72067: वस्वेकाजाद्घसाम्

Padacheda: वसु | S | | | 7

एकाजाद्घसाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The Participial affix वस् gets the augment इट् only then the reduplicated root before it consists of one syllable or when it comes after a root ending in long आ and after घस्।

Vasu English Translation

The Participial affix वस् gets the augment इट् only then the reduplicated root before it consists of one syllable or when it comes after a root ending in long आ and after घस्। Thus आदिवान्, ओशिवान्, पेचिवान्, शेकिवान् ॥ In the first two of these, the reduplicate stems आद् and आश् become of one syllable by the coalescence of अ अद् and अअश् ॥ In पेच् and शेक् the reduplicate is elided and the vowel अ changed to ए, and thus the reduplicate has become of one syllable. Of roots ending in आ we have, ययिवान्, तस्थिवान्, of घस्-जक्षिवान् ॥ This वस् would have taken the augment by the general rule of इट् increment, the present sutra makes a niyama, so that the roots which are not monosyllabic in their reduplicate form are anit: as बिभिद्वान्, चिच्छिद्वान्, बभूवान्, शिश्रिवान् ॥ The niyama is made with regard to the roots which would have taken इट् generally, as not being governed by the prohibition in (7.2.13). The roots ending in long आ may consist of more than one syllable in their reduplicate form, as याया + वस्, hence their separate enumeration: as a matter of fact, however, these reduplicates also become monosyllabic ultimately by losing their आ ॥ The root दरिद्रा is not governed by this rule, for its Perfect will be formed periphrastically by (3.1.35) Vartika, because it consists of more than one syllable: as दरिद्रांचकार ॥ And when आम् is not added, there also दरिद्रा loses its final आ before ardhadhatuka affixes by the vartika under (6.4.114). So the आ being elided before the adding of any affix, this becomes a root which no longer ends in आ, and so the cause of adding इट् under this sutra no longer exists, and so no इट् is added. Thus we have ददरिद्वान्, for before ardhadhatuka affixes दरिद्रा loses its आ ((6.4.114) Vartika), and this elision being considered as siddha, ((6.4.114) Vartika), no occasion remains for the augment इट् ॥ The घस् becomes जक्ष् in its reduplicate form (a stem of one syllable), but had it not been separately mentioned, then by (6.4.100), the penultimate अ of घस् would have been elided first, before reduplication, because (6.4.100), is subsequent in order to the rule ordaining reduplication. ((6.1.14) &c). The अ being elided, we should have घ्स् only, which not having any vowel, could not be reduplicated. By its separate enumeration here, the augment इट् being ordained by a subsequent rule (7.2.67), prevents even the rule of elision (6.4.100). Having, therefore, first added इट्, we then elide the penultimate अ by (6.4.98), this elided अ, however, becomes sthanivat for the purposes of reduplication only by (1.1.52). Thus घस् + इवस् = घ्स् + इवस् (6.4.98) = जक्ष् + इवस् = जक्षिवान् ॥

