72115: अचो ञ्णिति ================= **Padacheda:** अचः | S | 6 | 1 | ञ्णिति | S | 7 | 1 | Sutrartha --------- **अजन्तस्य अङ्गस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।** यदि अजन्तात् अङ्गात् परः णित् / ञित् प्रत्ययः आगच्छति, तर्हि तस्य अजन्तस्य अङ्गस्य (अन्तिमस्वरस्य) वृद्धि-आदेशः जायते । उदाहरणानि एतानि - 1. नी + ण्वुल् [**ण्वुल्तृचौ** (3.1.133) इति ण्वुल्-प्रत्ययः] → नै + वु [**सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन **अचो ञ्णिति** इति वृद्धि-आदेशः । ईकारस्य वृद्धिः ऐकारः] → नै + अक [**युवोरनाकौ** (7.1.1) इति वु-इत्यस्य अक-आदेशः] → नायक [**एचोऽयवायावः** (6.1.78) इति आय्-आदेशः] 2. भू + घञ् [**भावे** (3.3.18) इति घञ्-प्रत्ययः] → भौ + अ [**सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन **अचो ञ्णिति** इति वृद्धि-आदेशः । ऊकारस्य वृद्धिः औकारः] → भाव [**एचोऽयवायावः** (6.1.78) इति आव्-आदेशः] 3. कृ-धातोः णिच्-प्रत्ययं कृत्वा 'कारि' इति आतिदेशिकः धातुः जायते - कृ + णिच् [**हेतुमति च** (3.1.26) इति णिच्] → कार् + इ [**सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन **अचो ञ्णिति** इति वृद्धि-आदेशः । ऋकारस्य वृद्धिः आकारः, **उरण् रपरः** (1.1.51) इति सः रपरः] → कारि [**सनाद्यन्ताः धातवः** (3.1.32) इति धातुसंज्ञा] विशेषः - **इको गुणवृद्धी** (1.1.3) इत्यनेन वस्तुतः इक्-वर्णस्यैव गुणः वृद्धिः वा भवेत्, परन्तु अस्मिन् सूत्रे 'अचः' इति निर्देशसामर्थ्यात् अत्र इक्-भिन्नस्य अच्-वर्णस्य वृद्धिः आदेशः भवितुमर्हति । यथा, 'गो'शब्दस्य प्रथमैकवचनस्य रूपम् - गो + सुँ [प्रथमैकवचनस्य प्रत्ययः] → गो + स् [**गोतो णित्** (7.1.90) इत्यनेन ओकारान्तप्रातिपदिकात् परस्य सर्वनामस्थानप्रत्ययस्य णिद्वद्भावः] → गौ + स् [णिति प्रत्यये परे अजन्तस्य अङ्गस्य **अचो ञ्णिति** (7.2.115) इति वृद्धिः] → गौः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] Sutrartha (English) ------------------- An अजन्त अङ्ग undergoes वृद्धि when followed by a णित् or a ञित् प्रत्यय. Vasu English Summary -------------------- Before the affixes having an indicatory ञ् or ण् , वृद्धि is substituted for the end-vowel of a अङ्ग (stem). Vasu English Translation ------------------------ Before the affixes having an indicatory ञ् or ण् , वृद्धि is substituted for the end-vowel of a अङ्ग (stem). Thus एकस्तण्डुलनिचायः, (3.3.20) द्वौ शूर्पनिष्पावौ, कारः and हारः (with धञ्); गौः, गावौ, गावः, सखायौ, सखायः where the case-endings are णित् by (7.1.90), (7.1.92). जैत्रम्, यौत्रम् with the *Unadi* ष्ट्रण् from जि and यु ॥ च्यौत्नः with त्नण् and means 'strength'. It is an obsolete Vedic word. Bhashya ------- अचो ञ्ञ्णिति अज्ग्रहणं किमर्थम् ? ॥ वृद्धावज्ग्रहणं गोऽर्थम् ॥ वृद्धावज्ग्रहणं क्रियते (किं प्रयोजनम्(1) ? ॥ गोऽर्थम् ।) गोतो वृद्धिर्यथा स्यात् - गौरिति ॥ नैतदस्ति प्रयोजनं, णित्करणसार्मथ्यादेवात्र वृद्धिर्भविष्यति ॥ (अस्त्यन्यण्णित्करणस्य(1) प्रयोजनम् ॥ किम् ? ॥ गावौ गाव इत्यत्राऽत उपधाया इति वृद्धिर्यथा स्यात् ॥) ॥ अथ योगविभागः किमर्थो न ञ्ञ्णित्यत उपधाया इत्येवोच्येत ॥ का रूपसिद्धिः-चायको लावकः कारकः हारकः(2) ? ॥ गुणे कृतेऽयवो रपरत्वे चाऽत उपधाया इत्येव सिद्धम् ॥ (न सिद्ध्यति) । ॥ योगविभागः सखिव्यञ्ञ्जनाद्यर्थः ॥ योगविभागः क्रियते ॥ (किमर्थः ? ॥ सखिव्यञ्ञ्जनार्थः ।) सख्यर्थो व्यञ्ञ्जनाद्यर्थश्च । सख्यर्थस्तावत् - सखायौ सखायः । व्यञ्ञ्जनाद्यर्थः - जैत्रं यौत्रं च्यौत्रम् ॥ योगविभागे चेदानीं सखिव्यञ्ञ्जनाद्यर्थे क्रियमाणेऽज्ग्रहणमपि कर्तव्यं भवति ॥ किं प्रयोजनम् ? ॥ गोर्थम् ॥ ननु चोक्तं णित्करणसार्मथ्यादेवात्र वृद्धिर्भविष्यति ॥ अस्त्यन्यण्णित्करणे प्रयोजनम् ॥ किम् ? ॥ गावौ गावः । अवादेशे कृतेऽत उपधाया इति वृद्धिर्यथा स्यात् ॥ यत्तु(3) सौ णित्करणं तदनवकाशं, तस्याऽनवकाशत्वादेव वृद्धिर्भविष्यति ॥ यथैव खल्वपि णित्करणसार्मथ्यादनिकोऽपि वृद्धिः प्रार्थ्यते एवं तत्वमपि प्राप्नोति । तत्वमपि हि ञ्ञ्णितीत्युच्यते । तस्मादज्ग्रहणं कर्तव्यम्(1) ॥ (अचो ञ्ञ्णिति) ॥ Kashika ------- अजन्तस्याङ्गस्य ञिति णिति च प्रत्यये वृद्धिर्भवति। ञिति — एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कारः। हारः। णिति — गौः, गावौ, गावः। सखायौ, सखायः। जैत्रम्। यौत्रम्। च्यौत्नः जयतेर्यौतेश्च **उणादयो बहुलम्** (३.३.१) इति ष्ट्रण् प्रत्ययः। च्यवतेरपि त्नण्॥ Siddhanta Kaumudi ----------------- ञिति णिति च प्रत्यये परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥ Laghu Siddhanta Kaumudi ----------------------- अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥ Balamanorama ------------ **अचो ञ्णिति** - अचोञ्णिति । ञ् च ण् चञ्णौ, तौ इतौ यस्य तत् ञ्णित् । 'मृजेः' इत्यतोवृद्धि॑रित्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतमचा विशेष्यते । ततस्तदन्तविधिः । तदाह-अजन्तस्येत्यादिना । स्थानसाम्यादिकारस्य वृद्धिरैकारः । तस्य आयादेश इत्यभिप्रेत्याह-सखायाविति । एवं-सखायः । सखायं सखायौ । सखीनिति शसि हरिवद्रूपम् । असर्वनामस्थानत्वाण्णित्त्वाऽभावान्न वृद्धिः । घिसंज्ञाऽभावादिति ।