72066: इडत्त्यर्तिव्ययतीनाम्¶
Padacheda: इट् | S | 1 | 1 |
अत्त्यर्तिव्ययतीनाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
थल् the personal-ending of the लिट् (Perfect Tense) gets the augment इट् after 1. अद् 2. ॠ and 3. व्यय्।
Vasu English Translation¶
थल् the personal-ending of the लिट् (Perfect Tense) gets the augment इट् after 1. अद् 2. ॠ and 3. व्यय्। As आदिथ, आरिथ and संविव्ययिथ ॥ The root व्येञ् is not changed to व्या (6.1.46) in the Perfect. By (7.2.63), the roots अद् and व्य would have optionally been सेट्, and ऋ never, therefore, the present sutra makes the इट् augment compulsory. The इट् is repeated in the aphorism for the sake of clearness, the rule could have stood without it, for the anuvritti of ‘optionally’ could not have run into it from the last sutra: for if it was an optional sutra, the enumeration of अद् and व्य was useless, as they were already provided for by (7.2.63). Therefore, this sutra makes an invariable rule.
Kashika¶
अत्ति अर्ति व्ययति इत्येतेषां थलीडागमो भवति। आदिथ। आरिथ। विव्ययिथ। व्येञो न व्यो लिटि (६.१.४६) इत्यात्वप्रतिषेधः। अत्तिव्ययत्योः ऋतो भारद्वाजस्य (७.२.६३) इति नियमाद् विकल्पः। अर्तेरपि नित्यः प्रतिषेधः। अत्रेड्ग्रहणं विस्पष्टार्थम्। विकल्पविधाने हि सत्यत्तिव्ययतिग्रहणमनर्थकम्, प्रतिषेधविधाने चार्तिग्रहणमिति नित्योऽयं विधिरिड्ग्रहणमन्तरेणापि शक्यते विज्ञातुम्॥
Siddhanta Kaumudi¶
अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् ।{$ {!937 गृ!} {!938 घृ!} सेचने$} । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् ।{$ {!939 ध्वृ!} हूर्छने {!940 स्रु!} गतौ$} । सुस्रोथ । सुस्रुव । स्रुयात् । णिश्रि - (SK2312) इति चङ् । लघूपधगुणादन्तारङ्घत्वादुवङ् । असुस्रुवत् ।{$ {!941 षु!} प्रसवैश्वर्ययोः$} । प्रसवोऽभ्यनुज्ञानम् । सुषोथ । सुषविथ । सुषुविव । सोता ॥
Laghu Siddhanta Kaumudi¶
अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात्। आदिथ। अत्ता। अत्स्यति। अत्तु। अत्तात्। अत्ताम्। अदन्तु॥
Balamanorama¶
इडत्त्यर्तिव्ययतीनाम् - थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दिति ऋदन्तत्वाद्भारद्वाजमतेऽपि निषेधे प्राप्ते — इडत्त्यर्ति । पञ्चम्यर्थे षष्ठी ।अचस्तास्व॑दित्यत स्थलीत्यनुवर्तते ।विभाषा सृजिदृशो॑रिति पूर्वसूत्रद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते । तदाह — अद् ऋ इत्यादिना ।