Bhashya

वस्वेकाजाद्वसाम् किमर्थमिदमुच्यते ? ॥ वस्वेकाजाद्धसांवचनं नियमार्थम् ॥ नियमार्थोऽयमारम्भः - वसावेकाजाद्धसामेव ॥क्व मा भूत् ? ॥ बिभिद्वान् ॥ किमुच्यते - नियमार्थमिति, न पुनर्विध्यर्थमपि(1) स्यात् । प्रतिषेधोऽपि ह्यत्र प्राप्नोति - नेड्वशि कृतीति, कृच्चैवाऽयं(2) वशादिश्च ॥ एवं तर्हि - कृसृभृवृस्तुद्रुस्रुश्रुवो लिटीत्येतस्मान्नियमादत्रेड्भविष्यति ॥ नात्र तेन परिप्रापणं प्राप्नोति ॥ किं कारणम् ? ॥ प्रकृतिलक्षणस्य प्रतिषेधस्य स(3) प्रत्यारम्भः, प्रत्ययलक्षणश्चाऽयं प्रतिषेधः ॥ उभयोः(4) स प्रत्यारम्भः । ॥ कथं ज्ञायते ? ॥ वृङ्वृञ्ञोर्ग्रहणात् ॥ कथं कृत्वा ज्ञापकम् ? ॥ इमौ वृङ्वृञ्ञावुदात्तौ, तयोः प्रकृतिलक्षणः प्रतिषेधो न प्राप्नोति । पश्यति त्वाचार्यः-उभयोः स प्रत्यारम्भ इति, ततोवृङ्वृञ्ञोर्ग्रहणं करोति । न खल्वपि कश्चिदुभयवान्प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणश्च। तुल्यजातीयेऽसति यथैव प्रकृतिलक्षणस्य नियामको भवत्येवं प्रत्ययलक्षणस्यापि नियामको भविष्यति ॥ अथ यावता वसावेकाजाद्धसिभ्य(5) इटा भवितव्यं को न्वत्र विशेषो नियमार्थे वा सति विध्यर्थे वा ? ॥ न खलु कश्चिद्विशेषः, आहोपुरुषिकामात्रं तु, - भवानाह विध्यर्थमिति, वयं तु ब्रूमो - नियमार्थमिति ॥ अथैकाज्ग्रहणं किमर्थम् ? ॥ इह मा भूत् - बिभिद्वान् चिच्छिद्वानिति ॥ क्रियमाणेऽपि वै एकाज्ग्रहणेऽत्र प्राप्नोति, एषोऽपि ह्येकाच् ॥ एवं तर्हि कृते द्विर्वजने य(1) एकाच् ॥ किं वक्तव्यमेतत् ? ॥ न हि ॥ कथमनुच्यमानं गंस्यते ? ॥ एकाज्ग्रहणसार्मथ्यात् । न हि कश्चिदकृते द्विर्वचनेऽनेकाजस्ति यदर्थमेकाज्ग्रहणं क्रियते ॥ ननु चायमस्ति जागर्तिः - जागृवांसोऽनुग्मन्(2) ॥ यत्तर्ह्याकारग्रहणं करोति । न हि कश्चिदकृते द्विर्वचने आकारान्तोऽनेकाजस्ति ॥ ननु चायमस्ति, - दरिद्रातिः ॥ न दरिद्रातेरिटा भवितव्यम् ॥ किं कारणम् ? ॥ उक्तमेतत्(1) - दरिद्रातेरार्धधातुके लोपः, सिद्धश्च प्रत्ययविधाविति । यश्चेदानीं प्रत्ययविधौ सिद्धः सिद्धौऽसाविडि्वधौ । एवमपि भूतपूर्वगतिर्विज्ञायेत - आकारान्तो यो भूतपूर्वइति ॥ एकाज्ग्रहणमेव तर्हि ज्ञापकम् ॥ ननु चोक्तं - जार्गत्यर्थमेतत्स्यात् ॥ नैकमुदाहरणमेकाज्ग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्या ज्जार्तेर्नेत्येव ब्रूयात् ॥ अथ घसिग्रहणं किमर्थं, न एकाजित्येव सिद्धम् ॥ घसिग्रहणमनच्कत्वात् ॥ घसिग्रहणं क्रियते, लोपे कृतेऽनच्कत्वादिण्न(1) प्राप्नोति ॥ इदमिह संप्राधार्यमिट् क्रियतां लोप इति, किमत्र कर्तव्यम् ? ॥ परत्वादिडागमः ॥ नित्यो लोपः । कृतेऽपीटि प्राप्नोत्यकृतेऽपि ॥ इडपि नित्यः । कृतेऽपि लोपे प्राप्नोत्यकृतेऽपि ॥ अनित्य इट् । न हि कृते लोपे प्राप्नोति ॥ किं कारणम् ? ॥ अनच्कत्वात् ॥ एवं तर्हि द्विर्वचने कृतेऽभ्यासे योऽकारस्तदाश्रय इड्भविष्यति ॥ न सिध्यति ॥ किं कारणम् ? ॥ द्वित्वाल्लोपस्य परत्वात् । द्विर्वचनं क्रियतां लोप इति किमत्र कर्तव्यम् ? ॥ परत्वाल्लोपः । लोपे कृतेऽनच्कत्वाद्विर्वचनं न प्राप्नोति । घसिग्रहणे पुनः क्रियमाणे न दोषो भवति ॥ कथम् ? ॥ वचनादिड्भविष्यति ॥ इटि कृते द्विर्वचनं क्रियतां लोप इति यद्यपि परत्वाल्लोपः, स्थानिवद्भावाद्विर्वचनं भविष्यति ॥ (वस्वेकाजाद्धसाम्) ॥