शेषो घ्यसखी॑त्यत्र असखीति पर्युदासादिति भावः । न तत्कार्यमिति । घिप्रयुक्तकार्यं नेत्यर्थः । सख्येति । सखि-आ इति स्थिते घित्वाऽभावादाङो नाऽस्त्रियामिति नाभावाऽभावे यणि रूपम् । सख्ये इति । सखि-ए इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि रूपम् । ङसिङसोः-सखि अस् इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि सख्यस् इति स्थिते । Tattvabodhini ------------- **अचो ञ्णिति** - अचोञ्णिति ।मृजेर्वृद्धि॑रित्यतोवृद्धि॑रित्यनुवर्तते,अङ्गस्ये॑ति चानुवृत्तमचा विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेन व्याचष्टे -अजन्ताङ्गस्येति । Padamanjari ----------- तण्डुलनिश्चाय इत्यादौ परिमाणाख्ययां सर्वेभ्यः इति घञ् । गौः, गावौ, गाव इति । अत्र गौरित्येतत्साक्षादुदाहरणम्, इतरत्रावादेशे कृते अत उपधायाः इत्येव सिद्धम् । सखायौ, सखाय इति । अत्रापि सखायावित्येतदुदाहरणम्, जसि तु जसि चेति गुणे अयादेशे च कृते पूर्ववत्सिद्धम् । च्यौत्नमिति बलनाम, छान्दसम् - तमिच्च्यौत्नैरार्यन्ति । किमर्थ पुनरिदमुच्यते, यावता जेतृयोतृशब्दाभायां प्रज्ञाद्यणि जैत्रम्, यौत्रमिति सिद्धम् । च्यौत्नमिति उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तण्उलनिश्चायः श्चावकः, लावक इत्यादौ गोतो णित् इत्येतट् गोत औत् इति वक्तव्यम् - गोत औकारादेशो भवति सर्वनामस्थाने परतः । कथं सखायौ, सखायः सख्युरसम्बुद्धौ इत्येतत् सख्युरैत् तैति वक्ष्यामि, अत्रोच्यते ञ्णितीति तावदुतरार्थं वक्तव्यम् । किञ्च - प्रियमाचष्टे प्राप्ययतीत्यादौ प्राद्यादेशेषु वृद्धिने स्यात् । अथ ते दीर्घान्ता विधीयेरन् तदतिगुरु स्यादिति यथान्यासमेवास्तु ॥ Nyaas ----- `निश्चायनिष्पावौ` [`एकसतण्डुलनिश्चायः, द्वौ शूर्पनिष्पावौ` - काशिका] इति। निष्पूर्वाच्चिनीतेः, पुनातेश्च **परिमाणाख्यायां सर्वेभ्यः** (3.3.20) इति धञ्। `इदुपधस्य चाप्रत्ययस्य` (8.3.41) इति विसर्जनीयषत्वम्। `कारः, हारः` इति। कृञः ह्मञश्च भावे घञ्। `गौः, गावो गावः` इति। `गोतो णित्` (7.1.90) इति सर्वनामस्थानस्य णित्त्वम्। `सखायौ, सखायः` इति। अत्रापि **सख्युरसम्बुद्धौ** (7.1.92) इति। `जयतेः, यौतेश्च` इति। `जि जये` (धातुपाठः-561), `यु मिश्रणे` [`मिश्रणेऽमिश्रणे च` - धातुपाठः-] (धातुपाठः-1033)। `च्यवतेः` इति। `च्युङ छ्युङ्? ज्युङ्? प्रुङ्? प्लुङ्? गतौ`[नास्ति - धातुपाठः-] (धातुपाठः-955-958)। अज्ग्रहणमनिकोऽपि यथा स्यात् - गोरिति। ननु णित्करणसामर्थ्यादेव तत्र भविष्यति? नैतदस्ति; अस्ति ह्रन्यत्? णित्करणस्य प्रयोजनम्, किं तत्? गावौ, गाव इत्यवादेशे कृते **अत उपधायाः** (7.2.116) इति वृद्धिर्यथा स्यात्। यद्येवम्, गौरित्यत्रागुणविषये वृद्धिरियं कृतार्थेति कारयतीत्यादिषु परत्वाद्गुणेन बाध्येत? णित्करणसामर्थ्यान्न भविष्यतीति। एतच्चानुत्तरम्; **णेरनिटि** (6.4.51) इत्येवमादौ णित्करणस्य चरितार्थत्वात्? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति - गुणविषयेऽपि वृद्धिरभवतीति; यदयं जागर्तर्वृद्धिविषये प्रतिषेधविषये च **जाग्रोऽविचिण्णल्ङित्सु** (7.3.85) इति पुनर्गुम आरभ्यते। यदि हि गुणविषये वृद्धर्न स्यात्, तदा जागरयतीत्यादिषु गुणोऽस्त्येवेति तद्विषये गुणारम्भोऽनर्थकः स्यात्। वृद्धिविषयता चारम्भस्य चिण्णलोः प्रतिषेधाद्विज्ञायते। अथ योगविभागः किमर्थः, न `ञ्णित्यत उपथायाः` इत्येदोच्येत? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने यद्यपि गावो, गाव इत्यत्रावादेशे कृते चायकः, लावक इत्यत्र गुणे कृतेऽयवादेशयोः कृतयोः सिध्यति - गौः, सखायौ; जैत्रमित्यादौ तु न सिध्यति; अयवादेशयोर्गुणस्य च यथायोगमसम्भवात्? स्माद्यथायोगं योगविभागः कर्तव्यः॥ Prakriyasarvasvam ----------------- अजन्तस्याङ्गस्य ञिति णिति च परे वृद्धिः स्यात् । हृञ् हार्यम् । तॄ तार्यम् । हलन्ताद् एध्यम् । स्पर्ध्यम् । Sarala ------ **मृजेर्वृद्धिः** (७.२.११४) इत्यतो "वृद्धि"रिति चर्त्तते, **अङ्गस्य** (६.४.१) इत्यधिकृतं विशेष्यं, विशेषणेन तदन्तविधिरत आह - **अजन्ताङ्गस्येति** ॥ Sudha ----- **अचो ञ्णितीति ।** **मृजेर्वृद्धिः**(7.2.114) इत्यतो वृद्धिरित्यनुवर्तते, **अङ्गस्य**(6.4.1) इति चाधिकारः । **सखायौ ।** "सखि औ" अत्र **सख्युरसम्बुद्धौ**(7.1.92) इति णिद्वद्भावे **अचो ञ्णिति**(7.2.115) इति वृद्धौ **एचोऽयवायावः**(6.1.78) इति आयादेशे परेण संयोगे कृते "सखायौ" इति । **सखायः ।** सखिशब्दाज्जसि **चुटू**(1.3.7) इति जकारस्येत्सञ्ज्ञायां लोपे च **सख्युरसम्बुद्धौ**(7.1.92) इति णिद्वद्भावे **अचो ञ्णिति**(7.2.115) इति वृद्धौ **एचोऽयवायावः**(6.1.78) इत्यायादेशे सस्य रुत्वे विसर्गे च "सखायः" इति । **हे सखे ।** हरिशब्दवत् गुणे लोपे च हे सखे इति । औपरे जसि परे च पूर्ववत्-णिद्वद्भाववृद्ध्यायादेशा: - हे सखायौ, हे सखायः। **सखायम् ।** "सखि अम्" अत्र **अमि पूर्वः**(6.1.107) इति सूत्रं प्रवाध्य **सख्युरसम्बुद्धौ**(7.1.92) इति णिद्वद्भावे, वृद्धौ आयादेशे च "सखायम्" इति । औटि पूर्ववत् **सखायौ । सखीन् ।** "सखि-शस्" अत्र शसः शकारस्येत्सञ्ज्ञायां लोपे च कृते **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घादेशे कृते **तस्माच्छसो नः पुंसि**(6.1.103) इति शसःसकारस्य नकारादेशे "सखीन्" इति । **सख्या ।** "सखि आ" अत्र "असखि" इति पर्युदासात् घिसंज्ञा न, किन्तु **इको यणचि**(6.1.77) इति यणि "सख्या" इति । सखिशब्दस्य तृतीयाद्विवचनबहुवचने - सखिभ्याम्, सखिभिः, हरिशब्दवत् । **सख्ये ।** सखिशब्दाच्चतुथ्येंकवचन विवक्षायां ङयि समागते ङस्येत्सञ्ज्ञायां लोपे च "सखि-ए" अत्र **इको यणचि**(6.1.77) इति यणि सख्ये इति ॥ चतुर्थीद्विवचनबहुवचने - सखिभ्याम्, सखिभ्यः इति ॥