72112: अनाप्यकः

Padacheda: अन | S | | | 1

आपि | S | 7 | 1 |

अकः | S | 6 | 1 |

Sutrartha

अककारस्य इदम्-शब्दस्य ‘इद्’ इत्यस्य तृतीयातः सप्तमी-यावत्सु विभक्तिप्रत्ययेषु परेषु ‘अन्’ आदेशः भवति ।

सूत्रार्थज्ञानात् पूर्वमादौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः - 1. ‘अकः इदमः’ इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । अव्ययसर्वनाम्नाम् अकच् प्राक्टेः (5.3.71) अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे ‘अकच्’ प्रत्ययः विधीयते । एवं क्रियते चेत् ‘इदकम्’ इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे ‘अकः’ इति निर्दिष्टमस्ति । 2. अस्मिन् सूत्रे प्रयुक्तः ‘आप्’ अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य ‘आङ्’ (टाप्-प्रत्ययस्य पूर्वाचार्यैः दत्ता संज्ञा) इत्यस्मात् सप्तमी-बहुवचनस्य ‘सुप्’ इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः ‘आप्’ इत्यनेन क्रियते । अतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य ‘इद्’ इत्यस्य तृतीयातः सप्तमीपर्यन्तं ‘अन्’ इति आदेशः भवति । परन्तु अकच्-प्रत्ययान्त ‘इदकम्’ शब्दस्य न भवति । यथा - 1) इदम् + टा [तृतीयैकवचनस्य प्रत्ययः] → इद अ + आ [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इद + आ [अतो गुणे (6.1.97) इति पररूपः अकारः] → अन + आ [अनाप्यकः (7.2.112) इति इद्-इत्यस्य अन्-आदेशः] → अन + इन [टाङसिङसामिनात्स्याः (7.1.12) इति टा-प्रत्ययस्य इन-आदेशः] → अनेन [आद्गुणः (6.1.87) इति गुण-एकादेशः] 2) इदम् + ओस् [स्त्रीलिङ्गे षष्ठीद्विवचनस्य प्रत्ययः] → इद अ + ओस् [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इद + ओस् [अतो गुणे (6.1.97) इति पररूपः अकारः] → इद + टाप् + ओस् [अजाद्यतष्टाप् (4.1.4) इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः] → अना + ओस् [अनाप्यकः (7.2.112) इति इद्-इत्यस्य अन्-आदेशः] → अने + ओस् [आङि चापः (7.3.105) इत्यनेन आबन्तस्य अङ्गस्य एकारादेशः भवति ] → अनयोस् [एचोऽयवायावः (6.1.78) इति अयादेशः] → अनयोः [विसर्गनिर्माणम्] ‘इदकम्’ शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः] → इदक अ + आ [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इदक + आ [अतो गुणे (6.1.97) इति पररूपः अकारः] → इमक + आ [दश्च (7.2.109) इति दकारस्य मकारादेशः] → इमक + इन [टाङसिङसामिनात्स्याः (7.1.12) इति टा-इत्यस्य इन-आदेशः] → इमकेन [आद्गुणः (6.1.87) इति गुण-एकादेशः]

Sutrartha (English)

The ‘इद्’ part of the word ‘इदम्’ is converted to अन् when followed by a विभक्तिप्रत्यय of तृतीया to सप्तमी. But this conversion does not happen if the word इदम् has a ककार in it.

Vasu English Summary

अन is substituted for the इद् of इदम् in the Instrumental -3rd case singular and the cases that follow, provided that the augment अकच् is not added.

Vasu English Translation

अन is substituted for the इद् of इदम् in the Instrumental -3rd case singular and the cases that follow, provided that the augment अकच् is not added. As अनेन, अनयोः ॥ Why do we say “not when क is added by (5.3.71)”? Observe इमकेन, इमकयोः ॥ The word आप् (आपि) in the sutra is a pratyahara, formed with the आ of टा (Instrumental Singular), and प् of सुप् (Locative Plural).

Kashika

इदमोऽककारस्येद्रूपस्य स्थानेऽन् इत्ययमादेशो भवत्यापि विभक्तौ परतः। अनेन। अनयोः। अक इति किम्? इमकेन। इमकयोः। आपीति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण॥

Siddhanta Kaumudi

अककारस्येदम इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥

Laghu Siddhanta Kaumudi

अककारस्येदम इदोऽनापि विभक्तौ। आबिति प्रत्याहारः। अनेन॥

Balamanorama

अनाप्यकः - टादावचि विशेषमाह-अनाप्यकः । अन्,-आपि,-अक इति च्छेदः । न विद्यते क् यस्य सः अक्, तस्य-अकः । ककाररहितस्येत्यर्थः । ‘इदमो मः’ इत्यत ‘इदम’ इति, इदोऽय्पुंसी॑त्यत ‘इद’ इति चानुवर्तते ।अष्टन आ विभक्तौ इत्यतो विभक्ताविति । तदाह — अककारस्येत्यादिना । आपीत्यनेन टाप्डाप्चापां ग्रहणं नेत्याह-आबित्यादिना । ‘टा’ इत्याकारमारभ्येत्यर्थः । विभक्तावित्यनुवृत्तिसामर्थ्यान्न टाबादिग्रहणमिति भावः । अनेनेति । इदमा इति स्थिते त्यदाद्यत्वं पररूपत्वम् । इदोऽनादेशः । अन-आ इति स्थिते इनादेशे गुण इति भावः ।

Tattvabodhini

अनाप्यकः - अनाप्यकः ।आ॑विति प्रत्याहारो न तु टाप्, विभक्ताविति विशेषणादतो व्याचष्टे — टा इत्यारभ्य सुपः पकारेणोति ।

Nyaas

अनेन इति। त्यदाद्यत्वे पररूपत्वे च कृत इद्रूपस्यानादेशः, टाङसिङसामिनात्स्याः (7.1.12) इतीनादेशः, आद्गुणः (6.1.87) । अनयोः इति। ओसि च (7.3.104) इत्येत्वम्, अनादेशः, सुलोपः। पकारेण इति। अथ कपः पकारेण कस्मान्न भवति? प्रयोजनाभावात्। ननु चेहेत्यत्र प्राग्दिशीयायां विभक्तौ हलि लोपः (7.2.113) यथा स्यादितीदमस्ति प्रयोजनम्? इदम इश् (5.3.3) इतीशात्र बाधकेन भवितव्यम्। अत्र च अमेहक्वतिसित्रेभ्यः (कारिका 4.2.115) इत्यत्र इहेत्यकृतेद्रूपलोपस्य हकारान्तस्येदमो तिर्देशो लिङ्गम्॥

Praudhamanorama

प्रत्याहार इति। न तु टाप्, विभक्ताविति विशेषणादिति भावः।

Prakriyasarvasvam

आबिति टादिसुबुक्तः । अककारस्येदम आपि परे इदोऽन् स्यात् । अनेन ॥

Sudha

अनाप्यक इति । **इदमो मः**(7.2.108) इत्यतः इदम इति **इदोऽय् पुंसि**(7.2.111) इत्यतः इद इति चानुवर्तते । **अष्टन आ विभक्तौ**(7.2.84) इत्यतो विभक्ताविति । तदाह - इदम इद इत्यादिना । अनेन । इदम् + आ इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपे इद + आ इति जाते **अनाप्यकः**(7.2.112) इति इदोऽनादेशे कृते ‘अन आ’ इति भूते **टाङसिङसामिनात्स्याः**(7.1.12) इति इनादेशे **आद्गुणः**(6.1.87) इति गुणे ‘अनेन’ इति ।