72090: शेषे लोपः¶
Padacheda: शेषे | S | 7 | 1 |
लोपः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In the remaining cases where (आ or य is not substituted) there is elision of the final युष्मद् and अस्मद्।
Vasu English Translation¶
In the remaining cases where (आ or य is not substituted) there is elision of the final युष्मद् and अस्मद्। This elision finds scope in the Singular and Plural of the Ablative, Dative, Genitive, and the Nominative. Thus त्वम्, अहम्, यूयम्, वयम्, तुभ्यम्, मह्यम्, युष्मभ्यम्, अस्मभ्यम्, त्वत्, मत्, युष्मत्, अस्मत्, तव, मम, युष्माकम्, अस्माकम् ॥ The following sloka gives the cases which are included in the word शेषः :-
पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि । यान्यद्विवचनान्यत्र तेषु लोपो विधीयते ॥
The word शेष is employed in the sutra for the sake of clearness. For there will be elision universally before all case-affixes. This is the general rule. To this there is the exception that before non-substitute case-affixes there will be य (7.2.89). To this latter, there is an exception that before non-substitute case-endings beginning with a consonant, आ comes. Thus without any confusion, the आ, the य, and the lopa find their respective scopes.
When there is elision, why is not टाप् added in the Feminine; in त्वं ब्राह्मणी; अहं ब्राह्मणी ? The टाप् is not added on the maxim सन्निपात लक्षणो विधिरनिमित्तं तद्विघातस्य ‘a rule which is occasioned by a certain combination, does not become the cause of the destruction of that combination.’ Because the ending in अ of युष्मद् and अस्मद् was occasioned by vibhakti combination, if this latter occasion टाप्, then it will destroy its own fruit.
Or the words युष्मद् and अस्मद् may be taken to have no gender, and equally applicable to both masculine and feminine.
In order to avoid all this difficulty about टाप् some would elide the अद् (or टि portion) of युष्मद् and अस्मद् under this sutra. They argue that by the next sutra (7.2.91), the portions ‘yushm’ and ‘asm’, namely the portions upto म् of युष्मद् and अस्मद् are replaced by substitutes. The portion that remains (शेष) is अद्, and it is this अद् which is to be elided.
Why is this ‘lopa’ taught again, when by (7.2.102), all त्यदादि pronouns have अ substituted for their finals before case-endings; and so would yushmad and asmad, lose their finals and become yushma and asma by that rule? That rule does not apply to yushmad and asmad, because by an ishti that rule is restricted to tyadadi pronouns upto द्वि, thus excluding युष्मद्, अस्मद्, भवतु and किम् ॥
