72114: मृजेर्वृद्धिः ==================== **Padacheda:** मृजेः | S | 6 | 1 | वृद्धिः | S | 1 | 1 | Sutrartha --------- **मृज्-धातोः अङ्गस्य इक्-वर्णस्य वृद्धिः भवति ।** 'मृज्' (शुद्धौ) इति अदादिगणस्य धातुः । अस्य धातोः अङ्गस्य अनेन सूत्रेण वृद्धि-आदेशः भवति । **इको गुणवृद्धी** (1.1.3) इत्यनेन अस्मिन् सूत्रे 'इकः' इति पदमुपतिष्ठते, अतः 'मृज्-धातोः अङ्गस्य इकः वृद्धिः भवति' इति ज्ञायते । मृज्-इत्यत्र ऋकारमात्रः इक्-वर्णः अस्ति, अतः अस्य वृद्धि-आदेशं कृत्वा आकारः भवति, **उरण् रपरः** (1.1.51) इत्यनेन च सः रपरः भवति । अतः मृज्-इत्यस्य स्थाने 'मार्ज्' इति जायते । अयं आदेशः आर्द्धधातुके प्रत्यये परे अपि भवति, सार्वधातुके प्रत्यये परे अपि भवति । परन्तु कित् / गित् / ङित् प्रत्यये परे तु अनेन सूत्रेण वृद्ध्यौ प्राप्ते **ग्क्ङिति च** (1.1.5) इत्यनेन वृद्धेः निषेधः भवति । उदाहरणानि एतानि - 1. मृज्-धातोः लट्लकारस्य प्रथमैकवचनस्य रूपम् - मृज् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → मृज् + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → मृज् + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप्] → मृज् + ति [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → मार्ज् + ति [**पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन ऋकारस्य गुणे प्राप्ते अपवादत्वेन **मृजेर्वृद्धिः** (7.2.114) इति अङ्गस्य वृद्धिः] → मार्ष् + ति [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति जकारस्य षकारः] → मार्ष् टि [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] → मार्ष्टि 2. मृज्-धातोः तृच्-प्रत्यये परे वैकल्पिकः इडागमः भवति अतः रूपद्वयं जायते - अ) इडागमस्य उपस्थितौ प्रक्रिया इयम् - मृज् + तृच् [**ण्वुल्तृचौ** (3.1.133) इति तृच् -प्रत्ययः] → मृज् + इट् + तृ [**स्वरतिसूतिसूयतिधूञूदितो वा** (7.2.44) इति वैकल्पिकः इडागमः ] → मार्ज् + इट् + तृ [**मृजेर्वृद्धिः** (7.2.114) इति अङ्गस्य वृद्धिः] → मार्जितृ आ) इडागमस्य अभावे प्रक्रिया इयम् - मृज् + तृच् [**ण्वुल्तृचौ** (3.1.133) इति तृच् -प्रत्ययः] → मार्ज् + तृ [**मृजेर्वृद्धिः** (7.2.114) इति अङ्गस्य वृद्धिः] → मार्ष् + तृ [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति जकारस्य षकारः] → मार्ष् + टृ [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] → मार्ष्टृ 3. मृज्-धातोः क्त-प्रत्ययान्तरूपे **यस्य विभाषा** (7.2.15) इत्यनेन इडागमनिषेधः भवति, अतः प्रक्रिया इयम् जायते - मृज् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] → मृज् + त [**मृजेर्वृद्धिः** (7.2.114) इत्यनेन मृज्-धातोः वृद्ध्यौ प्राप्ते **ग्क्ङिति च** (1.1.5) इत्यनेन तस्य निषेधः । **यस्य विभाषा** इत्यनेन इडागम-निषेधः] → मृष् + त [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति जकारस्य षकारः] → मृष् + ट [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] → मृष्ट Sutrartha (English) ------------------- The verb root मृज् undergoes a वृद्धि. Vasu English Summary -------------------- The वृद्धि (आर्) is substituted for the root vowel (ऋ) of the अङ्ग (stem) मृज् before an affix. Vasu English Translation ------------------------ The वृद्धि (आर्) is substituted for the root vowel (ऋ) of the अङ्ग (stem) मृज् before an affix. As मार्ष्टा, मार्ष्टुम्, मार्ष्टव्यम् ॥ The मृज् here is a root, and the affixes before which this *Vriddhi* takes place are those which come after roots, and not which come after *Pratipadikas*. Therefore, not before the affixes भ्यां &c, as कंसपरिमृड्भ्याम्, मृड्भिः ॥ The *anuvritti* of the word *vibhakti* has ceased. This *sutra* debars *guna* of (7.3.84). Bhashya ------- मृजेर्वृद्धिः ॥ मृजेर्वृद्धिविधौ क्विप्रतिषेधः(1) ॥ मृजेर्वृद्धिविधौ क्व्यन्तस्य प्रतिषेधो वक्तव्यः । कंशपरिमृड्भ्यां कंशपरिमृडि्भः । ॥ धातौः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात्सिद्धम् ॥ अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धम् । धातुप्रत्यये कार्यं भवतीत्येषा परिभाषा कर्तव्या ॥ कान्येतस्याः परिभाषायाः प्रयोजनानि ? ॥ प्रयोजनं(3) सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम् ॥ सृजि-रज्जुसृड्भ्याम् रज्जुसृडि्भः । सृजि ॥ दृशिदेवदृग्भ्याम् देवदृग्भिः । दृशि ॥ मस्जि - उदकमग्भ्याम् । उदकमग्भिः । मस्जि ॥ नशि-प्रणड्भ्यां(4) प्रणडि्भः । नशि ॥ हन्ति - वार्त्रघ्नः । भ्रौणघ्नः । हन्ति ॥ गिरति(5) - देवगिरौ देवगिरः । (गिरति) ॥ यदि स्वरूपग्रहण इत्युच्यते - प्रसृग्भ्यां( 6) प्रसृग्भिः । अनुदात्तस्य चर्दुपधस्यान्यतरस्यामित्यम् प्राप्नोति । एवं तर्हीयं परिभाषा कर्तव्या - धातोः कार्यमुच्यमानं तत्प्रत्यये भवती(7)ति ॥ सा तर्ह्येषा परिभाषा कर्तव्या ? ॥ न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति - भवत्येषा परिभाषा यदयं भ्रौणहत्ये तत्वं शास्ति ॥ ( मृजेर्वृद्धिः ) ॥ Kashika ------- विभक्ताविति निवृत्तम्। मृजेरङ्गस्येको वृद्धिर्भवति। मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। मृजेरिति धातुग्रहणमिदम्, **धातोश्च कार्यमुच्यमानं धातुप्रत्यय एव वेदितव्यम्**। तेन कंसपरिमृड्भ्याम्, कंसपरिमृड्भिरित्यत्र न भवति॥ Siddhanta Kaumudi ----------------- मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे । (वार्तिकम्) ॥ व्रश्च (SK294) इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमाटर् । अमार्जम् । अमार्जीत्-अमार्क्षीत् ।{$ {!1067 रुदिर्!} अश्रुविमोचने$} ॥ Laghu Siddhanta Kaumudi ----------------------- मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥ Balamanorama ------------ **मृजेर्वृद्धिः** - मृजेर्वृद्धिः । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितम् । मृजेरित्यवयवषष्ठी । तदाह — मृजेरिको वृद्धिः स्यादिति ।धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान॑मिति परिभाषामभिप्रेत्य आह — धातुप्रत्यये परे इति । धातोर्विहिते प्रत्यये इत्यर्थः । तेन परिमृङ्भ्यामित्यत्र न वृद्धिरिति भावः । गुणापवादोऽयम् । क्ङित्यजादौ वेष्यते ।मृजेर्वृद्धि॑रिति शेषः । 'इको गुणवृद्धी' इति सूत्रभाष्ये इदं पठितम् । व्रश्चेति ष इति । मृज्-तीति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः । मृष्ट इति । ङित्त्वान्न वृद्धिर्नापि गुण इति भावः । मृजन्ति मार्जन्तीति ।