72111: इदोऽय् पुंसि¶
Padacheda: इदः | S | 6 | 1 |
अय् | S | 1 | 1 |
पुंसि | S | 7 | 1 |
Sutrartha¶
पुंलिङ्गे इदम्-शब्दस्य ‘इद्’ इत्यस्य सुँ-प्रत्यये परे ‘अय्’ आदेशः भवति ।
‘इदम्’ सर्वनाम्नः ‘इद्’ इत्यस्य पुंलिङ्गे ‘अय्’ इति आदेशः भवति प्रथमैकवचनस्य सुँ-प्रत्यये परे । अत्र स्थानी स्पष्टरूपेण निर्दिष्टः अस्ति, अतः अत्र स्थाननिर्णयपरिभाषाः प्रयोगः न क्रियते । प्रक्रिया इयम् - 1. इदम् + सुँ [पुंलिङ्गे प्रथमैकवचनस्य प्रत्ययः] → इदम् + सुँ [त्यदादीनामः (7.2.102) इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन इदमो मः (7.2.108) इति मकारस्य मकारः] → अयम् + सुँ [इदोऽयं पुँसि (7.2.111) इति ‘इद्’ इत्यस्य ‘अय्’ आदेशः] → अयम् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँलोपः]
Sutrartha (English)¶
In पुंलिङ्ग, the ‘इद्’ part of the word ‘इदम्’ is converted to ‘अय्’ when followed by the सुँ-प्रत्यय.
Vasu English Summary¶
अय् is substituted for the इद् of इदम् in the Nominative 1st-Case singular masculine.
Vasu English Translation¶
अय् is substituted for the इद् of इदम् in the Nominative 1st-Case singular masculine. As अयम् ॥ In the Feminine इयम् ॥ As अयं ब्राह्मणः, and इयं ब्राह्मणी ॥
Kashika¶
इदम इद्रूपस्य पुंसि सौ परतोऽय् इत्ययमादेशो भवति। अयं ब्राह्मणः। पुंसीति किम्? इयं ब्राह्मणी॥
Siddhanta Kaumudi¶
इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । त्यदाद्यत्वं पररूपत्वं च ॥
Laghu Siddhanta Kaumudi¶
इदम इदोऽय् सौ पुंसि। अयम्। त्यदाद्यत्वे॥
Balamanorama¶
इदोऽय् पुंसि - ॒इदम् स् इति स्थिते — इदोऽय्पुंसि । ‘इद’ इति स्थानषष्ठी । ‘इदम’ इत्यनुवर्तते । अवयवषष्ठएषा । ‘यः सौ’ इत्यतः सावित्यनुवर्तते । तदाद-इदम इति । इदम्शब्दस्यावयवो य इद्, तस्येत्यर्थः । अयम् स् इति स्थिते — सोर्लोप इति ।हल्ङ्यादिने॑ति शेषः । अयमिति । सुलोपे प्रत्ययलक्षणमाश्रित्य मकारस्याऽनुस्वारस्तु न, मकारविधिसामर्थ्यात् । अन्यथा अनुस्वारमेव विदध्यात् ।वर्णाश्रये नास्ति प्रत्ययलक्षण॑मिति निषेधाच्च । अथ औजसादिषु विशेषमाह — त्यदाद्यत्वमिति । इदम्-औ इति स्थिते ॒त्यदादीनाम॑ इति मस्य अकार इत्यर्थः । पररूपत्वमिति । इद अ औ इति स्थिते ‘अतो गुणे’ इति अकारयोरेकं परूरूपमकार इत्यर्थः । इद-औ इति स्थिते ।
Tattvabodhini¶
इदोऽय् पुंसि - इदोऽय । पुंसीति किम् । इयं स्त्री । त्यदादेः संबोधनं नास्तीति । प्रचुरप्रयोगा.डदर्शनमेवात्र मूलम् ।
Prakriyasarvasvam¶
सौ पर इदम इद् इत्यस्य पुंसि अय् स्यात् । सुलोपः । अयम् । त्यदाद्यत्वे कृते इद अ औ । ‘अतो गुणे’ (६-१-९७) इद औ । सुपि पर इदमो दस्य मः स्यात् । इमौ । त्यदाद्यत्वे मत्वे च कृते अदन्त- सर्वनामत्वाज्जसः शी । इमे । हे स इति वृत्त्युक्तेरेषामपि सम्बोधनमस्ति । हे अयम्, हे इमावित्यादि । इमम्, इमौ, इमान् ॥
Sudha¶
इदोऽय् पुंसीति । इद इति स्थानषष्ठी । इदम इत्यनुवर्तते । अवयवषष्ठ्येषा । **यः सौ**(7.2.110) इत्यतः सावित्यनुवर्तते । तदाह - इदम इत्यादिना । इदम् + स् इति स्थिते **त्यदादीनामः**(7.2.102) इत्यकारे प्राप्ते तं बाधित्वा **इदमो मः**(7.2.108) इत्यपवादभूते मकारे कृते **इदोऽय् पुंसि**(7.2.111) इतीदम इद्भागस्य अयादेशे कृते यकारस्याऽकारेण सह संयोगे सस्य **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति लोपे ‘अयम्’ इति रूपम् ।