आर्धधातुकस्ये॑डित्यनुवृत्तौ पुनरिड्ग्रहणं तुन वृद्ब्यश्चतुभ्र्यः॑ इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः । आरिथेति । आरथुः । आरः । आर आरिव आरिम । क्रादिनियमादिट् । अरिष्यतीति ।ऋद्धनो॑रिति इट् । ऋच्छतु । आच्र्छत् । अर्यादिति ।गुणोऽर्ती॑ति गुणे रपरत्वमिति भावः । आर्षीदिति । सिचि वृद्धिः ।सर्तिशास्त्यर्तिभ्यश्चे॑ति अङ् तु न, ततर्भौवादिकस्य ऋधातोर्न ग्रहममित्यनुपदमेवोक्तेरिति भावः । आरिष्यत् । ‘ऋद्धनोः स्ये’ इति इट् । गृ घृ । अनिटौ । गरतीति । जगार । असंयोगादित्वात्ऋतश्चे॑ति गुणो न । जग्रतुः जग्रुः । क्रादिनियमेन इटि प्राप्तेअचस्तास्व॑दिति नेट् । ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । तदाह — जगर्थेति । जग्रथुः जग्र । जगार — जगर.जग्रिवेति । क्रादिनियमादिट् । जग्रिम । गर्ता । गरिष्यति ।ऋद्धनो॑रितीट् । गरतु । अगरत् । गरेत् । रिङिति । आशीर्लिङि असंयोगादित्वात्गुण#ओऽर्ती॑ति गुणाऽभावे ‘रिङ् शयग्लिङ्क्षु’ इति रिङित्यर्थः । ग्रियादिति । रीङि प्रकृते रिङ्विधेर्न दीर्घः । अगार्षीदिति । सिचि वृद्धौ रपरत्वम् । अगार्ष्टाम् । अगरिष्यत् ।ऋद्धनोः॑इति इट् । घृधातोस्तु भौवादिकस्य घृतं घर्मः घृणा इत्यत्रैव प्रयोगो नान्यत्रेतितृज्वत्क्रोष्टु॑रिति सूत्रे भाष्ये स्पष्टम् । ध्वृ इति । हूच्र्छनं कुटिलीभवनम् । ध्वरति । दध्वार ।ऋतश्चे॑ति गुणः । दध्वरतुः दध्वरुः । थलिअचस्तास्व॑दिति क्रादिनियमप्राप्त इण्न । ऋदन्तत्वाच्च भारद्वाजमतेऽपि नेट् । दध्वर्थ दध्वरथुः दध्वर । दध्वार-दध्वर दध्वरिव दध्वरिम । क्रादिनियमादिट् । ध्वर्ता ।ऋद्धनो॑रिति इट् — ध्वरिष्यति । ध्वरतु ।अध्वरत् । ध्वरेत् । आशीर्लिङिगुणोऽर्ती॑ति गुणः । ध्वर्यात् । अध्वार्षीत् । अध्वरिष्यत् । रुआउ गतौ । अनिट् । रुआवति । सुरुआआव-सुरुआव । सुरुआउवेति । क्रादित्वान्नेट् । सुरुआउमेत्यपि ज्ञेयम् । रुआओता । रुआओष्यति । रुआवतु अरुआवत । रुआवेत् । रुआऊयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — णिश्रीति चङिति ।चङी॑ति द्वित्वमित्यपि द्रष्टव्यम् । ननु असुरुआ अ त् इति स्थिते रेफादुत्तरस्य उकारस्यसार्वधातुकार्धधातुकयो॑रिति गुणस्य चङ्निमित्तस्य ङित्त्वान्निषेधेऽपि उवङपेक्षया परत्वात्तिपं निमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह लघूपधगुणादन्तरङ्गत्वादुवङिति । बहिर्भूततिबपेक्षत्वनाल्लघूपधगुणो बहिरङ्गः । अन्तर्गतचङपेक्षत्वादुवङन्तरङ्गः । अतौवङेव भवति । परादन्तरङ्गस्य बलवत्त्वादिति भावः । असुरुआउवदिति । अरुआओष्यत् । षु प्रसवेति । अत्र प्रसवशब्दस्य गर्भमोचनपरत्वभ्रमं वारयति — प्रसवोऽभ्यनुज्ञानमिति ।