Bhashya¶
शेषे लोपः शेषग्रहणं शक्यमकर्तुम्(1) ॥ कथम् ? ॥ अविशेषेण लोप उत्सर्गस्तस्याऽजादौ(2) यत्वमपवादो हलादावात्वमपवादः(3) ॥ (शेषे लोपः ) ॥
Kashika¶
शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति। कश्च शेषः? यत्राकारो यकारश्च न विहितः।
पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि।
यान्यद्विवचनान्यत्र तेषु लोपो विधीयते॥
त्वम्। अहम् । यूयम्। वयम्। तुभ्यम्। मह्यम्। युष्मभ्यम्। अस्मभ्यम्। त्वत्। मत्। युष्मत्। अस्मत्। तव। मम। युष्माकम्। अस्माकम्। शेषग्रहणं विस्पष्टार्थम्। शेषे लोपे कृते स्त्रियां टाप् कस्माद् न भवति — त्वं ब्राह्मणी, अहं ब्राह्मणी? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य, अलिङ्गे वा युष्मदस्मदी इति। केचित् तु शेषे लोपं टिलोपमिच्छन्ति। कथम्? वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य (७.२.९१) विधीयन्ते। तेन मपर्यन्ताद् योऽन्यः स शेष इति। तत्रायं लोप इति टिलोपो भवति॥
Siddhanta Kaumudi¶
आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् । अतो गुणे (SK191) अमि पूर्वः (SK194) ॥ त्वम् । अहम् । ननु त्वं स्त्री अहं स्त्री इत्यत्र त्व अमह अम् इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । सच परोऽप्यन्तरङ्गे अतो गुणे (SK191) कृते प्रवर्तते । तेनादन्तत्वाऽभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥
Laghu Siddhanta Kaumudi¶
एतयोष्टिलोपः। त्वम्। अहम्॥
Balamanorama¶
शेषे लोपः - शेषे लोपः । ‘अष्टन आ विभक्तौ’ इत्यत आविभक्तौ॑ इत्यनुवर्तते । विभक्तावित्यनुवृत्तं ‘शेषे’ इत्यनेनान्वेति ।युष्मदस्मदोरनादेशे॑,द्वितीयायां च॑,प्रतमायाश्च द्विवचने भाषायां॑,योऽची॑त्यात्वयत्वयोः प्रागुक्तत्वात्तद्विषयातिरिक्तविभक्तिरिह ‘शेष’ शब्दार्थः ।युष्मदस्मदो॑रिति चानुवृत्तन्तदाह-आत्वयत्वेति । अन्त्यस्येति । अलोऽन्त्यपरिभाषालभ्यम् । शेषग्रहणमिह विभक्तिविशेषणं स्पष्टार्थमेव, विशेषविहिताभ्यामात्वयत्वाभ्यां स्वविषये बाधसंभवादिति प्रकृतसूत्रे,युष्मदस्मद्भ्यां ङ्सोऽश् इति सूत्रे च भाष्यकैयटयोः स्पष्टम् । अतो गुणे इति । पूर्वयोरकारयोः पररूपमिति बावः । त्व अम्, अह अम् इत्यत्र पूर्वसवर्णदीर्घमाशङ्कमाह-अमि पूर्व इति । अत्र शङ्कतेनन्विति ।ननु च स्याद्विरोधोक्तौ॑ इत्यमरः । शङ्कायामिति यावत् । अन्तरङ्गत्वादिति । ‘अजाद्यतः’ इति टापः परनिमित्तानपेक्षतया पररूपादन्तरङ्गत्वं बोध्यम् । अर्धाङ्गीकारेण परिहरति — सत्यमिति । पररूपादन्तरङ्गष्टावित्यङ्गीक्रियते । इह प्रवृत्तिस्तु तस्य नाङ्गीक्रियते इत्यर्थः । अलिङ्गे युष्मदस्मदी इति ।साम आक॑मिति सूत्रे भाष्ये पठितमेतत् ।