72115: अचो ञ्णिति¶
Padacheda: अचः | S | 6 | 1 |
ञ्णिति | S | 7 | 1 |
Sutrartha¶
अजन्तस्य अङ्गस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।
- यदि अजन्तात् अङ्गात् परः णित् / ञित् प्रत्ययः आगच्छति, तर्हि तस्य अजन्तस्य अङ्गस्य (अन्तिमस्वरस्य) वृद्धि-आदेशः जायते ।
उदाहरणानि एतानि -
1. नी + ण्वुल् [ण्वुल्तृचौ (3.1.133) इति ण्वुल्-प्रत्ययः] → नै + वु [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन अचो ञ्णिति इति वृद्धि-आदेशः । ईकारस्य वृद्धिः ऐकारः] → नै + अक [युवोरनाकौ (7.1.1) इति वु-इत्यस्य अक-आदेशः] → नायक [एचोऽयवायावः (6.1.78) इति आय्-आदेशः] 2. भू + घञ् [भावे (3.3.18) इति घञ्-प्रत्ययः] → भौ + अ [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन अचो ञ्णिति इति वृद्धि-आदेशः । ऊकारस्य वृद्धिः औकारः] → भाव [एचोऽयवायावः (6.1.78) इति आव्-आदेशः] 3. कृ-धातोः णिच्-प्रत्ययं कृत्वा ‘कारि’ इति आतिदेशिकः धातुः जायते - कृ + णिच् [हेतुमति च (3.1.26) इति णिच्] → कार् + इ [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन अचो ञ्णिति इति वृद्धि-आदेशः । ऋकारस्य वृद्धिः आकारः, उरण् रपरः (1.1.51) इति सः रपरः] → कारि [सनाद्यन्ताः धातवः (3.1.32) इति धातुसंज्ञा] विशेषः - इको गुणवृद्धी (1.1.3) इत्यनेन वस्तुतः इक्-वर्णस्यैव गुणः वृद्धिः वा भवेत्, परन्तु अस्मिन् सूत्रे ‘अचः’ इति निर्देशसामर्थ्यात् अत्र इक्-भिन्नस्य अच्-वर्णस्य वृद्धिः आदेशः भवितुमर्हति । यथा, ‘गो’शब्दस्य प्रथमैकवचनस्य रूपम् - गो + सुँ [प्रथमैकवचनस्य प्रत्ययः] → गो + स् [गोतो णित् (7.1.90) इत्यनेन ओकारान्तप्रातिपदिकात् परस्य सर्वनामस्थानप्रत्ययस्य णिद्वद्भावः] → गौ + स् [णिति प्रत्यये परे अजन्तस्य अङ्गस्य अचो ञ्णिति (7.2.115) इति वृद्धिः] → गौः [ससजुषोः रुँः (8.2.66) इति रुँत्वम्, खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः]
Sutrartha (English)¶
An अजन्त अङ्ग undergoes वृद्धि when followed by a णित् or a ञित् प्रत्यय.
Vasu English Summary¶
Before the affixes having an indicatory ञ् or ण् , वृद्धि is substituted for the end-vowel of a अङ्ग (stem).
Vasu English Translation¶
Before the affixes having an indicatory ञ् or ण् , वृद्धि is substituted for the end-vowel of a अङ्ग (stem). Thus एकस्तण्डुलनिचायः, (3.3.20) द्वौ शूर्पनिष्पावौ, कारः and हारः (with धञ्); गौः, गावौ, गावः, सखायौ, सखायः where the case-endings are णित् by (7.1.90), (7.1.92). जैत्रम्, यौत्रम् with the Unadi ष्ट्रण् from जि and यु ॥ च्यौत्नः with त्नण् and means ‘strength’. It is an obsolete Vedic word.
