72113: हलि लोपः

Padacheda: हलि | S | 7 | 1 |

लोपः | S | 1 | 1 |

Sutrartha

अककारान्त-इदम्-शब्दस्य ‘इद्’ इत्यस्य तृतीयातः सप्तमी-यावत्सु हलादिप्रत्ययेषु परेषु लोपः भवति ।

सूत्रार्थज्ञानात् पूर्वमादौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः - 1. ‘अकः इदमः’ इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । अव्ययसर्वनाम्नामकच् प्राक्टेः (5.3.71) अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे ‘अकच्’ प्रत्ययः विधीयते । एवं क्रियते चेत् ‘इदकम्’ इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे ‘अकः’ इति निर्दिष्टमस्ति । 2. अस्मिन् सूत्रे प्रयुक्तः ‘आप्’ अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य ‘आङ्’ (टाप्-प्रत्ययस्य पूर्वाचार्यैः दत्ता संज्ञा) इत्यस्मात् सप्तमी-बहुवचनस्य ‘सुप्’ इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः ‘आप्’ इत्यनेन क्रियते । अतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य ‘इद्’ इत्यस्य तृतीयातः सप्तमीपर्यन्तं हलादौ विभक्तौ परे लोपः भवति । अनाप्यकः (7.2.112) इत्यनेन निर्दिष्टस्य ‘अन्’ आदेशस्य अयमपवादः । उदाहरणानि एतानि - 1) इदम् + भ्याम् → इद अ + भ्याम् [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इद + भ्याम् [अतो गुणे (6.1.97) इति पररूपः अकारः] → अ + भ्याम् [अनाप्यकः (7.2.112) इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन हलि लोपः (7.2.113) इत्यनेन इद्-इत्यस्य लोपः भवति ] → आभ्याम् [सुपि च (7.3.102) इति अङ्गस्य दीर्घः] 2) इदम् + ङे [स्त्रीलिङ्गस्य चतुर्थ्येकवचनम्] → इद अ + ए [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इद + ए [अतो गुणे (6.1.97) इति पररूपः अकारः] → इद् + टाप् + ए [अजाद्यतष्टाप् (4.1.4) इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः] → इद् अ स्याट् ए [सर्वनाम्नः स्याड्ढ्रस्वश्च (7.3.114) इति स्याट्-आगमः, अङ्गस्य ह्रस्वादेशः] → अ स्या ए [अनाप्यकः (7.2.112) इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन हलि लोपः (7.2.113) इत्यनेन इद्-इत्यस्य लोपः भवति ] → अ स्यै [वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः] → अस्यै 3) इदम् + ङसिँ [पञ्चमी-एकवचनस्य प्रत्ययः] → इद अ + अस् [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इद + अस् [अतो गुणे (6.1.97) इति पररूपः अकारः] → इद + स्मात् [ङसिङ्योः स्मात्स्मिनौ (7.1.15) इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः] → अ + स्मात् [अनाप्यकः (7.2.112) इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन हलि लोपः (7.2.113) इत्यनेन इद्-इत्यस्य लोपः भवति ] → अस्मात् 4) इदम् + भ्यस् [स्त्रीलिङ्गस्य पञ्चम्यीबहुवचनम्] → इद अ + भ्यस् [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इद + भ्यस् [अतो गुणे (6.1.97) इति पररूपः अकारः] → इद + टाप् + भ्यस् [अजाद्यतष्टाप् (4.1.4) इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः] → अ + आ + भ्यस् [अनाप्यकः (7.2.112) इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन हलि लोपः (7.2.113) इत्यनेन इद्-इत्यस्य लोपः भवति ] → आ + भ्यस् [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → आभ्यः [विसर्गनिर्माणम्] ज्ञातव्यम् - 1. नानर्थके अलोऽन्त्यविधिः अनभ्यासविकारे अनभ्यासविकारे इति काचन परिभाषा अस्ति । अस्याः सामान्यः अर्थः अयम् - यत्र स्थानीः षष्ठ्यन्तमनर्थकम् पदमस्ति, तत्र अलोऽन्त्यस्य (1.1.52) अस्य प्रयोगः न भवति । अतः अत्र ‘इद्’ इत्यत्र सम्पूर्णशब्दस्य लोपः भवति, न हि केवलस्य अन्तिम-दकारस्य । 2. ‘इदकम्’ शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - इदकम् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः] → इदक अ + भ्याम् [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इदक + भ्याम् [अतो गुणे (6.1.97) इति पररूपः अकारः] → इमक + भ्याम् [दश्च (7.2.109) इति दकारस्य मकारादेशः] → इमकाभ्याम् [सुपि च (7.3.102) इति गुण-एकादेशः]

Sutrartha (English)

The ‘इद्’ part of the word ‘इदम्’ is removed when followed by a हलादि विभक्तिप्रत्यय of तृतीया to सप्तमी. But this conversion does not happen if the word इदम् has a ककार in it.

Vasu English Summary

The इद् of इदम् is elided before a विभक्ति affix beginning with a consonant.