युष्मदस्मदी॑इत#इ शब्दस्वरूपपरत्वान्नपुंसके । शब्दस्वरूपपरत्वादेव चत्यदादीनि सर्वैर्नित्य॑मित्येकशेषोऽपि न, अत एव भाष्यप्रयोगात् । तेनेति । अलिङ्गत्वेनेत्यर्थः । ननु ‘ङे प्रथमयोः’ इति सूत्रे भाष्ये पुंसि युष्मानस्मानित्यत्रतस्माच्छसो न पुंसी॑ति नत्वस्य सिद्धत्वात्शसो ने॑ति नत्वविधिवैयथ्र्यमाशङ्क्य स्त्रियां नपुंसके च युष्मान्ब्राआहृणीः पश्य, अस्मान्ब्राआहृणीः पश्य, युष्मान्ब्राआहृणकुलानि पश्य, असमान्ब्राआहृणकुलानि पश्ये॑त्यत्र नत्वार्थंशसो ने॑ति नत्वाविधानमित्यादि स्थितम् । किंच स्वमोर्नपुंसकादित्यधिकारेनेतराच्छन्दसी॑ति सूत्रेनपुंसकादेशेब्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेने॑ति वार्तिकतद्भाष्ययोः शिशीलुङ्नुम्भिर्नपुंसकविहितैस्त्वाहादियुष्मदस्मदादेशानां विप्रतिषेध उपन्यस्तः । अतो युष्मदस्मदोरलिङ्गत्वमनुपपन्नम् ।साम आम॑मिति सूत्रेअलिङ्गे युष्मदस्मदी॑ इति भाष्यं तु पुंस्त्रीनपुंसकलिङ्गपदान्तरसमभिव्याहारं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इत्येवंपरमिति तत्रैव भाष्ये स्पष्टम् । एवंच युष्मदस्मदोः स्त्रीलिङ्गसत्त्वाट्टाब्दुर्वार इत्यस्वरसादाह-यद्वेति । अधिकरणत्वविवक्षयेति ।विवक्षातः कारकाणि भवती॑ति वक्ष्यमाणत्वादिति भावः । यदि हि शेषे इति विभक्ति विशेषणं स्यात्तर्हि व्यर्थमेव स्यात्, आत्वयत्वाभ्यां विशेषविहिताभ्यां स्वविषये लोपस्य बाधसंभवात् । अतः शेषस्य स्थाने इत्यर्थ आस्थेयः । ततः किमित्यत आह-तेनेति । शेषस्य स्थाने इत्यर्थाश्रयणेनेत्यर्थः । मपर्यन्तादिति । मपर्यन्तस्येत्यपकृष्टं पञ्चम्यन्ततया विपरिणम्यत इति भावः । एतच्च ‘त्यदादीनामः’ इति सूत्रेटिलोपष्टाबभावार्थः कर्तव्य इति स स्मृतः । अथवा शेषसप्तम्या शेषे लोपो विधीयते ।॑ इति वार्तिकतद्भाष्ययोः स्पष्टम् । नच मपर्यन्तस्य त्व इति अह इति चादेशे कृते शिष्टस्य अदित्यस्य मपर्यन्तात्परत्वं नास्तीति वाच्यं, त्वाहादेशयोः कृतयोरदो लोपप्रवृत्तिवेलायां मपर्यन्ताच्छेषत्वाऽभावेऽपि त्वाहादेशप्रवृत्तेः पूर्वकालिकमपर्यन्ताच्छेषस्य अद्शब्दस्य लोपस्तथापि त्व अद् अम्, अह अद् अम् इति स्थिते पररूपापेक्षया परत्वाददो लोपे अदन्तत्वाट्टाब्दुर्वार इत्यत आह-स चेति । शेषे लोप इत्यर्थः । अन्तरङ्गे इति । ‘अतो गुणे’ इत्यस्य बहिर्भूतविभक्त्यपेक्षलोपापेक्षयाऽन्तरङ्गत्वं बोध्यम् । अदन्तत्वाभावादिति । त्व अद् , अह अद् इत्यत्र पररूपे सति त्वद् अहद् इति स्थिते अदो लोपे त्व् अह् इत्यनयोरदन्तत्वाऽभावान्न टाबित्यर्थः । परमत्वमिति । ‘ङे प्रथमयोः’ इत्यादीनामाङ्गत्वात्तदन्तविधिरिति भावः । अतित्वमिति ।ङे प्रथमयो॑रित्यादीनां गौणेऽप्रवृत्तौ मानाऽभावादिति भावः ।
Tattvabodhini¶
शेषे लोपः - आत्वयत्वनिमित्तेतरेति । अन्त्यस्येति । अलोन्त्यपरिभाषयेति भावः । अतो गुण इति । नत्यास्तुत्वाहौ सा॑वित्यत्र त्वाहादेशयोरन्त्याकार उच्चारणार्थ एवाऽस्तु किमनेन पररूपकरणप्रयासेनेत्याहुः । त्वम् । अहमिति । ननु युष्मानतिक्रान्तःअतित्व॑मित्यादौत्वाहौ सौ॑इत्यस्यावकाशोऽस्ति, त्वामतिक्रान्तेनाऽतित्वयेत्यादौत्वमावेकवचने॑इत्स्यावकाशः, त्वमबमित्यत्र तूभयोः प्रसङ्गेत्वमावेकवचने॑इत्यनेन परत्वाद्भाव्यम् । नैष दोषः, — ॒त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः॑इति वक्ष्यमाणत्वात् । अधिकरणत्वविवक्षयेति । यदि तुशेषे॑इति विभक्तिविशेषणं स्यात्तर्हि व्यर्थमेव तत्, आत्वयत्वाभ्यां विशेषविहिताभ्यां स्वविषये लोपस्य बाधसम्भवत् । न चैवमन्त्यलोप इति पक्षस्य निरालम्बनतापत्त्या युष्मदस्मदोरन्त्यस्य लोपः स्यादिति ग्रन्थोऽयुक्त इति बाच्यम्,साम आक॑मिति ससुट्कनिर्द्देशेन तस्यापि पक्षस्य ज्ञापितत्वादिति भावः । अतो गुणे कृते प्रवर्तते ति ।