72113: हलि लोपः =============== **Padacheda:** हलि | S | 7 | 1 | लोपः | S | 1 | 1 | Sutrartha --------- **अककारान्त-इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमी-यावत्सु हलादिप्रत्ययेषु परेषु लोपः भवति ।** सूत्रार्थज्ञानात् पूर्वमादौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः - 1. 'अकः इदमः' इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । **अव्ययसर्वनाम्नामकच् प्राक्टेः** (5.3.71) अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे 'अकच्' प्रत्ययः विधीयते । एवं क्रियते चेत् 'इदकम्' इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे 'अकः' इति निर्दिष्टमस्ति । 2. अस्मिन् सूत्रे प्रयुक्तः 'आप्' अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य 'आङ्' (टाप्-प्रत्ययस्य पूर्वाचार्यैः दत्ता संज्ञा) इत्यस्मात् सप्तमी-बहुवचनस्य 'सुप्' इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः 'आप्' इत्यनेन क्रियते । अतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमीपर्यन्तं हलादौ विभक्तौ परे लोपः भवति । **अनाप्यकः** (7.2.112) इत्यनेन निर्दिष्टस्य 'अन्' आदेशस्य अयमपवादः । उदाहरणानि एतानि - 1) इदम् + भ्याम् → इद अ + भ्याम् [**त्यदादीनामः** (7.1.102) इति मकारस्य अकारः] → इद + भ्याम् [**अतो गुणे** (6.1.97) इति पररूपः अकारः] → अ + भ्याम् [**अनाप्यकः** (7.2.112) इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन **हलि लोपः** (7.2.113) इत्यनेन इद्-इत्यस्य लोपः भवति ] → आभ्याम् [**सुपि च** (7.3.102) इति अङ्गस्य दीर्घः] 2) इदम् + ङे [स्त्रीलिङ्गस्य चतुर्थ्येकवचनम्] → इद अ + ए [**त्यदादीनामः** (7.1.102) इति मकारस्य अकारः] → इद + ए [**अतो गुणे** (6.1.97) इति पररूपः अकारः] → इद् + टाप् + ए [**अजाद्यतष्टाप्** (4.1.4) इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः] → इद् अ स्याट् ए [**सर्वनाम्नः स्याड्ढ्रस्वश्च** (7.3.114) इति स्याट्-आगमः, अङ्गस्य ह्रस्वादेशः] → अ स्या ए [**अनाप्यकः** (7.2.112) इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन **हलि लोपः** (7.2.113) इत्यनेन इद्-इत्यस्य लोपः भवति ] → अ स्यै [**वृद्धिरेचि** (6.1.88) इति वृद्धि-एकादेशः] → अस्यै 3) इदम् + ङसिँ [पञ्चमी-एकवचनस्य प्रत्ययः] → इद अ + अस् [**त्यदादीनामः** (7.1.102) इति मकारस्य अकारः] → इद + अस् [**अतो गुणे** (6.1.97) इति पररूपः अकारः] → इद + स्मात् [**ङसिङ्योः स्मात्स्मिनौ** (7.1.15) इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः] → अ + स्मात् [**अनाप्यकः** (7.2.112) इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन **हलि लोपः** (7.2.113) इत्यनेन इद्-इत्यस्य लोपः भवति ] → अस्मात् 4) इदम् + भ्यस् [स्त्रीलिङ्गस्य पञ्चम्यीबहुवचनम्] → इद अ + भ्यस् [**त्यदादीनामः** (7.1.102) इति मकारस्य अकारः] → इद + भ्यस् [**अतो गुणे** (6.1.97) इति पररूपः अकारः] → इद + टाप् + भ्यस् [**अजाद्यतष्टाप्** (4.1.4) इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः] → अ + आ + भ्यस् [**अनाप्यकः** (7.2.112) इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन **हलि लोपः** (7.2.113) इत्यनेन इद्-इत्यस्य लोपः भवति ] → आ + भ्यस् [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] → आभ्यः [विसर्गनिर्माणम्] ज्ञातव्यम् - 1. **नानर्थके अलोऽन्त्यविधिः अनभ्यासविकारे अनभ्यासविकारे** इति काचन परिभाषा अस्ति । अस्याः सामान्यः अर्थः अयम् - यत्र स्थानीः षष्ठ्यन्तमनर्थकम् पदमस्ति, तत्र **अलोऽन्त्यस्य** (1.1.52) अस्य प्रयोगः न भवति । अतः अत्र 'इद्' इत्यत्र सम्पूर्णशब्दस्य लोपः भवति, न हि केवलस्य अन्तिम-दकारस्य । 2. 'इदकम्' शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - इदकम् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः] → इदक अ + भ्याम् [**त्यदादीनामः** (7.1.102) इति मकारस्य अकारः] → इदक + भ्याम् [**अतो गुणे** (6.1.97) इति पररूपः अकारः] → इमक + भ्याम् [**दश्च** (7.2.109) इति दकारस्य मकारादेशः] → इमकाभ्याम् [**सुपि च** (7.3.102) इति गुण-एकादेशः] Sutrartha (English) ------------------- The 'इद्' part of the word 'इदम्' is removed when followed by a हलादि विभक्तिप्रत्यय of तृतीया to सप्तमी. But this conversion does not happen if the word इदम् has a ककार in it. Vasu English Summary -------------------- The इद् of इदम् is elided before a विभक्ति affix beginning with a consonant. Vasu English Translation ------------------------ The इद् of इदम् is elided before a विभक्ति affix beginning with a consonant. As आभ्याम्, एभिः, (7.1.11) एभ्यः एषाम्, एषु ॥ For म् is substituted अ by (7.2.102), and for अ + अ = अ by (6.1.97). The rule: (1.1.52) by which a substitute replaces only the final letter, does not apply here, on the maxim मानर्थके अलोऽन्त्यविधिः ॥ For no purpose is served by eliding merely the final म् of इदम् ॥ Hence इद् is elided. Or it may be said that the *sutra* does not teach the elision of इद्, but of अन् which was substituted for इद् by the preceding *sutra*. Kashika ------- हलादौ विभक्तौ परत इदमोऽककारस्येद्रूपस्य लोपो भवति। आभ्याम्। एभिः। एभ्यः। एषाम्। एषु। **नानर्थकेऽलोन्त्यविधिः०** इति सर्वस्यायमिद्रूपस्य लोपः। अथ वा नायमिल्लोपः। **अनाप्यकः** (७.२.११२) इत्यन्ग्रहणमनुवर्तते॥ Siddhanta Kaumudi ----------------- अककारस्येदम इदो लोपः स्यादापि हलादौ ॥ (वार्तिकम्) ॥ Laghu Siddhanta Kaumudi ----------------------- अककारस्येदम इदो लोप आपि हलादौ। **नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे** (परिभाषा)॥ Balamanorama ------------ **हलि लोपः** - भ्यामादौ त्यदाद्यत्वे पररूपे च कृते 'अनाप्यकः' इति प्राप्ते-हलि लोपः । 'आप्यक' इति पूर्व सूत्रादनुवर्तते । 'इदमो मः' इत्यत 'इदम' इतिइदोऽय् पुंसी॑त्यत 'इद' इति 'अष्टनः' इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणं । तदादिविधिः । तदाह-अककारस्येत्यादिना । अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्क्याह — नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम्शब्दे इदित्यस्यानर्थकत्वात्तदन्तस्येति न लभ्यते । ततश्च इदित्यस्य कृत्स्नस्यैव लोप इति भावः । अनभ्यासविकार इत्यनुक्तौ विभर्तीत्यादौमृञामित्, अर्तिपिपत्र्योश्चे॑तीत्त्वं कृत्स्नस्याभ्यासस्य स्यात् । द्वित्वे सति समुदायस्यैवार्थवत्त्वात् । 'हलि लोप' इत्यत्र लोपग्रहणपनीय 'हल्य' शित्येव सूत्रयितुमुचितम्, शित्त्वादिदः कृत्स्नस्याकारे पररूपेसुपि चे॑ति दीर्ङे आभ्यामित्यादिसिद्धेः । Tattvabodhini ------------- **हलि लोपः** - नानर्थकेऽलोन्त्यविधिरिति । नन्वेवंबिभर्ति॒॑पिपर्ती॑त्यादौभृञामित्॒अर्तिपिपत्र्योश्चे॑तीत्त्वं सर्वस्याऽभ्यासस्य स्यात्, द्वित्वाऽभावे केवलस्याऽर्थवत्त्वेऽपि द्वित्वे सति समुदायस्यैवाऽर्थवत्त्वादित्याशङ्कायामाह — अनभ्यासविकार इति । Padamanjari ----------- अन्ग्रहणमनुवर्तत इति । यद्यपि तत्प्रथमान्तम्, तथापि हलीति सप्तम्या तस्य षष्ठी प्रकल्प्यते ॥ Nyaas ----- पूर्वेणानादेशे प्राप्ते हलादाविद्रूपस्य लोपो विधीयते। `आभ्याम्` इति। त्यदद्यत्वम्; अतो गुणे (6.1.94) पररूपत्वम्, `सुपि ;ट (7.3.102) इति दीर्घत्वञ्च। अथालोऽन्त्यपरिभाषया (1.1.52) न्त्यस्यायं लोपः कस्मान्न भवति? इत्याह - `नानर्थके` इत्यादि। अभ्युपेत्यानर्थकेऽलोऽन्त्यविधिं परिहारान्तरमाह - `अथ वा` इत्यादि। न चाल्ग्रहणं कर्तव्यम्, यतस्तदनुवर्तते? इत्यत आह - `अनाप्यकः` इत्यादि। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, तथापि हलीति सप्तमी अन्निति षष्ठीत्वं प्रकल्पयिष्यति; **तस्मिन्निति निर्दिष्टे पूर्वस्य** (1.1.66) इति वचनात्। एवं परिहारो भाष्यकारमतेन बोद्धव्यः; अस्याः परिभाषया अनङ्गीकरणात्। अत्र दर्शने तु त्रयाणामकराणां पररूपमेकादेशं कृत्वा दीर्घत्वादि विधेयम्॥ Praudhamanorama --------------- **अनभ्यासविकार इति।** तेन 'भृञामित्' 'अर्तिपिपर्त्योश्च'इतीत्वेऽलोन्त्यविधिरस्त्येव। बिभर्ति, पिपर्ति। ननु स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्क्याह— Prakriyasarvasvam ----------------- हलादावाप्यककारस्येदम इदो लोपः स्यात् । आभ्याम् । Sudha ----- हलि लोप इति । आप्यक इति पूर्वसूत्रादनुवर्तते । **इदमो मः**(7.2.108) इत्यतः इदम इति । **इदोऽय् पुंसि**(7.2.111) इत्यत इद इति । **अष्टन आ विभक्तौ**(7.2.84) इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणम् । तदादिविधिस्तदाह - अककारस्येति । नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम् शब्दे इद् इत्यस्यानर्थकत्वात् तदन्तस्येति न लभ्यते । ततश्च इद् इत्यस्य कृत्स्नस्यैव लोप इति भावः ।