Kashika

कृतद्विर्वचनानामेकाचां धातूनाम्, आकारान्तानां घसेश्च वसाविडागमो भवति। आदिवान्। आशिवान्। पेचिवान्। शेकिवान्। धात्वभ्यासयोरेकादेशे कृत एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्ति। आत् — ययिवान्। तस्थिवान्। घस् — जक्षिवान्। सिद्धे सत्यारम्भो नियमार्थः — एकाजाद्घसामेव वसाविडागमो भवति नान्येषाम्। बिभिद्वान्। चिच्छिद्वान्। बभूवान्। शिश्रिवान्। क्रादिनियमात् प्रतिषेधाभावात् च य इट् प्रसक्तः स नियम्यते। आद्ग्रहणमनेकाज्ग्रहणार्थम्। द्विर्वचने हि कृत इटि हि सत्यातो लोपेन भवितव्यम्। द्ररिद्रातेस्तु कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् (३.१.३५ वा०) इत्यामा भवितव्यम्। दरिद्रांचकार। अथाप्याम् न क्रियते तथापि च दरिद्रातेरार्धधातुके लोपः सिद्धश्च प्रत्ययविधौ (६.४.११४ वा०) इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्त इडागमस्य निमित्तं विहतमिति नेडागमो भवति, ददरिद्र्वानिति भवितव्यम्। घसेरपि यदि ग्रहणमिह न क्रियते तदा द्विर्वचनात् परत्वाद् घसिभसोर्हलि च (६.४.१००) इत्युपधालोपे कृते द्विर्वचनमेव न स्याद्, अनच्कत्वाद्। इह तु घसिग्रहणाद् उपधालोपमपि परत्वादिडागमो बाधते। तत्र कृते गमहनजनखनघसाम्० (६.४.९८) इत्युपधालोपः। स च द्विर्वचनेऽचि (१.१.५९) इति द्विर्वचने कर्तव्ये स्थानिवद् भवति, तेन जक्षिवानिति सिध्यति॥

Siddhanta Kaumudi

कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच् । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥

Balamanorama

वस्वेकाजाद्घसाम् - वस्वे । ‘वसु’ इत्यविभक्तिको निर्देशः । तथा च व्याख्यास्यति — वसोरिति । नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह — कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्य्नते तेषामित्यर्थः ।नेड्वशि कृती॑ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह — नान्येषामिति । आदिवानिति । अद भक्षणे । द्वित्वहलादिसेषाऽभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्यमेकाजेवेति इट् । आरिवानिति । ‘ऋ गतौ’ऋच्छत्यृता॑मिति गुणे कृते पूर्वत्कृतेषु अयमेकाच् । दादिवानिति । डु दाञ् दाने । कृते द्वित्वे नाऽयमेकाच् । इण्निमित्तश्चाऽऽतो लोपो नाऽसति तस्मिन् भवतीति अनेकाजर्थमाद्ग्रहणम् । जक्षिवानिति ।लिटन्यतरस्या॑मित्यदेर्घस्लादेशः । द्वित्वे कृते नायमेकाजिति घसिग्रहणम् ।

