72088: प्रथमायाश्च द्विवचने भाषायाम्¶
Padacheda: प्रथमायाः | S | 6 | 1 |
च | S | 0 | 0 |
द्विवचने | S | 7 | 1 |
भाषायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
आ is substituted for the final of युष्मद् and अस्मद् before the case-ending of the Nominative 1st-Case dual in the secular literature.
Vasu English Translation¶
आ is substituted for the final of युष्मद् and अस्मद् before the case-ending of the Nominative 1st-Case dual in the secular literature. As युवाम्, आवाम् ॥ Why of the nominative? Observe युवयोः, आवयोः ॥ Why in the Dual ? Observe त्वं, अहं, यूयं, वयं ॥ Why in the secular literature ? Observe युवं वस्त्राणि पीवसा वसाथे in the Veda, so also आवम् ॥
Kashika¶
प्रथमायाश्च द्विवचने परतो भाषायां विषये युष्मदस्मदोराकारादेशा भवति। युवाम्। आवाम्। प्रथमाया इति किम्? युवयोः। आवयोः। द्विवचन इति किम्? त्वम्। अहम्। यूयम्। वयम्। भाषायामिति किम्? यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे (ऋ० १.१५२.१)॥
Siddhanta Kaumudi¶
इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं वस्त्राणि । युवाम् । आवाम् । मपर्यन्तस्य किम् । साकच्कस्य माभूत् । युवकाम् । आवकाम् । त्वया मयेत्यत्र त्व्या म्येति माभूत् । युवकाभ्यामावकाभ्यामिति च न सिद्ध्येत् ॥
Laghu Siddhanta Kaumudi¶
औङ्येतयोरात्वं लोके। युवाम्। आवाम्॥
Balamanorama¶
प्रथमायाश्च द्विवचने भाषायाम् - युव-अद्, आव-अदिति स्थिते ‘शेषे लोपः’ इति प्राप्ते — प्रथमायाश्च द्विवचने । ‘अष्टन आ विभक्तौ’ इत्यत आग्रहणमनुवर्तते ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरिति च । तदाह — इहेति । भाषायां प्रथमाद्विवचने परे इत्यर्थः । बाषायामित्यस्य तु लोकिकव्यवहारे इत्यर्थः । युवाम् । आवामिति । युव अद् अम्, आव् अद् अम् इत्यत्र दकारस्य आत्वे पूर्वयोरकारयोः पररूपे ततः सवर्णदीर्घे ‘अमि पूर्वः’ इति भावः । औङीत्येव सुवचमिति । द्वितीयाद्विचनेऽप्यात्वस्य इष्टत्वादिति भावः । युवं वस्त्राणीति । युष्मद्-औ इति स्थिते मपर्यन्तस्य युवादेशे सति शेषलोपे रूपम् । मपर्यन्तस्य किमिति । युष्मदस्मदोः समस्तयोरेव युवावादेशयोः कृतयोरपि आत्वे पूर्वरूपे च युवामावामिति सिद्धेरिति प्रश्नः । साकच्कस्येति ।अव्यवसर्वनाम्ना॑मिति टेः प्रागकचियुष्मकद्-औ अस्मकद्-औ इति स्थितेङे प्रथमयो॑रित्यमि ‘युवावौ द्विवचने’ इति समस्तयोः साकच्कयोस्तन्मधय्पतितन्यायेन युवावादेशयोःप्रथमायाश्चे॑ति दकारस्य आत्वे अमि पूर्वे च युवामावामित्येव स्यात्, ककारो न श्रूयेत, तो मपर्यन्तस्येति वचनमित्यर्थः । ननु समुदायादेशत्वेऽपिओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकचि युवकामावकामिति सिध्यत्येव, अत्र साकच्कयोर्युवावादेशाप्रसक्तेरित्यस्वरसादाह — त्वया मयेति । यदि मपर्यन्तस्येति न स्यात्तदा ‘त्वमावेकवचने’ इति त्वमादेशौ समस्तयोः स्याताम् । ततश्च तृतीयैकवचने युष्मद् आ, अस्मद् आ इति स्थिते समस्तयोः स्थाने त्वमादेशयोः त्व-आ, म-आ इति स्थिते ‘योऽचि’ इत्यकारस्य यत्वे त्व्या म्या इति स्यात् । अतोमपर्यन्तस्ये॑ति वचनम् । सति तस्मिन्मपर्यन्तस्य त्वमादेशयोः कृतयोः-त्व अद् आ, म अद् आ इति स्थिते अकारयो पररूपे दकारस्य यत्वे च त्वया मया इति सिध्यतीत्यर्थः । ननुयोऽची॑ति सूत्रस्थाने ‘अच्ये’ इति सूत्रमस्तु । अजादिविभक्तौ युष्मदस्मदोरन्त्यस्य एकारः स्यादिति तदर्थः । तथाच त्वमयोः समस्तादेशत्वेऽपि तदन्त्यस्याकारस्य एत्त्वे अयादेशे च कृते त्वया मयेति सिध्यतीत्यस्वसादाह — युवकाभ्यामावकाभ्यामिति च न सिध्येदिति । ‘असति मपर्यन्तवचने’ इति शेषः ।ओकारसकारे॑त्यादिवचनेन भ्यामि टेः प्रागकचि तन्मध्यपतितन्यायेन साकच्कयोः स्थाने युवावादेशयोः युवाभ्यावावाभ्यामित्येव स्यात् । ककारो न श्रूयेत । युष्मकद् अस्मकद् इत्यत्र मपर्यन्तस्यैव युवावादेशयोस्तुयुष्मदस्मदोरनादेशे॑ इत्यात्वे युवकाभ्यामावकाभ्यामिति निर्बाधमित्यर्थः ।