Bhashya¶
अचो ञ्ञ्णिति अज्ग्रहणं किमर्थम् ? ॥ वृद्धावज्ग्रहणं गोऽर्थम् ॥ वृद्धावज्ग्रहणं क्रियते (किं प्रयोजनम्(1) ? ॥ गोऽर्थम् ।) गोतो वृद्धिर्यथा स्यात् - गौरिति ॥ नैतदस्ति प्रयोजनं, णित्करणसार्मथ्यादेवात्र वृद्धिर्भविष्यति ॥ (अस्त्यन्यण्णित्करणस्य(1) प्रयोजनम् ॥ किम् ? ॥ गावौ गाव इत्यत्राऽत उपधाया इति वृद्धिर्यथा स्यात् ॥) ॥ अथ योगविभागः किमर्थो न ञ्ञ्णित्यत उपधाया इत्येवोच्येत ॥ का रूपसिद्धिः-चायको लावकः कारकः हारकः(2) ? ॥ गुणे कृतेऽयवो रपरत्वे चाऽत उपधाया इत्येव सिद्धम् ॥ (न सिद्ध्यति) । ॥ योगविभागः सखिव्यञ्ञ्जनाद्यर्थः ॥ योगविभागः क्रियते ॥ (किमर्थः ? ॥ सखिव्यञ्ञ्जनार्थः ।) सख्यर्थो व्यञ्ञ्जनाद्यर्थश्च । सख्यर्थस्तावत् - सखायौ सखायः । व्यञ्ञ्जनाद्यर्थः - जैत्रं यौत्रं च्यौत्रम् ॥ योगविभागे चेदानीं सखिव्यञ्ञ्जनाद्यर्थे क्रियमाणेऽज्ग्रहणमपि कर्तव्यं भवति ॥ किं प्रयोजनम् ? ॥ गोर्थम् ॥ ननु चोक्तं णित्करणसार्मथ्यादेवात्र वृद्धिर्भविष्यति ॥ अस्त्यन्यण्णित्करणे प्रयोजनम् ॥ किम् ? ॥ गावौ गावः । अवादेशे कृतेऽत उपधाया इति वृद्धिर्यथा स्यात् ॥ यत्तु(3) सौ णित्करणं तदनवकाशं, तस्याऽनवकाशत्वादेव वृद्धिर्भविष्यति ॥ यथैव खल्वपि णित्करणसार्मथ्यादनिकोऽपि वृद्धिः प्रार्थ्यते एवं तत्वमपि प्राप्नोति । तत्वमपि हि ञ्ञ्णितीत्युच्यते । तस्मादज्ग्रहणं कर्तव्यम्(1) ॥ (अचो ञ्ञ्णिति) ॥
Kashika¶
अजन्तस्याङ्गस्य ञिति णिति च प्रत्यये वृद्धिर्भवति। ञिति — एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कारः। हारः। णिति — गौः, गावौ, गावः। सखायौ, सखायः। जैत्रम्। यौत्रम्। च्यौत्नः जयतेर्यौतेश्च उणादयो बहुलम् (३.३.१) इति ष्ट्रण् प्रत्ययः। च्यवतेरपि त्नण्॥
Siddhanta Kaumudi¶
ञिति णिति च प्रत्यये परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥
Laghu Siddhanta Kaumudi¶
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥
Balamanorama¶
अचो ञ्णिति - अचोञ्णिति । ञ् च ण् चञ्णौ, तौ इतौ यस्य तत् ञ्णित् । ‘मृजेः’ इत्यतोवृद्धि॑रित्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतमचा विशेष्यते । ततस्तदन्तविधिः । तदाह-अजन्तस्येत्यादिना । स्थानसाम्यादिकारस्य वृद्धिरैकारः । तस्य आयादेश इत्यभिप्रेत्याह-सखायाविति । एवं-सखायः । सखायं सखायौ । सखीनिति शसि हरिवद्रूपम् । असर्वनामस्थानत्वाण्णित्त्वाऽभावान्न वृद्धिः । घिसंज्ञाऽभावादिति ।शेषो घ्यसखी॑त्यत्र असखीति पर्युदासादिति भावः । न तत्कार्यमिति । घिप्रयुक्तकार्यं नेत्यर्थः । सख्येति । सखि-आ इति स्थिते घित्वाऽभावादाङो नाऽस्त्रियामिति नाभावाऽभावे यणि रूपम् । सख्ये इति । सखि-ए इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि रूपम् । ङसिङसोः-सखि अस् इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि सख्यस् इति स्थिते ।