क्ङित्यजादा॑विति वृद्धिविकल्प इति भावः । मार्षि मृष्ठः मृष्ठ । मार्ज्मि मृज्वः मृज्मः । ममार्जेति । णलिमृजेर्वृद्धि॑रिति अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह — ममार्जतुः ममृजतुरिति । ममार्जुः ममृजुरित्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्पं मृजेर्वृदिंध च मत्वा आह — ममार्जिथ ममार्ष्ठेति । इडभावे जस्य व्रश्चेति षः । थस्य ष्टुत्वेन ठ इति भावः । ममार्जथुः — ममृजथुः, ममार्ज — ममृज । ममार्ज, ममार्जिव-ममृजिव-मम#ऋज्व, ममार्जिम-ममृजिम- ममृज्म । लुटआह - मार्जिता मार्ष्टेति । ऊदित्त्वदिटि, तदभावे चमृजेर्वृद्धि॑रिति भावः । मार्जिष्यति — माक्ष्र्यति । मार्ष्टु — मृष्टात्, मृष्टाम्, मार्जन्तु — मृज्नतु । मृड्ढीति । हेरपित्त्वेन ङित्त्वान् वृद्धिः । व्रश्चादिना जस्य षः । हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वे ढः । मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । लङ्याह — अमार्डिति । तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे व्रश्चादिना जस्य षः, तस्य जश्त्वचर्त्वे इति भावः । अमृष्टाममार्जन्- अमृजन् । अमार्ट् अमृष्टममृष्टं । अमार्जमिति । अमृज्व अमृज्म । मृज्यात् । मृज्याताम् । मृज्यात् । मृज्यास्ताम् । अमार्जीत् अमार्क्षीदिति । ऊदित्त्वादिड्विकल्प इति भावः । इट्पक्षे अमार्जिष्टाममार्जिषुरित्यादि सुगमम् । इडभावे आमार्ष्टाममार्क्षुः । अमार्क्षीः । अमाष्र्टममाष्र्ट । अमाक्र्षममार्क्ष्व अमार्क्ष्म । अमार्जिष्यत — अमाक्ष्र्यत् । रुधिर्धातुरितित् । सेट् । Tattvabodhini ------------- **मृजेर्वृद्धिः** - मृजेर्वृद्धिः । गुणापवादः । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमित्याह — धातुप्रत्यये किम् । कंसपरिमड्भ्याम् । *क्ङित्यजादाविति । एतञ्चाऽन्येषां वैयाकरणानां मतम् — इको गुणवृद्धी॑ इति सूत्रे भाष्यकृता स्वीकृतम् । मृड्ढीति ।हुझल्भ्यःर॑ इति हेर्धिः । षत्वष्टुत्वजश्त्वानि । Padamanjari ----------- धातोश्च कार्यमुच्यमानमिति । वस्तुतो धातोर्यत्कार्यमुच्यते, तदिह धातोरुच्यमानमिति विवक्षितम् । स धातुः स्वरूपेणैव गृह्यतां मा वा, ग्राहितेन अनुदातस्य चर्दुपधस्यान्यतरस्याम् इत्ययमप्यमागमो धातुप्रत्यय एव भवति, न प्रमृज्भ्यामित्यादौ । तत्प्रत्यय इति । धातोरित्येवं विहिते । कंसपरिमृड्भ्यामिति । अत्र तदन्तविधिना प्रसङ्गः ॥ Nyaas ----- `मार्ष्टा` इति। `मृजू शृद्धौ` (धातुपाठः-1066) व्रश्चादिसूत्रेण (8.2.36) षत्वम्, `ष्टुत्वम्। मृजेः क्विबन्ताद्विभक्तावुत्पन्नायां कंसपरिमृङ्भ्याम्, कंसपरिमृङ्भिरित्यत्र वृद्धिः प्राप्नोति, न च क्विबाश्रयः **क्ङिति च** (1.1.5) इति वृद्धिप्रतिषेधो भवितुमुत्सहते; यस्मात्? क्ङितीति निंमित्तसप्तमी। न चात्र क्विब्निमित्ता वृद्धिः प्राप्नोति, किं तर्हि? विभक्तिनिम्त्ता। तस्मात्? तस्याः प्रतिषेधो वक्तव्य इत्यत आह - `मुजरिति धातुग्रहणम्` इत्यादि। भ्रौणहत्य (6.4.174) मिति निपातनेन ज्ञापितोऽयमर्थः - धाताः कार्यमुच्यमानं धातुप्रत्यय एव भवतीति, तेन कंसमृङ्भ्यामित्यत्र न भवति। यो हि धातोरित्येवं विहितः स धातुप्रत्ययः। न च भ्यामादिकं धातोरित्येवं विहितम्, किं तर्हि? प्रातिपदिकादित्येवम्, तस्मान्नासो धातुप्रत्ययः। `कंसपरिमृङ्भ्याम्` इत्यादि। पूर्ववत्? षत्वे कृत षकारस्य जश्त्वं डकारः॥ Prakriyasarvasvam ----------------- मृजेः प्रत्यये परे इको वृद्धिः स्यात् । कुत्वं मार्ग्यम् । मार्जिता । इडभावे व्रश्चादिषः ष्टुत्वम् मार्ष्टा । 'गुहू संवरणे' । इट्पक्षे गुणे कृते, गोहि तृ । Sutra Prayogas -------------- * **अमार्जीद्भल्ल** (भट्टिकाव्यम्): `मृजेर्वृद्धिः` इति वृद्धिः।