वार्णादाङ्गं बलीयः॑इति तु समानाश्रय एव भवति, न तु व्याश्रये । इह तु शेषेलोपस्य विभक्तिर्निमित्तं, पररूपस्य त्वकार इति व्याश्रयत्बमिति भावः । समानाश्रये उदाहरणं तुकारक॑इत्यादि बोध्यम् । तत्र हि यण्वृद्द्योः प्राप्तयोर्वृद्धिरेव भवति । आङ्गत्वात्तदन्तविधिरित्याह — — परमत्वमित्यादि ।
Padamanjari¶
उपयुक्तादन्यः शेषः । तस्यैव संग्रहश्लोकः - पञ्चम्याश्चेत्यादि । पञ्चम्यादीनां सम्बन्धीनि यान्यद्विवचनानि - अयं तावच्छेषः, तत्र शेषे लोपो विधीयत इति । अद्विवचनानि इत्येतद्भाषापेक्षं द्रष्टव्यम् । च्छन्दसि तु - युवं वस्त्राणीति द्विवचनमपि शेष एव । शेषग्रहणं विस्पष्टार्थमिति । कथम् विभक्तिमात्रे लोपः, तस्यानादिष्टायां विभाक्तौ यत्ववमपवादः । अस्यापि हलादावात्वमपवाद इत्यसङ्करेणात्व - य - लोपः सिध्यन्ति । अनादेशग्रहणं तु क्रियमाणेऽज्ग्रहणे यत्वलोपयोर्विषयविभागार्थं कर्तव्यमेव । सन्निपातलक्षण इति । विभक्तिसन्निपातकृतं युष्मदस्मदोरकारान्तत्वम् । तद्यदि टोपो निमितं स्यात्, तत्सन्निपातं विहन्यात् । एतेच्च त्यदादिशब्दवत्स्त्रीलीङ्गत्वमभ्युपेत्योक्तम्, इदानीं च लिङ्गमेव नास्तिं इत्याह - जलिङ्गे वेति । केचित्विति । । टाब्निवृत्यर्थमेव त एवमिच्छन्ति । कथमिति । यत्राकारो यकारश्च न विहितः स शेषः, तत्र विधीयमानो लोपः अलोऽन्त्यसाय इत्यन्तस्यैव युक्त इति प्रश्नः । अन्तरोक्तं शेषग्रहणस्य षैयर्थ्यं हृदि कृत्वाऽऽह - वक्ष्यमाणेति । आदेशा वक्ष्यमाणा यस्य स वक्ष्यमाणादेशः । कः पुनरसौ इत्याह - ते चेति । मपर्यन्ताद्योऽन्यः स शेष इति । स च टिरेव । तत्रायं लोप इति स्थानिनोऽधिकरणत्वविवक्षया सप्तमी । किमर्थं पुंनर्लोप इत्युच्यते, न त्यादद्यत्वेनैष सिद्धम् न सिध्यति, द्विपर्यन्तास्त्यदादयः इति वचनात् । यदा चोपसर्जने युष्मदस्मदी, तदा त्यदाद्यत्वं न सिध्यति । टिलोपपक्षे तु सुतरामारम्भणीयम् ॥
Nyaas¶
यान्यद्विवचनानि इति। एकवचनबहुवचनानीत्यर्थः। अत्र इति। पञ्चम्यादिषु विभक्तिषु। तेषु लोपो विधीयते इति। तेषामेव शेषत्वात्। तुभ्यम्, मह्रम् इति। तुभ्यमह्रौ ङयि (7.2.95) इति तुभ्यमह्रावादेशौ भवतः। युष्मभ्यम् अस्मभ्यम्` इति। भ्यसो भ्यम् (7.1.30) इति भ्यमादेशः। तव, मम इति। तवममौ ङसि (7.2.96) इति तवममादेशौ। युष्माकम्, अस्माकम् इति। साम आकम् (7.1.33) इति। अथ शेषग्रहणं किमर्थम्, न लोपः इत्येवोच्येत, एवमुच्यमाने सत्यविशेषेण लोपः स्यादित्येतच्च नाशङ्कनीयम्, अविशेषेण हि लोपो विधीयमान उत्सर्गो भविष्यति, तस्यानादेशे विभक्तिविशेषे यकाराकारापवादौ, एवञ्चान्तरेणापि शेषग्रहणं शेष एव लोपोऽवस्थाप्यते? इत्यत आह - शेषग्रहणं विस्पष्टार्थम् इति। शेषेलोपे कृते स्त्रियां