ॐ प्रणयेति ब्राहृआ प्रसौती॑त्यादौ तथा दर्शनादिति भावः । षोपदेशोऽयम् । शपि उवङं बाधित्वा परत्वात्सार्वधातुकयोरिति गुणः । सवति । सुषाव । अतुसादौ कित्त्वाद्गुणाऽभावे उवङ् । सुषुवतुः सुषुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — सुषविथ सुषोथेति । अकित्त्वाद्गुण इति भावः । सुषुवथुः सुषुव । सुषाव-सुषव.वमयोस्तु क्रादिनियमान्नित्यमिट् । तदाह — सुषुविवेति । कित्त्वाद्गुणाऽभावे उवङ् । सोतेति । सोष्यति । सवतु । असवत् । सवेत् । सूयात् ।
Tattvabodhini¶
इडत्त्यर्तिव्ययतीनाम् - नित्यमिट् स्यादिति ।विभाषा सृजिदृशो॑रित्यतो विभाषा नानुवर्तत इति भावः । ध्वृ हूर्छने । हूर्झनं — कौटिल्यम् । सृ गतौ । यद्यपि सामान्येन गतिरुक्ता तथापि द्रवद्द्रव्यस्यैव गतिरिह ज्ञेया । रुआवति घृतम् ।
Nyaas¶
आदिथ, आरिथ इति। अद भक्षणे (धातुपाठः-1011), ऋ गतो (धातुपाठः-1098)। अत आदेः (7.4.70) इत्यभ्यासस्य दीर्घः। विष्ययिथ इति। व्येञ्? संवरणे (धातुपाठः-1007), लिटभ्यासत्योभयेषाम्` (6.1.17) इति सम्प्रसारणम्। कस्मात्? पुनरत्र व्येञः आदेच उपदेशे (6.1.45) इत्यात्त्वं न भवति? इत्याह - व्येञो न व्यो लिटि इत्यादि। `अर्तेरपि नित्यं प्रतिषेधः इति। ऋतो भारद्वाजस्य (7.2.63) इत्यनेन। अत्रेङ्ग्रणं विस्पष्टार्थम् इति। ननु च नित्यमिडागमो यथा स्यादित्येवमर्थमिङ्ग्रहणं स्यात्, न हीङ्ग्रहणमन्तरेणायं शक्यत इङ्विधिर्नित्यो विज्ञातम्? इत्याह - विकल्पवधाने हि इत्यादि। अनेन हि विकल्पस्यानन्तरस्य वा विधानं क्रियते, पूर्वपरकृतस्य वा नित्यप्रतिषेधस्य? शक्यते ह्रसावपि मण्डूकप्लुतिन्यायेनानुवर्तयुतम्। तत्र यदि पूर्वको विकल्पस्तदाऽर्त्तिव्ययतिग्रहणमनर्थकं स्यात्; उपदेशेऽत्वतः (7.2.62) इत्यनेनैव विकल्पस्य सिद्धत्वात्। अथेतरः, एवं सत्यर्त्तिग्रहणमनर्थकं स्यात्; ऋतो भारद्वाजस्यैव (7.2.63) इत्यनेनैव प्रतिषेधस्य सिद्धत्वात्। यत एवं न विकल्पस्य विधानमुपपद्यते तेन नापि प्रतिषेधस्य। अस्मादन्तरेणापीङ्ग्रहणं नित्योऽयमिङ्विधिरिति शक्यते विज्ञातुम्। प्रतिपत्तिगौरवं पुनरेवं विज्ञायमाने स्यादिति विस्पष्टार्थमिङ्ग्रहणं क्रियते॥
Prakriyasarvasvam¶
एभ्यस्थलो नित्यमिड् स्यात् । विव्ययिथ । विव्यथुः । विव्य । विव्याय, विव्यय । विव्यिव । किति लिटि व्येञः सम्प्रसारणं वेति कौमुदी । तत्राप्यभ्यासस्य स्यात् । ‘न व्यो लिटि’ इत्यात्वाभावः । विव्ययतुः । विव्ययुः । तङि विव्ये, विव्याते, विव्यिषे । विव्यिढ्वे, विव्यिध्वे । कौमुदीमते विव्यये । विव्ययिढ्वे, विव्ययिध्वे । विव्ययिवहे । आशिषि वीयात्, व्यासीष्ट । व्याता । व्यास्यति, व्यास्यते । कर्मणि चिण्वदिडूह्यः । ह्वेञ् स्पर्धायां शब्दे च । ह्वयति, ह्वयते । यकि व्येञ् वत् । हूयते । लुङि,