Tattvabodhini

वस्वेकाजाद्घसाम् - वस्वे ।वस्वि॑ त्यविभक्तिको निर्देशस्तथा च व्याख्यास्यते — वसोरिति । नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह — कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः ।नेड्वशि कृती॑ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्रस्येटो नियमोऽयमित्याह — नान्येषामिति । आदिवानिति । अद भक्षणे, द्वित्वहलादिशेषाभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेतीड्भवति । आरिवानिति । ऋ गतौ ।ऋच्छत्यृता॑मिति गुणे कृते द्वित्वादिष #उपूर्ववत्कृतेष्वयमप्येकाच् । ददिवानिति । डुदाञ् दाने । कृते द्वित्वे नायमेकाच्, इण्निमित्तश्चातो लोपो नाऽसति तस्मिन्भवतीत्यनेकाजर्थमाद्ग्रहणम् । जक्षिवानिति ।लिटन्यतरस्या॑मित्यदर्घस्लादेशः । द्वित्वे कृते नाऽयमेकाजिति घसिग्रहणम् । अत्र व्याचख्युः — द्वित्वात्पूर्वं परत्वात्घसिभसोर्हली॑त्युपधालोपः स्यात्तस्मश्च कृतेऽनच्कत्वाद्द्वित्वमेव न स्यात् । न चाऽस्य द्वित्वे कर्तव्येद्विर्वचनेऽची॑त्यनेन स्थानिव्दभावो, निषेधो वा शङ्क्यः, द्वित्वनिमित्तस्याऽचोऽभावात् । ततश्च नाऽयं कृतद्विर्वचन एकाज्भवतीति घसिग्रहणं, तत्सामत्र्यात्तु परत्वादुपधालोपमिडागमो बाधते, कृते त्विडागमेगमहने॑त्युपधालोपस्तस्य चाऽज्निमित्तत्वेन स्थानिवत्त्वाद्द्वित्वम् । यद्वाद्विर्वचनेऽची॑ति निषेधपक्षे तूपधालोपात्प्रागेव द्वित्वं, पश्चादुपधालोपःशासिवसिघसीनां चे॑ति षत्वं चर्त्वं क्षः ।अभ्यासे चर्चे॑ त्यभ्यासघकारस्य जश्त्वमिति ।

Padamanjari

वसु इत्यविभक्तिको निर्द्देशः । वसोरित्यर्थः । कृतद्विर्वचनानामिति । कथं पुनरविशेषोक्तावेष विशेषो लभ्यते एकाज्ग्रहणसामर्थ्यात् । न हि कश्चिचदकृते द्विर्वचनेनैकाजस्ति यन्निवृत्यर्थमेकाज्ग्रहणं स्यात् । चिरिजिरिचकाशिभ्यः कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामा भवितव्यमिति वसोरसम्भवः । ऊर्णोतेस्तु णुवद्भावादेकाज्ग्रहणोनानिवःतिः । ननु च जागर्तिरस्ति उषविदजागृभ्योऽन्यतरस्याम् इत्यामो विकल्पितत्वात् वेदेऽपि - जागृवांसो अनुग्मन्निति द्विर्वचनप्रकरकणे च्छन्दसि वेति वक्तव्यम् इति द्विर्वचनाभावः, नैकमुदाहरणमेकाज्गरहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात् जागर्तेर्न इत्येव ब्रूयात्, लधीयसी हि साक्षात्प्रतिषेधप्रतिपतिः । यदि वा न्यायसिद्धोऽयमर्थः । तथा हि द्विर्वचनस्यावकाशः - पंपाच, इटोऽवकाशः यत्र कृते द्विर्वचन एकाच् - पेचिवान्, आदिवान् बिभिद्वानित्यादौ तूभयप्रसङ्गे नित्यत्वाद् द्विर्वचनम् । कादिनियमात्प्राप्त इति । नेड्वशि कृतीति प्रत्ययाश्रयस्य प्रतिषेधस्य सर्वत्र भावात्कादिनियमानेव सर्वत्र वसोरिटः प्राप्तिः । आद्ग्रहणमनेकाजर्थमिति । ननु द्विर्वचने आकारलोपे सति तेषामप्येकाच्त्वादेव सिद्धमत आह - द्विर्वचने हीति । इण्निमित आकारलोपो नासति तस्मिन्भवति, ततश्चानेकाच्त्वमित्यर्थः । अथाप्याम्न क्रियत इति । आत औ णलः इत्योकारे विधातव्ये औकारविधानेन ज्ञापितमेतत् - दरिद्रातेरनित्य आमिति । तेनायमभ्युपगमः ददरिद्रवानिति, नेड्वशि कृतीति प्रतिषेध एव तत्र भवति । अथ घसिग्रहणं किमर्थम्, यावता द्विर्वचने कृते घसिभसोर्हलि च इत्युपधालोपे सत्येकाच्त्वादेव सिद्धमत आह - घसेरपीति । परत्वादिति । नित्यत्वाच्चेत्यापि द्रष्टव्यम् तस्य हल्यपि विधानात् । अनष्कत्वादिति । स्थानिवद्भावोषऽपि नास्ति, हल्निमितत्वादुपधालोपस्य । क्रियमाणे तु घसिग्रहणे नायं दोष इत्याह - क्रियमाणे त्विति ॥

