72089: योऽचि ============ **Padacheda:** यः | S | 1 | 1 | अचि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- य is substituted for the final of युष्मद् and अस्मद् before a case-ending which is not a substitute and which begins with a vowel. Vasu English Translation ------------------------ य is substituted for the final of युष्मद् and अस्मद् before a case-ending which is not a substitute and which begins with a vowel. Thus त्वया, मया, त्वयि, मयि, युवयोः, आवयोः ॥ Why do we say 'beginning with a vowel'? Observe युवाभ्याम्, आवाभ्याम् ॥ If in the *sutra* (7.2.86), we read the *anuvritti* of हलि, we need not use अचि in the present *sutra*. For then this *sutra* will be a general (*utsarga*) aphorism, ordaining य before all non-substitute case-endings; and the *sutra* (7.2.86), will be considered an exception (*apavada*) to this, with regard to those case-endings which begin with a consonant, where आ will be ordained. In this view of the case, the use of अचि here is explanatory, Why 'when the ending is not a substitute'? Observe त्वद् गच्छति, मद् गच्छति ॥ Kashika ------- अजादौ विभक्तावनादेशे युष्मदस्मदोर्यकारादेशो भवति। त्वया। मया। त्वयि। मयि। युवयोः। आवयोः। अचीति किम्? युवाभ्याम्। आवाभ्याम्। **युष्मदस्मदोरनादेशे** (७.२.८६) इत्यत्र यदि हलि (७.२.८५) इत्यनुवर्तते शक्यमकर्तुमचीत्येतत्। तत् क्रियते विस्पष्टार्थम्। अनादेश इत्येव — त्वद् गच्छति। मद् गच्छति॥ Siddhanta Kaumudi ----------------- अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥ Laghu Siddhanta Kaumudi ----------------------- अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः। त्वया। मया॥ Balamanorama ------------ **योऽचि** - योऽचि ।युष्मदस्मदोरनादेशे॑ इत्यनुवर्तते । 'अष्टन आ विभक्तौ' इत्यतोविभक्ता॑विति चानुवर्तते ।अची॑ति विभक्तिविशेषणं । तदादि विधिस्तदाह — अनयोरिति । युष्मदस्मदोरन्त्यस्येत्यर्थः । अचि किम् , युवाभ्याम् । अनादेशे किम् , त्वत्, मत् । 'पञ्चम्या अत्' इत्यदादेशे सति न यत्वम् ।युष्मद् आ, अस्मद् आ इत्यत्र 'त्वमावेकवचने' इति मपर्यन्तस्य त्वमादेशयोर्दकारस्य यत्वे पररूपे च रूपमिति भावः । Tattvabodhini ------------- **योऽचि** - योऽचि । अचि किम् । युवाभ्याम् । यदि तुयुष्मदस्मगदोरनाद्शे॑इत्यत्ररायो हली॑त्यतो हलीत्यनुवर्तते तदेहा॒ऽची॑ति मास्तु, परिशेषादेव सिद्धेः । Padamanjari ----------- शक्ययमकर्तुमचीत्येतदिति । कथमनादिष्टायां विभक्तौ विधीयमानं यत्वमुत्सर्गः, तत्रैव हलादावात्वमपवादः । त्वत्, मदिति । एकवचनस्य चेति ङ्सेरदादेशः ॥ Nyaas ----- `युष्मदस्मोदारमादेश इत्यत्र` इत्यादि। **युष्मदस्मदोरनादेशे** (7.2.86) इत्यत्र यदि पूर्वसूत्राद्? (7.2.85) हल्ग्रहणमनुवर्तते, तदाऽविशेषेम विधीयमानं यत्वमुत्सर्गो ज्ञाप्यते। आत्वं तु विभक्तिविशेषे हलादौ विधीयमानमस्याप्यपवादः। एवं चाप्यन्तरेणाप्यज्ग्रहणम्, यकारोऽजादावेवावतिष्ठते, तस्मदचीत्येच्छक्यमकर्त्तुम्? तत्? क्रियते विस्पष्टार्थम्। `स्वद्? गच्छति, मद्? गच्छति` इति। **एकवचनस्य च** (7.1.32) इति ङसेरदादेशः॥ Praudhamanorama --------------- अचि किम्? युवाभ्याम्। यदि तु 'युष्मदस्मदोरनादेशे' इत्यत्र 'रायो हलि' इत्यतो हलीत्यनुवर्तते तदा इहाचीति माऽस्तु परिशेषादेव सिद्धेः। Prakriyasarvasvam ----------------- अनयोरनादेशरूपेऽजादौ सुपि यकारोऽन्तादेशः स्यात् । त्वया । मया ॥ Sudha ----- योऽचीति । **युष्मदस्मदोरनादेशे**(7.2.86) इत्यनुवर्तते । **अष्टन आ विभक्तौ**(7.2.84) इत्यतो विभक्तावित्यनुवर्तते । अचीति विभक्तिविशेषणम् । तदादिविधिस्तदाह - अनयोरिति । त्वया, मया । युष्मद् + टा अस्मद् + टा इत्यत्र **त्वमावेकवचने**(7.2.97) इति मपर्यन्तस्य युष्मदः त्वादेशे अस्मदश्च मादेशे सति 'त्व अद् टा' 'म अद् टा' इति जाते **अतो गुणे**(6.1.97) इति पररूपे टागतटकारत्स्येत्संज्ञायां लोपे च **योऽचि**(7.2.89) इति योगेन सर्वस्य यकारादेशे प्राप्ते **अलोऽन्त्यस्य**(1.1.52) इत्यन्तस्य दस्य जाते सति 'त्व य् आ' 'म य् आ' इति भूते संयोगे च कृते 'त्वया' 'मया' इति ।