72114: मृजेर्वृद्धिः¶
Padacheda: मृजेः | S | 6 | 1 |
वृद्धिः | S | 1 | 1 |
Sutrartha¶
मृज्-धातोः अङ्गस्य इक्-वर्णस्य वृद्धिः भवति ।
‘मृज्’ (शुद्धौ) इति अदादिगणस्य धातुः । अस्य धातोः अङ्गस्य अनेन सूत्रेण वृद्धि-आदेशः भवति । इको गुणवृद्धी (1.1.3) इत्यनेन अस्मिन् सूत्रे ‘इकः’ इति पदमुपतिष्ठते, अतः ‘मृज्-धातोः अङ्गस्य इकः वृद्धिः भवति’ इति ज्ञायते । मृज्-इत्यत्र ऋकारमात्रः इक्-वर्णः अस्ति, अतः अस्य वृद्धि-आदेशं कृत्वा आकारः भवति, उरण् रपरः (1.1.51) इत्यनेन च सः रपरः भवति । अतः मृज्-इत्यस्य स्थाने ‘मार्ज्’ इति जायते । अयं आदेशः आर्द्धधातुके प्रत्यये परे अपि भवति, सार्वधातुके प्रत्यये परे अपि भवति । परन्तु कित् / गित् / ङित् प्रत्यये परे तु अनेन सूत्रेण वृद्ध्यौ प्राप्ते ग्क्ङिति च (1.1.5) इत्यनेन वृद्धेः निषेधः भवति । उदाहरणानि एतानि - 1. मृज्-धातोः लट्लकारस्य प्रथमैकवचनस्य रूपम् - मृज् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → मृज् + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → मृज् + शप् + ति [कर्तरि शप् (3.1.68) इति शप्] → मृज् + ति [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → मार्ज् + ति [पुगन्तलघूपधस्य च (7.3.86) इत्यनेन ऋकारस्य गुणे प्राप्ते अपवादत्वेन मृजेर्वृद्धिः (7.2.114) इति अङ्गस्य वृद्धिः] → मार्ष् + ति [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इति जकारस्य षकारः] → मार्ष् टि [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → मार्ष्टि 2. मृज्-धातोः तृच्-प्रत्यये परे वैकल्पिकः इडागमः भवति अतः रूपद्वयं जायते - अ) इडागमस्य उपस्थितौ प्रक्रिया इयम् - मृज् + तृच् [ण्वुल्तृचौ (3.1.133) इति तृच् -प्रत्ययः] → मृज् + इट् + तृ [स्वरतिसूतिसूयतिधूञूदितो वा (7.2.44) इति वैकल्पिकः इडागमः ] → मार्ज् + इट् + तृ [मृजेर्वृद्धिः (7.2.114) इति अङ्गस्य वृद्धिः] → मार्जितृ आ) इडागमस्य अभावे प्रक्रिया इयम् - मृज् + तृच् [ण्वुल्तृचौ (3.1.133) इति तृच् -प्रत्ययः] → मार्ज् + तृ [मृजेर्वृद्धिः (7.2.114) इति अङ्गस्य वृद्धिः] → मार्ष् + तृ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इति जकारस्य षकारः] → मार्ष् + टृ [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → मार्ष्टृ 3. मृज्-धातोः क्त-प्रत्ययान्तरूपे यस्य विभाषा (7.2.15) इत्यनेन इडागमनिषेधः भवति, अतः प्रक्रिया इयम् जायते - मृज् + क्त [निष्ठा (3.2.102) इति क्त-प्रत्ययः] → मृज् + त [मृजेर्वृद्धिः (7.2.114) इत्यनेन मृज्-धातोः वृद्ध्यौ प्राप्ते ग्क्ङिति च (1.1.5) इत्यनेन तस्य निषेधः । यस्य विभाषा इत्यनेन इडागम-निषेधः] → मृष् + त [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इति जकारस्य षकारः] → मृष् + ट [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → मृष्ट
Sutrartha (English)¶
The verb root मृज् undergoes a वृद्धि.
Vasu English Summary¶
The वृद्धि (आर्) is substituted for the root vowel (ऋ) of the अङ्ग (stem) मृज् before an affix.
Vasu English Translation¶
The वृद्धि (आर्) is substituted for the root vowel (ऋ) of the अङ्ग (stem) मृज् before an affix. As मार्ष्टा, मार्ष्टुम्, मार्ष्टव्यम् ॥ The मृज् here is a root, and the affixes before which this Vriddhi takes place are those which come after roots, and not which come after Pratipadikas. Therefore, not before the affixes भ्यां &c, as कंसपरिमृड्भ्याम्, मृड्भिः ॥ The anuvritti of the word vibhakti has ceased. This sutra debars guna of (7.3.84).