Tattvabodhini¶
अचो ञ्णिति - अचोञ्णिति ।मृजेर्वृद्धि॑रित्यतोवृद्धि॑रित्यनुवर्तते,अङ्गस्ये॑ति चानुवृत्तमचा विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेन व्याचष्टे -अजन्ताङ्गस्येति ।
Padamanjari¶
तण्डुलनिश्चाय इत्यादौ परिमाणाख्ययां सर्वेभ्यः इति घञ् । गौः, गावौ, गाव इति । अत्र गौरित्येतत्साक्षादुदाहरणम्, इतरत्रावादेशे कृते अत उपधायाः इत्येव सिद्धम् । सखायौ, सखाय इति । अत्रापि सखायावित्येतदुदाहरणम्, जसि तु जसि चेति गुणे अयादेशे च कृते पूर्ववत्सिद्धम् । च्यौत्नमिति बलनाम, छान्दसम् - तमिच्च्यौत्नैरार्यन्ति । किमर्थ पुनरिदमुच्यते, यावता जेतृयोतृशब्दाभायां प्रज्ञाद्यणि जैत्रम्, यौत्रमिति सिद्धम् । च्यौत्नमिति उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तण्उलनिश्चायः श्चावकः, लावक इत्यादौ गोतो णित् इत्येतट् गोत औत् इति वक्तव्यम् - गोत औकारादेशो भवति सर्वनामस्थाने परतः । कथं सखायौ, सखायः सख्युरसम्बुद्धौ इत्येतत् सख्युरैत् तैति वक्ष्यामि, अत्रोच्यते ञ्णितीति तावदुतरार्थं वक्तव्यम् । किञ्च - प्रियमाचष्टे प्राप्ययतीत्यादौ प्राद्यादेशेषु वृद्धिने स्यात् । अथ ते दीर्घान्ता विधीयेरन् तदतिगुरु स्यादिति यथान्यासमेवास्तु ॥
Nyaas¶
निश्चायनिष्पावौ [एकसतण्डुलनिश्चायः, द्वौ शूर्पनिष्पावौ - काशिका] इति। निष्पूर्वाच्चिनीतेः, पुनातेश्च परिमाणाख्यायां सर्वेभ्यः (3.3.20) इति धञ्। इदुपधस्य चाप्रत्ययस्य (8.3.41) इति विसर्जनीयषत्वम्। कारः, हारः इति। कृञः ह्मञश्च भावे घञ्। गौः, गावो गावः इति। गोतो णित् (7.1.90) इति सर्वनामस्थानस्य णित्त्वम्। सखायौ, सखायः इति। अत्रापि सख्युरसम्बुद्धौ (7.1.92) इति। जयतेः, यौतेश्च इति। जि जये (धातुपाठः-561), यु मिश्रणे [मिश्रणेऽमिश्रणे च - धातुपाठः-] (धातुपाठः-1033)। च्यवतेः इति। च्युङ छ्युङ्? ज्युङ्? प्रुङ्? प्लुङ्? गतौ`[नास्ति - धातुपाठः-] (धातुपाठः-955-958)। अज्ग्रहणमनिकोऽपि यथा स्यात् - गोरिति। ननु णित्करणसामर्थ्यादेव तत्र भविष्यति? नैतदस्ति; अस्ति ह्रन्यत्? णित्करणस्य प्रयोजनम्, किं तत्? गावौ, गाव इत्यवादेशे कृते **अत उपधायाः** (7.2.116) इति वृद्धिर्यथा स्यात्। यद्येवम्, गौरित्यत्रागुणविषये वृद्धिरियं कृतार्थेति कारयतीत्यादिषु परत्वाद्गुणेन बाध्येत? णित्करणसामर्थ्यान्न भविष्यतीति। एतच्चानुत्तरम्; **णेरनिटि** (6.4.51) इत्येवमादौ णित्करणस्य चरितार्थत्वात्? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति - गुणविषयेऽपि वृद्धिरभवतीति; यदयं जागर्तर्वृद्धिविषये प्रतिषेधविषये च **जाग्रोऽविचिण्णल्ङित्सु** (7.3.85) इति पुनर्गुम आरभ्यते। यदि हि गुणविषये वृद्धर्न स्यात्, तदा जागरयतीत्यादिषु गुणोऽस्त्येवेति तद्विषये गुणारम्भोऽनर्थकः स्यात्। वृद्धिविषयता चारम्भस्य चिण्णलोः प्रतिषेधाद्विज्ञायते। अथ योगविभागः किमर्थः, न `ञ्णित्यत उपथायाः इत्येदोच्येत? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने यद्यपि गावो, गाव इत्यत्रावादेशे कृते चायकः, लावक इत्यत्र गुणे कृतेऽयवादेशयोः कृतयोः सिध्यति - गौः, सखायौ; जैत्रमित्यादौ तु न सिध्यति; अयवादेशयोर्गुणस्य च यथायोगमसम्भवात्? स्माद्यथायोगं योगविभागः कर्तव्यः॥
Prakriyasarvasvam¶
अजन्तस्याङ्गस्य ञिति णिति च परे वृद्धिः स्यात् । हृञ् हार्यम् । तॄ तार्यम् । हलन्ताद् एध्यम् । स्पर्ध्यम् ।
Sarala¶
मृजेर्वृद्धिः (७.२.११४) इत्यतो “वृद्धि”रिति चर्त्तते, अङ्गस्य (६.४.१) इत्यधिकृतं विशेष्यं, विशेषणेन तदन्तविधिरत आह - अजन्ताङ्गस्येति ॥
Sudha¶
अचो ञ्णितीति । मृजेर्वृद्धिः**(7.2.114) इत्यतो वृद्धिरित्यनुवर्तते, **अङ्गस्य**(6.4.1) इति चाधिकारः । **सखायौ । “सखि औ” अत्र सख्युरसम्बुद्धौ**(7.1.92) इति णिद्वद्भावे **अचो ञ्णिति**(7.2.115) इति वृद्धौ **एचोऽयवायावः**(6.1.78) इति आयादेशे परेण संयोगे कृते “सखायौ” इति । **सखायः । सखिशब्दाज्जसि चुटू**(1.3.7) इति जकारस्येत्सञ्ज्ञायां लोपे च **सख्युरसम्बुद्धौ**(7.1.92) इति णिद्वद्भावे **अचो ञ्णिति**(7.2.115) इति वृद्धौ **एचोऽयवायावः**(6.1.78) इत्यायादेशे सस्य रुत्वे विसर्गे च “सखायः” इति । **हे सखे । हरिशब्दवत् गुणे लोपे च हे सखे इति । औपरे जसि परे च पूर्ववत्-णिद्वद्भाववृद्ध्यायादेशा: - हे सखायौ, हे सखायः। सखायम् । “सखि अम्” अत्र अमि पूर्वः**(6.1.107) इति सूत्रं प्रवाध्य **सख्युरसम्बुद्धौ**(7.1.92) इति णिद्वद्भावे, वृद्धौ आयादेशे च “सखायम्” इति । औटि पूर्ववत् **सखायौ । सखीन् । “सखि-शस्” अत्र शसः शकारस्येत्सञ्ज्ञायां लोपे च कृते प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घादेशे कृते **तस्माच्छसो नः पुंसि**(6.1.103) इति शसःसकारस्य नकारादेशे “सखीन्” इति । **सख्या । “सखि आ” अत्र “असखि” इति पर्युदासात् घिसंज्ञा न, किन्तु इको यणचि**(6.1.77) इति यणि “सख्या” इति । सखिशब्दस्य तृतीयाद्विवचनबहुवचने - सखिभ्याम्, सखिभिः, हरिशब्दवत् । **सख्ये । सखिशब्दाच्चतुथ्येंकवचन विवक्षायां ङयि समागते ङस्येत्सञ्ज्ञायां लोपे च “सखि-ए” अत्र **इको यणचि**(6.1.77) इति यणि सख्ये इति ॥ चतुर्थीद्विवचनबहुवचने - सखिभ्याम्, सखिभ्यः इति ॥