्त्योपधालक्षणायां(2) वृद्धावचामादिवृद्धिराभ्यते - सुश्रुत्सौश्रुत इति ॥ पुष्करसद्ग्रहणाद्वा ॥ अथ वा यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति तज्ज्ञापयत्याचार्योऽचामादिवृद्धावन्त्योपधालक्षणा वृद्धिर्न भवतीति ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभष्ये सप्तमाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ पादश्च समाप्तः ॥
Kashika¶
तद्धिते ञिति णिति च प्रत्यये परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति। गार्ग्यः। वात्स्यः। दाक्षिः। प्लाक्षिः। णिति — औपगवः। कापटवः। त्वाष्ट्रः, जागत इत्यत्राचामादेर्वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते॥
Siddhanta Kaumudi¶
ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥
Laghu Siddhanta Kaumudi¶
ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात् । यस्येति च । पौर्वशालः ॥ पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ । द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् (वार्त्तिकम्)॥
Balamanorama¶
तद्धितेष्वचामादेः - तद्धितेष्वचामादेः ।अचोञ्णिती॑त्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति च ।अचा॑मिति निर्धारणषष्ठी । तदाह — ञितीति ।
Tattvabodhini¶
तद्धितेष्वचामादेः - तद्धितेष्व । अचां मध्ये आदिरजेवेतिअचोऽञ्णिती॑ति सूत्रदच इत्यनुवर्तत इत्याशयेन व्याचष्टे — अचेति । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतोऽनुवर्तत इति भावः ।
Padamanjari¶
नाडायनः, चारायण इति । नडादिभ्यः फक् । आक्षिकः, शालाकिक इति । दीव्यत्यर्थे ठक् ॥
Nyaas¶
अचाम् इति निर्धारणे षष्ठी। अचामादेरचः स्थाने इति। ननु चेक्परिभावोपस्थानादिक एव स्थाने वृद्ध्या भवितव्यम्, तस्मादिकः स्थान इत्येवं वक्तव्यम्, न त्वचः स्थान इति? एवं मन्यते - अचो ञ्णिति (7.2.115) इत्यतः स्थानिनिर्देशार्थं द्वितीयमज्ग्रहणमनुवर्तते, तेन यथा अचो ञ्णिति (7.2.115) इत्यत्र स्थानिनिर्देशादिक्परिभाषा नोपतिष्ठते, तथेहापीत्यदोषः। गार्ग्यः, वात्स्यः इति। गर्गादिभ्यो यञ् (4.1.105) । दाक्षिः, प्लाक्षिः इति। अत इञ् (4.1.95) । औपगवः, कापटवः इति। प्राग्दीव्यतीयोऽण्? (4.1.83) ।अथ त्वाष्ट्रः, जागत इत्यतर त्वष्टृजगद्भ्यां तस्येवम् (4.3.120) इत्यणि कृते यथाक्रमं अचो ञ्णिति (7.2.115) इत्यज्लक्षणा वृद्धिः प्राप्नोति, अत उपधायाः (7.2.116) इत्युपधालक्षणा वृद्धिः कस्मान्न भवति? इत्याह - अचामादेर्वृद्धिरन्त्योपधावृर्द्धि बाधते इति। कथं पुनरन्यस्योच्यमानाऽन्यस्य बाधिका स्यात्? ज्ञापकात्। यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति, तज्ज्ञापयति - यत्रादिवृद्धिस्तत्रान्या वृद्धिर्न भवतीति। तस्यानुशतिकादिषु पाठस्यैतत्? प्रयोजनम् - उभयपदवृद्धिर्यथा स्यात्, पुष्करसदोऽपत्यं पौष्करसादिरिति। बाहवादिभ्यश्च (4.1.96) इतीञ्। यदि चादिवृद्धिरन्यस्या वृद्धेर्बाधिका न स्यात्, उपधालक्षणेनैव वृद्धेः सिद्धत्वात्? पौष्करसादिशब्दस्य, पुष्करसच्छब्दोऽनुशतिकादिषु न पठएत। पश्यत्याचार्यः - यत्रादिपदवृद्धिस्तत्रान्या वृद्धिर्न भवतीति; यतोऽनुशतिकादिषु पुष्करसच्छब्दं पठति। ननु ठगर्थस्तत्र पठः, तत्र ह्रुपधालक्षणा वृद्धिर्न प्राप्नोतीति ठकोऽञ्णित्त्वात् - पुष्करसदा चरतीति पौष्करसादिक इति? नैतदस्ति; यदि पुष्करसच्छब्दाच्चरत्यर्थे ठगुत्पद्यते। कस्मात्? पुनर्नोत्पद्यते? अनभिधानात्। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। तस्माज्ज्ञापक एवानुशतिकादिषु पाठः पुष्करसच्छब्दस्य॥
Prakriyasarvasvam¶
ञिति णिति च तद्धिते परेऽचामादेरचो वृद्धिः स्यात् व्यावहास । ‘टिड्ढाणञ्—’ (४-१-१५) इति ङीप् । ईतिपरेऽतो लोपः । व्यावहासी परस्परहसनम् । एवं व्यात्युक्षी । व्यतीक्षाव्यतीहेत्यादौ णज् नेष्टः ॥