72089: योऽचि

Padacheda: यः | S | 1 | 1 |

अचि | S | 7 | 1 |

Sutrartha


Vasu English Summary

य is substituted for the final of युष्मद् and अस्मद् before a case-ending which is not a substitute and which begins with a vowel.

Vasu English Translation

य is substituted for the final of युष्मद् and अस्मद् before a case-ending which is not a substitute and which begins with a vowel. Thus त्वया, मया, त्वयि, मयि, युवयोः, आवयोः ॥ Why do we say ‘beginning with a vowel’? Observe युवाभ्याम्, आवाभ्याम् ॥ If in the sutra (7.2.86), we read the anuvritti of हलि, we need not use अचि in the present sutra. For then this sutra will be a general (utsarga) aphorism, ordaining य before all non-substitute case-endings; and the sutra (7.2.86), will be considered an exception (apavada) to this, with regard to those case-endings which begin with a consonant, where आ will be ordained. In this view of the case, the use of अचि here is explanatory, Why ‘when the ending is not a substitute’? Observe त्वद् गच्छति, मद् गच्छति ॥

Kashika

अजादौ विभक्तावनादेशे युष्मदस्मदोर्यकारादेशो भवति। त्वया। मया। त्वयि। मयि। युवयोः। आवयोः। अचीति किम्? युवाभ्याम्। आवाभ्याम्। युष्मदस्मदोरनादेशे (७.२.८६) इत्यत्र यदि हलि (७.२.८५) इत्यनुवर्तते शक्यमकर्तुमचीत्येतत्। तत् क्रियते विस्पष्टार्थम्। अनादेश इत्येव — त्वद् गच्छति। मद् गच्छति॥

Siddhanta Kaumudi

अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥

Laghu Siddhanta Kaumudi

अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः। त्वया। मया॥

Balamanorama

योऽचि - योऽचि ।युष्मदस्मदोरनादेशे॑ इत्यनुवर्तते । ‘अष्टन आ विभक्तौ’ इत्यतोविभक्ता॑विति चानुवर्तते ।अची॑ति विभक्तिविशेषणं । तदादि विधिस्तदाह — अनयोरिति । युष्मदस्मदोरन्त्यस्येत्यर्थः । अचि किम् , युवाभ्याम् । अनादेशे किम् , त्वत्, मत् । ‘पञ्चम्या अत्’ इत्यदादेशे सति न यत्वम् ।युष्मद् आ, अस्मद् आ इत्यत्र ‘त्वमावेकवचने’ इति मपर्यन्तस्य त्वमादेशयोर्दकारस्य यत्वे पररूपे च रूपमिति भावः ।

Tattvabodhini

योऽचि - योऽचि । अचि किम् । युवाभ्याम् । यदि तुयुष्मदस्मगदोरनाद्शे॑इत्यत्ररायो हली॑त्यतो हलीत्यनुवर्तते तदेहा॒ऽची॑ति मास्तु, परिशेषादेव सिद्धेः ।

Padamanjari

शक्ययमकर्तुमचीत्येतदिति । कथमनादिष्टायां विभक्तौ विधीयमानं यत्वमुत्सर्गः, तत्रैव हलादावात्वमपवादः । त्वत्, मदिति । एकवचनस्य चेति ङ्सेरदादेशः ॥

Nyaas

युष्मदस्मोदारमादेश इत्यत्र इत्यादि। युष्मदस्मदोरनादेशे (7.2.86) इत्यत्र यदि पूर्वसूत्राद्? (7.2.85) हल्ग्रहणमनुवर्तते, तदाऽविशेषेम विधीयमानं यत्वमुत्सर्गो ज्ञाप्यते। आत्वं तु विभक्तिविशेषे हलादौ विधीयमानमस्याप्यपवादः। एवं चाप्यन्तरेणाप्यज्ग्रहणम्, यकारोऽजादावेवावतिष्ठते, तस्मदचीत्येच्छक्यमकर्त्तुम्? तत्? क्रियते विस्पष्टार्थम्। स्वद्? गच्छति, मद्? गच्छति इति। एकवचनस्य च (7.1.32) इति ङसेरदादेशः॥

Praudhamanorama

अचि किम्? युवाभ्याम्। यदि तु ‘युष्मदस्मदोरनादेशे’ इत्यत्र ‘रायो हलि’ इत्यतो हलीत्यनुवर्तते तदा इहाचीति माऽस्तु परिशेषादेव सिद्धेः।

Prakriyasarvasvam

अनयोरनादेशरूपेऽजादौ सुपि यकारोऽन्तादेशः स्यात् । त्वया । मया ॥

Sudha

योऽचीति । **युष्मदस्मदोरनादेशे**(7.2.86) इत्यनुवर्तते । **अष्टन आ विभक्तौ**(7.2.84) इत्यतो विभक्तावित्यनुवर्तते । अचीति विभक्तिविशेषणम् । तदादिविधिस्तदाह - अनयोरिति । त्वया, मया । युष्मद् + टा अस्मद् + टा इत्यत्र **त्वमावेकवचने**(7.2.97) इति मपर्यन्तस्य युष्मदः त्वादेशे अस्मदश्च मादेशे सति ‘त्व अद् टा’ ‘म अद् टा’ इति जाते **अतो गुणे**(6.1.97) इति पररूपे टागतटकारत्स्येत्संज्ञायां लोपे च **योऽचि**(7.2.89) इति योगेन सर्वस्य यकारादेशे प्राप्ते **अलोऽन्त्यस्य**(1.1.52) इत्यन्तस्य दस्य जाते सति ‘त्व य् आ’ ‘म य् आ’ इति भूते संयोगे च कृते ‘त्वया’ ‘मया’ इति ।