Nyaas

कृतद्विर्वचनानां धातूनामेकाचाम् इति। कुत एतदवसितम्? एकाज्ग्रहणसामर्थ्यात्। न हि कश्चिदकृते द्विर्वचनेऽनेकाजस्ति, यन्निवृत्त्यर्थमेकान्ग्रहणं क्रियते। ननु च जागर्त्तिरस्ति, अतस्तन्निवृत्त्यर्थ तत्? स्यात्? नैतदस्ति; न ह्रेकमूदाहरणं प्रति योगारम्भं प्रयोजयति। यद्येतत्? प्रयोजनं स्यात्, जाग्रो न इत्येवं ब्राऊयात्। तदाप्ययमर्थः - प्रतिपत्तिगौरवं परिह्मतं भवति। ननु चोर्णोतेर्निवृत्त्यर्थमपि स्यात्? नैतत्; उक्तं हि प्राक् - वाच्यौउर्णोर्णुवद्भावः (कारिका।7.2.11) इति। तस्माद्युक्तमुक्तम् - कृतद्विर्वचनानां धातूनामेकाचामिति। आदिवान्ाशिवान् इति। अद भक्षणे (धातुपाठः-1011), अश भोजने (धातुपाठः-1523)। लिटः क्वसुश्च (3.2.107) इति क्वसुः, द्विर्वचनम्, अभ्यासकार्थञ्च, अत आदेः (7.4.70) इति दीर्घत्वम्। सवर्णदीर्घत्वम्, इट्, `उगिदचम् (7.2.70) इति नुम्, सान्तमहतः (6.4.10) इत्यादिना दीर्घः, हल्ङ्यादि- (6.1.66) संयोगान्तलोपौ (8.2.23) । पेचिवन्, शोकिवान् इति। अत एकहल्मध्ये (6.4.120) इत्यादिनैत्त्वाभ्यासलोपौ। धात्वभ्यासयोरेकादेशे कृते इत्यादि। ननु च षाष्ठिके द्विर्षचनविधौ द्विष्प्रयोगो द्विर्वचनम् इत्येव पक्षो वृत्तिकारेणाश्रितः, एवं चाकृते दात्वभ्यासयोरेकदेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचना अप्येत एकाचो भवन्ति। स्थाने द्विर्वचने हि शब्दान्तरमनेकाजतिदिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्, न तु द्विष्प्रयोगे द्विर्वचने; तत्र हि स एव धातुर्द्विरुच्यते, न चासौ शतकृत्वोऽप्युच्चार्यमाण एकाच्त्वं जहाति, किंपुनर्द्धिरुच्यमानः, तत्? क्रिमुच्यते - धात्वभ्यासयोरेकादेश एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्तीति? आवृत्तिकृतमेकाचो बेदमाश्रित्यैवमुक्तमित्यदोषः। भवति हि धर्मभेदादपि धर्मिणो भेदव्यवहारः? तथा हि, वक्तारो वदन्ति - परुद्भावान्? पटुरासीत्, पटुतरश्चैषमः, पटुतमः परारि, सोऽन्य एवासि संवृत्त इति। अथ वा - स्थाने द्विर्वचनपक्षोऽपि तत्राश्रितः, द्विष्प्रयोगश्च द्विर्वचनमिति कृत्वा। चकारात्? स्थाने द्विर्वचनमपीति स्थाने द्विर्वचनपक्षस्यापि तत्र सूचनात्। ये तु तत्पक्षभाविनो दोषस्ते तत्र प्रतिविहिता एव। तस्थिवान् इति। शर्पूर्वाः खथः (7.4.61) इति ख्यः शेषः; अतो लोप इटि च (6.4.64) इत्याकारलोपः। जक्षिवान् इति। पूर्ववददेर्घस्लादेशः, इट्? गमहन (6.4.98) इत्यादिनोपधालोपः, कुहोश्चुः (7.4.62) इति चुत्वम् - धकारस्य झकारः, अभ्यासे चर्च (8.4.54) इति झकारस्य जकारः। परस्य धकारस्य खरि च (8.4.54) इति चर्त्वम् - ककारः, शासिवसि (8.3.60) इत्यादिना षत्वम्। ननु चात्र क्रादिनियमादिडागमः सिद्ध एव, तत् किमर्थोऽयमारम्भः? इत्याह - सिद्धे इत्यादि। क्रादिनियमात्? प्रसक्तः इत्यादिना सिद्धे सत्यारम्भो नियमार्थः (कात।