72116: अत उपधायाः ================= **Padacheda:** अतः | S | 6 | 1 | उपधायाः | S | 6 | 1 | Sutrartha --------- **अङ्गस्य उपधा-अकारस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।** यदि कस्मिंश्चित् अङ्गे अकारः उपधास्थाने अस्ति, तर्हि तस्य अकारस्य णित्-प्रत्यये परे / ञित्-प्रत्यये परे च वृद्धि-आदेशः (= आकारः) भवति । यथा - 1. पठ् + घञ् [**भावे** (3.3.18) इत घञ्-प्रत्ययः] → पाठ [**अत उपधायाः** (7.2.116) इति ञित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः] 2. पठ् + ण्वुल् [**ण्वुल्तृचौ** (3.1.133) इति ण्वुल्-प्रत्ययः] → पाठ् + वु [**अत उपधायाः** (7.2.116) इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः] → पाठ् + अक [**युवोरनाकौ** (7.1.1) इति वु-इत्यस्य अक-आदेशः] → पाठक 3. क्षल्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - क्षल् + णिच् [**सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्** (3.1.25) इति स्वार्थे णिच्] → क्षल् + इ [इत्संज्ञालोपः । **सनाद्यन्ताः धातवः** (3.1.32) इति धातुसंज्ञा] → क्षालि [**अत उपधायाः** (7.2.116) इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः] → क्षालि+ लट् [**वर्तमाने लट्** इति लट्] → क्षालि + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → क्षालि+ शप् + तिप् [**कर्तरि शप्** (3.1.68) इति शप्] → क्षाले + अ + ति [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः] → क्षालय् + अ + ति [**एचोऽयवायावः** (6.1.78) इति अयादेशः] → क्षालयति ज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यनेन 'अकारस्य वृद्धिः भवति' इति निर्दिष्टमस्ति, अतः **इको गुणवृद्धी** (1.1.3) इत्यस्य प्रयोगः अत्र न भवति । Sutrartha (English) ------------------- The उपधा-अकार of an अङ्ग undergoes a वृद्धिः when followed by a णित् or a ञित् प्रत्यय. Vasu English Summary -------------------- In a अङ्ग (stem) ending in a consonant with an अ immediately preceding it, the वृद्धि is substituted for such अ when followed by an indicatory ञ् or ण्। Vasu English Translation ------------------------ In a अङ्ग (stem) ending in a consonant with an अ immediately preceding it, the वृद्धि is substituted for such अ when followed by an indicatory ञ् or ण्। As पाकः, त्यागः, यागः with घञ्, पाचि with the causative णि, पाचकः with ण्वुल् ॥ Why do we say 'अ'? Observe भेदयति, भेदकः with *guna* only from भिद् where इ is penultimate and not अ ॥ Why do we say 'penultimate'? Observe चकासयति, तक्षकः ॥ Kashika ------- अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति। पाकः। त्यागः। यागः। पाचयति। पाचकः। पाठयति। पाठकः। अत इति किम्? भेदयति। भेदकः। उपधाया इति किम्? चकासयति। तक्षकः॥ Siddhanta Kaumudi ----------------- उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ॥ Laghu Siddhanta Kaumudi ----------------------- उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥ Balamanorama ------------ **अत उपधायाः** - णलि अजन्तत्वाऽभावादचो ञ्णितीति वृद्धेरप्राप्तौ — अत उपधायाः । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतस्तदनुवृत्तेरिति भावः । चखादेति । एत्वाभ्यासलोपौ तु नात्र भवतः, पित्त्वेऽकित्त्वात्, आदेशादित्वात्, तदपेक्षया वृद्धेः परत्वाच्च । Tattvabodhini ------------- **अत उपधायाः** - अत उप । अतः किम् । तुतोद । उपदायाः किम् । गणयति । इह अतो लोपं बाधित्वा परत्वाद्वृद्धिः स्यात् । Nyaas ----- पाक इत्यादौ भावे घञ्, **चजोः कु घिण्ण्यतोः** (7.3.52) इति कुत्वम्। `रागः` इति। **घञि च भावकरणयोः** (6.4.27) इत्यनुनासिकलोपः। `पाचयति` इति। **हेतुमति च** (3.1.26) इति णिच्। `चकासयति` इति। उपधाग्रहणादिह चकारादकारस्य न भवति। तपरकरणं लाघवार्थम्। असति हि स्मिन्नस्योपधाया इत्युच्यमाने गौरवं स्यात्। दीर्घनिवृत्त्यर्थं तु तपरकरणं न भवति, न दीर्घस्य कृतायां वृद्धौ कश्चिद्विशेषोऽस्ति॥ Prakriyasarvasvam ----------------- ञिणि णिति च परेऽङ्गस्योपधाया अतो वृद्धिः स्यात् । वाह्यम् । ग्राह्यम् । समासार्हा समस्या । 'संज्ञापूर्वकं विधिरनित्य' इतीह वृद्धिर्न । 'मव्य बन्धने' मव्य् य, Sutra Prayogas -------------- * **अपाती** (भट्टिकाव्यम्): `अत उपधायाः` इति वृद्धिः।