टाप्? कस्मान्न भवति इति। अन्त्यलोपे कृते सत्यदन्तत्वात्? अजाद्यतष्टाप् (4.1.4) इति टापा भवितव्यमिति भावः। सन्निपात इत्यादि। विभक्त्यानन्तर्ये हि सति युष्मदस्मदी अकारान्ते समुपजाते। तत्र यदि टापमुत्पादयेयाताम्, तदा विभक्तेरानन्तर्य ताभ्यां विहतं स्यात्। न च यो यत्सन्निपातलक्षणः स तद्विघातस्य निमित्तं भवतीति न भवति टाप्। यद्येवम्, त्यदादिभ्योऽपि न स्यात्? नैष दोषः; यदयम्? न यासयोः (7.3.45) इति निर्देशं करोति, तज्ज्ञापयति - भवति त्यदादिभ्यष्टाविति। अयञ्च स्त्रीलिङ्गत्वं युष्मदस्मदोरभ्युपेत्य परीहार उक्तः। इदानीं स्त्रीलिङ्गाभावादेव टाब्न भवतीति दर्शयितुमाह - अलिङ्गे इत्यादि। केचित्तु शेषेलोपं टिलोपमिच्छन्ति इति। त्वं ब्राआह्रणी, अहं ब्राआहृणी - इत्यत्र टाब्मा भूदित्येवमर्थम्। युष्मभ्यम्, अस्मभ्यमित्यत्र भ्यमादेशे कृते बहुवचने झल्येत् (7.3.103) इत्येत्त्वं मा भूदित्येवमर्थञ्च। कथम् इति। एवं मन्यते - यत्र विभक्तावाकारो यकारश्च न विहितः स शेषः, तत्र शेषेलोप उचयमानष्टिलोपो न लभ्यते। अलोऽन्त्यस्य (1.1.52) इति परिभाषयाऽन्त्यस्यैव प्राप्नोतीति वक्ष्यमाणादेशापेक्षया शेष इत्यस्यार्थं ते च इत्यादिना स्पष्टीकरोति। मपर्यन्ताद्योऽन्यः स शेषः इति। स पुनष्टिरेव। अत्रायं शेषोलोपष्टिलोपो भवतीति लोपं प्रति शेषस्याधिकरणविवक्षायां सप्तमी। किमर्थं पुनर्लोप इत्युच्यते, यावता त्यदाद्यत्वेनैव सिद्धम्? न सिध्यति; अत्यदादित्वात्। त्यदादित्वं हि द्वपर्यन्तास्त्यदादयः` इति। तत्र चैतदेव शेषेलोपवचनं ज्ञापकम्। तेन भवच्छब्दस्य त्यदाद्यत्वं न भवति - भवानिति॥
Praudhamanorama¶
अधिकरणत्वविवक्षयेति। यदि तु शेषे इति विभक्तिविशेषणं स्यात् तर्हि व्यर्थमेव तत्। आत्वयत्वाभ्यां विशेषविहिताभ्यां स्ववविषये लोपस्य बाधसम्भवात्। न चैवमन्त्यलोप इति पक्षस्य निरालम्बनत्वापत्तिः। ‘साम आकम्’ इति ससुट्कनिर्देशेन तस्यापि ज्ञापितत्वादिति भावः।
Prakriyasarvasvam¶
आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यलोपः स्यात् । त्वअ अम् । अहअ अम् । ‘अतो गुणे’ (६–१–९७) ‘अमि पूर्वः’ (६–१–१०७) त्वम् । अहम् ॥
Sudha¶
शेषे लोप इति । उक्तादन्यः शेषः, आत्वयत्वञ्च प्रागुक्तम्, तद्विषयादन्यविभक्तिरितिशेषशब्दार्थस्तदेतद्व्याचष्टे - आत्वयत्वनिमित्तेतरेति । त्वम्, अहम् । युष्मद् + सु इत्यत्र **ङे प्रथमयोरम्**(7.1.28) इति सोरमादेशे विहिते युष्मद् + अम् इति जाते **त्वाहौ सौ**(7.2.94) इति युष्मदो मपर्यन्तस्य त्वादेशे विहिते ‘त्व अद् अम्’ इति जाते **अतो गुणे**(6.1.97) इति पररूपत्वे **शेषे लोपः**(7.2.90) इति दस्य लोपे ‘त्व अम्’ इत्यवशिष्टे **अमि पूर्वः**(6.1.107) इति पूर्वरूपत्वेः कृते ‘त्वम्’ इति रूपम् । अस्मद् + सु इत्यत्र **ङे प्रथमयोरम्**(7.1.28) इति सोरमादेशे **त्वाहौ सौ**(7.2.94) इत्यस्मदो मपर्यन्तस्य अहादेशे **अतो गुणे**(6.1.97) इति पररूपे कृते ‘अहद् अम्’ इति जाते **शेषे लोपः**(7.2.90) इति दस्य लोपे **अमि पूर्वः**(6.1.107) इति पूर्वरूपे ‘अहम्’ इति ।