Tattvabodhini¶
प्रथमायाश्च द्विवचने भाषायाम् - युवं वस्त्राणीति । शेषे लोपः । मपर्यन्तस्य किमिति । अधिकारसूत्रं किमर्थमिति प्रश्नः । युवकाम् । आवकामिति । ननु युवावयोः समुदायाशत्वेऽपियुवका॑मित्यादि सिध्यति ।ओकारसकारभकारादौ सुपि सर्वनामष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यटेः प्रा॑गिति युष्मदस्मद्विषये व्यवस्थायास्त्वयका मयकेत्यादिसिद्धये वक्ष्यमाणत्वात्, किमनेनमपर्यन्तस्ये॑त्यधिकारेणेत्यपरितोषादाह — त्वया मयेत्यत्रेति । ननु त्वमादेशयोरपि समुदायादेशत्वेत्वये॑त्यादि साधयितुं शक्यत एव,योऽची॑ति सूत्रं परित्यज्यअच्ये॑इति सूत्रे कृते अजादौ विभक्तौ परतोऽन्त्यस्य एकारदेशे सत्ययादेशप्रवृत्तेरिति पुनरपरितोषादाह —
Padamanjari¶
युवयोरिति । ननु च योऽचि इति यत्वमत्र बाधकं भविष्यति प्रथमाद्विवचनेऽपि तर्हि शेषेलोपो बाधकः स्यात् । अथ तस्य वचनाद्वाधः यत्वस्यापि बाधः स्यात् । पुरस्तादपवादन्यायेन वा यत्वस्यैव बाधः स्यात् ॥
Nyaas¶
इदमप्यादेशार्थं वचनम्। युवयोः, आवयोः इति। ननु च योऽचि (7.2.89) इति यत्वमत्र वाधकं भविष्यति? प्रथमाद्विवचनेऽपि तर्हि शेषेलोपो (7.2.90) बाधकः स्यात्। तत्र यथा वचनसामर्थ्याच्छेषेलोपोऽनेन बाध्यते, तथा यत्वमपि बाध्येत। पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान् (व्या।प।9) इति यत्वमपि बाध्येत। तस्मात्? प्रथमायाः इति वक्तव्यम्। त्वम्? अहम् इति। त्वाहौ सौ (7.2.94) त्वाहावादेशौ। औ इति वक्तव्ये प्रथमाया द्विवचनं वैचित्र्यार्थम्॥
Praudhamanorama¶
युवं वस्त्राणीति। शेषे लोपः। यत्तु काशिकायामुक्तम्— पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि। यान्यद्विवचनान्यत्र शेषे लोपो विधीयते॥ इति, तद्भाषापेक्षया। छन्दसि तु प्रथमाद्विवचनमपि शेषे लोपस्य विषय एवेति बोध्यम्। मपर्यन्तस्य किमिति। अधिकारसूत्रं किमर्थमिति प्रश्नः।
Prakriyasarvasvam¶
प्रथमाद्विवचने परे युष्मदस्मदोर्लोकेऽन्तादेश आत् स्यात् । युव अ आ अम् आ व अ आ अम् । ‘अतो गुणे’ (६–१–९७) सवर्णदीर्घः । ‘अमि पूर्वः’ (६–१–१०७) युवाम् । आवाम् । भाषायामात्वोक्तेश्छन्दसि शेषेलोपपररूपत्व- योर्युवम् । मपर्यन्तस्य युवाद्युक्तिर्मकारात् परस्याकचः श्रवणार्थम् । युवकाम् । आवकाम् ॥
Sudha¶
प्रथमायाश्चेति । **अष्टन आ विभक्तौ**(7.2.84) इत्यत ‘आ’ इति **युष्मदस्मदोरनादेशे**(7.2.86) इत्यतो युष्मदस्मदोरिति चात्रानुवर्तते । युवाम्, आवाम् । । **युष्मदस्मद्भ्यां ङसोऽश्**(7.1.27) युष्मद् + औ अस्मद् + औ इत्यत्र **ङे प्रथमयोरम्**(7.1.28) इति औकारस्य स्थाने अमि **युवावौ द्विवचने**(7.2.92) इति युष्मदो मपर्यन्तस्य युव आदेशे अस्मदो मपर्यन्तस्य आवादेशे च ‘युव अद् अम्’ ‘आव अद् अम्’ अत्र ‘अतो गुणे’ इति पररूपत्वे **प्रथमायाश्च द्विवचने भाषायाम्**(7.2.88) इति आकारान्तादेशे ‘युव आ अम्’ ‘आव आ अम्’ इति भूते **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घे **अमि पूर्वः**(6.1.107) इति पूर्वरूपैकादेशे च कृते ‘युवाम्’ इति ‘आवाम्’ इति च । यूयम् । वयम् । युष्मद् + जस् ‘अस्मद् जस्’ इत्यत्र **ङे प्रथमयोरम्**(7.1.28) इति जसः स्थाने अमि कृते **यूयवयौ जसि**(7.2.93) इति युष्मदो मपर्यन्तस्य यूयादेशे अस्मदो मपर्यन्तस्य वयादेशे च विहिते ‘यूय अद् अम्’ ‘वय + अद् अम्’ इति जाते **अतो गुणे**(6.1.97) इति पररूपत्वे **शेषे लोपः**(7.2.90) इति दकारस्य लोपे **अमि पूर्वः**(6.1.107) इति पूर्वरूपैकादेशे ‘यूयम्’ इति, ‘वयम्’ इति । एकस्योक्ताविति । ‘त्वमावेकत्वे’ इति वक्तव्ये वचनग्रहणादयमर्थो लभ्यत इति भावः ।