Vasu English Translation

The इद् of इदम् is elided before a विभक्ति affix beginning with a consonant. As आभ्याम्, एभिः, (7.1.11) एभ्यः एषाम्, एषु ॥ For म् is substituted अ by (7.2.102), and for अ + अ = अ by (6.1.97). The rule: (1.1.52) by which a substitute replaces only the final letter, does not apply here, on the maxim मानर्थके अलोऽन्त्यविधिः ॥ For no purpose is served by eliding merely the final म् of इदम् ॥ Hence इद् is elided. Or it may be said that the sutra does not teach the elision of इद्, but of अन् which was substituted for इद् by the preceding sutra.

Kashika

हलादौ विभक्तौ परत इदमोऽककारस्येद्रूपस्य लोपो भवति। आभ्याम्। एभिः। एभ्यः। एषाम्। एषु। नानर्थकेऽलोन्त्यविधिः० इति सर्वस्यायमिद्रूपस्य लोपः। अथ वा नायमिल्लोपः। अनाप्यकः (७.२.११२) इत्यन्ग्रहणमनुवर्तते॥

Siddhanta Kaumudi

अककारस्येदम इदो लोपः स्यादापि हलादौ ॥<!नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

अककारस्येदम इदो लोप आपि हलादौ। नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे (परिभाषा)॥

Balamanorama

हलि लोपः - भ्यामादौ त्यदाद्यत्वे पररूपे च कृते ‘अनाप्यकः’ इति प्राप्ते-हलि लोपः । ‘आप्यक’ इति पूर्व सूत्रादनुवर्तते । ‘इदमो मः’ इत्यत ‘इदम’ इतिइदोऽय् पुंसी॑त्यत ‘इद’ इति ‘अष्टनः’ इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणं । तदादिविधिः । तदाह-अककारस्येत्यादिना । अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्क्याह — नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम्शब्दे इदित्यस्यानर्थकत्वात्तदन्तस्येति न लभ्यते । ततश्च इदित्यस्य कृत्स्नस्यैव लोप इति भावः । अनभ्यासविकार इत्यनुक्तौ विभर्तीत्यादौमृञामित्, अर्तिपिपत्र्योश्चे॑तीत्त्वं कृत्स्नस्याभ्यासस्य स्यात् । द्वित्वे सति समुदायस्यैवार्थवत्त्वात् । ‘हलि लोप’ इत्यत्र लोपग्रहणपनीय ‘हल्य’ शित्येव सूत्रयितुमुचितम्, शित्त्वादिदः कृत्स्नस्याकारे पररूपेसुपि चे॑ति दीर्ङे आभ्यामित्यादिसिद्धेः ।

Tattvabodhini

हलि लोपः - नानर्थकेऽलोन्त्यविधिरिति । नन्वेवंबिभर्ति॒॑पिपर्ती॑त्यादौभृञामित्॒अर्तिपिपत्र्योश्चे॑तीत्त्वं सर्वस्याऽभ्यासस्य स्यात्, द्वित्वाऽभावे केवलस्याऽर्थवत्त्वेऽपि द्वित्वे सति समुदायस्यैवाऽर्थवत्त्वादित्याशङ्कायामाह — अनभ्यासविकार इति ।

Padamanjari

अन्ग्रहणमनुवर्तत इति । यद्यपि तत्प्रथमान्तम्, तथापि हलीति सप्तम्या तस्य षष्ठी प्रकल्प्यते ॥

Nyaas

पूर्वेणानादेशे प्राप्ते हलादाविद्रूपस्य लोपो विधीयते। आभ्याम् इति। त्यदद्यत्वम्; अतो गुणे (6.1.94) पररूपत्वम्, सुपि ;ट (7.3.102) इति दीर्घत्वञ्च। अथालोऽन्त्यपरिभाषया (1.1.52) न्त्यस्यायं लोपः कस्मान्न भवति? इत्याह - `नानर्थके इत्यादि। अभ्युपेत्यानर्थकेऽलोऽन्त्यविधिं परिहारान्तरमाह - अथ वा इत्यादि। न चाल्ग्रहणं कर्तव्यम्, यतस्तदनुवर्तते? इत्यत आह - अनाप्यकः इत्यादि। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, तथापि हलीति सप्तमी अन्निति षष्ठीत्वं प्रकल्पयिष्यति; तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति वचनात्। एवं परिहारो भाष्यकारमतेन बोद्धव्यः; अस्याः परिभाषया अनङ्गीकरणात्। अत्र दर्शने तु त्रयाणामकराणां पररूपमेकादेशं कृत्वा दीर्घत्वादि विधेयम्॥

Praudhamanorama

अनभ्यासविकार इति। तेन ‘भृञामित्’ ‘अर्तिपिपर्त्योश्च’इतीत्वेऽलोन्त्यविधिरस्त्येव। बिभर्ति, पिपर्ति। ननु स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्क्याह—

Prakriyasarvasvam

हलादावाप्यककारस्येदम इदो लोपः स्यात् । आभ्याम् ।

Sudha

हलि लोप इति । आप्यक इति पूर्वसूत्रादनुवर्तते । **इदमो मः**(7.2.108) इत्यतः इदम इति । **इदोऽय् पुंसि**(7.2.111) इत्यत इद इति । **अष्टन आ विभक्तौ**(7.2.84) इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणम् । तदादिविधिस्तदाह - अककारस्येति । नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम् शब्दे इद् इत्यस्यानर्थकत्वात् तदन्तस्येति न लभ्यते । ततश्च इद् इत्यस्य कृत्स्नस्यैव लोप इति भावः ।