Bhashya¶
मृजेर्वृद्धिः ॥ मृजेर्वृद्धिविधौ क्विप्रतिषेधः(1) ॥ मृजेर्वृद्धिविधौ क्व्यन्तस्य प्रतिषेधो वक्तव्यः । कंशपरिमृड्भ्यां कंशपरिमृडि्भः । ॥ धातौः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात्सिद्धम् ॥ अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धम् । धातुप्रत्यये कार्यं भवतीत्येषा परिभाषा कर्तव्या ॥ कान्येतस्याः परिभाषायाः प्रयोजनानि ? ॥ प्रयोजनं(3) सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम् ॥ सृजि-रज्जुसृड्भ्याम् रज्जुसृडि्भः । सृजि ॥ दृशिदेवदृग्भ्याम् देवदृग्भिः । दृशि ॥ मस्जि - उदकमग्भ्याम् । उदकमग्भिः । मस्जि ॥ नशि-प्रणड्भ्यां(4) प्रणडि्भः । नशि ॥ हन्ति - वार्त्रघ्नः । भ्रौणघ्नः । हन्ति ॥ गिरति(5) - देवगिरौ देवगिरः । (गिरति) ॥ यदि स्वरूपग्रहण इत्युच्यते - प्रसृग्भ्यां( 6) प्रसृग्भिः । अनुदात्तस्य चर्दुपधस्यान्यतरस्यामित्यम् प्राप्नोति । एवं तर्हीयं परिभाषा कर्तव्या - धातोः कार्यमुच्यमानं तत्प्रत्यये भवती(7)ति ॥ सा तर्ह्येषा परिभाषा कर्तव्या ? ॥ न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति - भवत्येषा परिभाषा यदयं भ्रौणहत्ये तत्वं शास्ति ॥ ( मृजेर्वृद्धिः ) ॥
Kashika¶
विभक्ताविति निवृत्तम्। मृजेरङ्गस्येको वृद्धिर्भवति। मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। मृजेरिति धातुग्रहणमिदम्, धातोश्च कार्यमुच्यमानं धातुप्रत्यय एव वेदितव्यम्। तेन कंसपरिमृड्भ्याम्, कंसपरिमृड्भिरित्यत्र न भवति॥
Siddhanta Kaumudi¶
मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे ।<!क्ङित्यजादौ वेष्यते !> (वार्तिकम्) ॥ व्रश्च (SK294) इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमाटर् । अमार्जम् । अमार्जीत्-अमार्क्षीत् ।{$ {!1067 रुदिर्!} अश्रुविमोचने$} ॥
Laghu Siddhanta Kaumudi¶
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥
Balamanorama¶
मृजेर्वृद्धिः - मृजेर्वृद्धिः । ‘इको गुणवृद्धी’ इति परिभाषया ‘इक’ इत्युपस्थितम् । मृजेरित्यवयवषष्ठी । तदाह — मृजेरिको वृद्धिः स्यादिति ।धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान॑मिति परिभाषामभिप्रेत्य आह — धातुप्रत्यये परे इति । धातोर्विहिते प्रत्यये इत्यर्थः । तेन परिमृङ्भ्यामित्यत्र न वृद्धिरिति भावः । गुणापवादोऽयम् । क्ङित्यजादौ वेष्यते ।मृजेर्वृद्धि॑रिति शेषः । ‘इको गुणवृद्धी’ इति सूत्रभाष्ये इदं पठितम् । व्रश्चेति ष इति । मृज्-तीति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः । मृष्ट इति । ङित्त्वान्न वृद्धिर्नापि गुण इति भावः । मृजन्ति मार्जन्तीति ।क्ङित्यजादा॑विति वृद्धिविकल्प इति भावः । मार्षि मृष्ठः मृष्ठ । मार्ज्मि मृज्वः मृज्मः । ममार्जेति । णलिमृजेर्वृद्धि॑रिति अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह — ममार्जतुः ममृजतुरिति । ममार्जुः ममृजुरित्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्पं मृजेर्वृदिंध च मत्वा आह — ममार्जिथ ममार्ष्ठेति । इडभावे जस्य व्रश्चेति षः । थस्य ष्टुत्वेन ठ इति भावः । ममार्जथुः — ममृजथुः, ममार्ज — ममृज । ममार्ज, ममार्जिव-ममृजिव-मम#ऋज्व, ममार्जिम-ममृजिम- ममृज्म । लुटआह - मार्जिता मार्ष्टेति । ऊदित्त्वदिटि, तदभावे चमृजेर्वृद्धि॑रिति भावः । मार्जिष्यति — माक्ष्र्यति । मार्ष्टु — मृष्टात्, मृष्टाम्, मार्जन्तु — मृज्नतु । मृड्ढीति । हेरपित्त्वेन ङित्त्वान् वृद्धिः । व्रश्चादिना जस्य षः । हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वे ढः । मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । लङ्याह — अमार्डिति । तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे व्रश्चादिना जस्य षः, तस्य जश्त्वचर्त्वे इति भावः । अमृष्टाममार्जन्- अमृजन् । अमार्ट् अमृष्टममृष्टं । अमार्जमिति । अमृज्व अमृज्म । मृज्यात् । मृज्याताम् । मृज्यात् । मृज्यास्ताम् । अमार्जीत् अमार्क्षीदिति । ऊदित्त्वादिड्विकल्प इति भावः । इट्पक्षे अमार्जिष्टाममार्जिषुरित्यादि सुगमम् । इडभावे आमार्ष्टाममार्क्षुः । अमार्क्षीः । अमाष्र्टममाष्र्ट । अमाक्र्षममार्क्ष्व अमार्क्ष्म । अमार्जिष्यत — अमाक्ष्र्यत् । रुधिर्धातुरितित् । सेट् ।
Tattvabodhini¶
मृजेर्वृद्धिः - मृजेर्वृद्धिः । गुणापवादः । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमित्याह — धातुप्रत्यये किम् । कंसपरिमड्भ्याम् । *क्ङित्यजादाविति । एतञ्चाऽन्येषां वैयाकरणानां मतम् — इको गुणवृद्धी॑ इति सूत्रे भाष्यकृता स्वीकृतम् । मृड्ढीति ।हुझल्भ्यःर॑ इति हेर्धिः । षत्वष्टुत्वजश्त्वानि ।
Padamanjari¶
धातोश्च कार्यमुच्यमानमिति । वस्तुतो धातोर्यत्कार्यमुच्यते, तदिह धातोरुच्यमानमिति विवक्षितम् । स धातुः स्वरूपेणैव गृह्यतां मा वा, ग्राहितेन अनुदातस्य चर्दुपधस्यान्यतरस्याम् इत्ययमप्यमागमो धातुप्रत्यय एव भवति, न प्रमृज्भ्यामित्यादौ । तत्प्रत्यय इति । धातोरित्येवं विहिते । कंसपरिमृड्भ्यामिति । अत्र तदन्तविधिना प्रसङ्गः ॥
Nyaas¶
मार्ष्टा इति। मृजू शृद्धौ (धातुपाठः-1066) व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। मृजेः क्विबन्ताद्विभक्तावुत्पन्नायां कंसपरिमृङ्भ्याम्, कंसपरिमृङ्भिरित्यत्र वृद्धिः प्राप्नोति, न च क्विबाश्रयः **क्ङिति च** (1.1.5) इति वृद्धिप्रतिषेधो भवितुमुत्सहते; यस्मात्? क्ङितीति निंमित्तसप्तमी। न चात्र क्विब्निमित्ता वृद्धिः प्राप्नोति, किं तर्हि? विभक्तिनिम्त्ता। तस्मात्? तस्याः प्रतिषेधो वक्तव्य इत्यत आह - `मुजरिति धातुग्रहणम् इत्यादि। भ्रौणहत्य (6.4.174) मिति निपातनेन ज्ञापितोऽयमर्थः - धाताः कार्यमुच्यमानं धातुप्रत्यय एव भवतीति, तेन कंसमृङ्भ्यामित्यत्र न भवति। यो हि धातोरित्येवं विहितः स धातुप्रत्ययः। न च भ्यामादिकं धातोरित्येवं विहितम्, किं तर्हि? प्रातिपदिकादित्येवम्, तस्मान्नासो धातुप्रत्ययः। कंसपरिमृङ्भ्याम् इत्यादि। पूर्ववत्? षत्वे कृत षकारस्य जश्त्वं डकारः॥
Prakriyasarvasvam¶
मृजेः प्रत्यये परे इको वृद्धिः स्यात् । कुत्वं मार्ग्यम् । मार्जिता । इडभावे व्रश्चादिषः ष्टुत्वम् मार्ष्टा । ‘गुहू संवरणे’ । इट्पक्षे गुणे कृते, गोहि तृ ।
Sutra Prayogas¶
अमार्जीद्भल्ल (भट्टिकाव्यम्): मृजेर्वृद्धिः इति वृद्धिः।