प।59) इत्येतदेव स्पष्टीकरोति। प्रसक्तः इति। प्राप्त इत्यर्थः। नियम्यते इति। धात्वन्तरेभ्यो व्यावर्त्त्येकाजादिष्वेव व्यवस्थाप्यत इत्यर्थः। अथाद्ग्रहणं किमर्थम्, यावताऽकारान्ता अप्यतो लोपे कृते कृतद्विर्वचना एकाचो भवन्त्येव, तत्रैकाज्ग्रहणेनैव सिद्धम्? इत्याह - आद्ग्रहणमनेकाज्ग्रहणार्थम् इति। कथं पुनस्तेषामनेकाच्त्वम्? इत्यत आह - द्विर्वचने इत्यादि। इण्निमित्तत्वादाकारलोपस्येटि सति तेषामाकारलोपेन भवितव्यम्, नासति, अतो यावदिण्न क्रियते तावदाकारलोपाभावात्? कृतद्विर्वचना एतेऽनेकाच इत्यसत्याद्ग्रहणे [इत्यसत्यादिग्रहणे - इति मुद्रितः पाठः] तेषां ग्रहणं न स्यात्। तस्मादनेकाजर्थमाद्ग्रहणं कर्तव्यम्। यद्येवम्, दरिद्रातेरपीट्? प्रसज्येत? इत्यत आह - दरिद्रातेस्तु इत्यादि। दरिद्रातेः क्वसो सम्भव एव नास्ति, यतः कास्यनेकान्ग्रहणम् (वा।305) इति वचनाद्दरिद्रातेरामा भवितव्यम्, तस्मश्च सति आमः (2.4.81) इति लेर्लुका भवितव्यम्? तत्कुतोऽयमिट्प्रसङ्गः! दरिद्राञ्चकर इति। कृञ्चानुप्रयुज्यते (3.1.40) इति लिट्परस्य कृञोऽनुप्रयोगः। अभ्युपगम्यपि दरिद्रातेरामोऽभावं परीहारान्तरमाह - अथाप्याम्न क्रियते इत्यादि। आकारान्तानां धातूनामिहेङ्विधीयते। दरद्रातेरार्धधातुके लोपः सिद्धश्च प्रत्ययविधौ इति वचनात्? प्रागेव प्रत्ययोत्पत्तेराकारो लुप्त इतीडागमोऽस्मान्निमित्ताभावान्न भवति। क्रियतां नामाद्ग्रहणम्, घसिग्रहणं न कर्तव्यमिति, अस्य द्विर्वचने कृते घसिभसोहंलि च (6.4.100) इत्युपधालोपे कृते चैकाच इत्येवं सिद्ध इडागमः? इत्याह - घसेरपि इत्यादि। अनच्कत्वात् इति। द्विर्वचनाभावहेतुः। एकाचो द्विर्वचनमुच्यते; एकाचः (6.1.1) इत्यधिकारात्। तस्मादुपधालोपे कृतेऽनच्कत्वान्न द्विर्वचनं स्यात्, ततश्च जक्षिवानिति न सिध्यतीत्यभिप्रायः। अथ क्रियमाणेऽपि घसिग्रहणे कस्मादेव दोषो व भवति? इत्याह - क्रियमाणे [नास्ति काशिकायाम्। पदमञ्जर्यां तु `क्रियमाणे तु इति प्रतीकमुपलभ्यते] इत्यादि। सुबोधम्॥

Prakriyasarvasvam

द्विर्वचने कृतेऽप्येकाचां धातूनामादन्तानां घसेश्च वसोरिट् स्यान्नान्येषाम् । पेचिवस् । पदकार्यं, पेचिवान् । क्वसोर्विकल्पोक्तिः पपाचेति तिङोऽपि सिद्ध्यर्था । आदन्ताद्वसोरिट् । पा इवस् । ‘आतो लोप इटि च’ (६-४-६४) इत्याल्लोपः । पिवस् पुनर्द्वित्वे,