72067: वस्वेकाजाद्घसाम् ======================= **Padacheda:** वसु | S | | | 7 एकाजाद्घसाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The Participial affix वस् gets the augment इट् only then the reduplicated root before it consists of one syllable or when it comes after a root ending in long आ and after घस्। Vasu English Translation ------------------------ The Participial affix वस् gets the augment इट् only then the reduplicated root before it consists of one syllable or when it comes after a root ending in long आ and after घस्। Thus आदिवान्, ओशिवान्, पेचिवान्, शेकिवान् ॥ In the first two of these, the reduplicate stems आद् and आश् become of one syllable by the coalescence of अ अद् and अअश् ॥ In पेच् and शेक् the reduplicate is elided and the vowel अ changed to ए, and thus the reduplicate has become of one syllable. Of roots ending in आ we have, ययिवान्, तस्थिवान्, of घस्-जक्षिवान् ॥ This वस् would have taken the augment by the general rule of इट् increment, the present *sutra* makes a *niyama*, so that the roots which are not monosyllabic in their reduplicate form are *anit*: as बिभिद्वान्, चिच्छिद्वान्, बभूवान्, शिश्रिवान् ॥ The *niyama* is made with regard to the roots which would have taken इट् generally, as not being governed by the prohibition in (7.2.13). The roots ending in long आ may consist of more than one syllable in their reduplicate form, as याया + वस्, hence their separate enumeration: as a matter of fact, however, these reduplicates also become monosyllabic ultimately by losing their आ ॥ The root दरिद्रा is not governed by this rule, for its Perfect will be formed periphrastically by (3.1.35) *Vartika*, because it consists of more than one syllable: as दरिद्रांचकार ॥ And when आम् is not added, there also दरिद्रा loses its final आ before *ardhadhatuka* affixes by the *vartika* under (6.4.114). So the आ being elided before the adding of any affix, this becomes a root which no longer ends in आ, and so the cause of adding इट् under this *sutra* no longer exists, and so no इट् is added. Thus we have ददरिद्वान्, for before *ardhadhatuka* affixes दरिद्रा loses its आ ((6.4.114) *Vartika*), and this elision being considered as *siddha*, ((6.4.114) *Vartika*), no occasion remains for the augment इट् ॥ The घस् becomes जक्ष् in its reduplicate form (a stem of one syllable), but had it not been separately mentioned, then by (6.4.100), the penultimate अ of घस् would have been elided first, before reduplication, because (6.4.100), is subsequent in order to the rule ordaining reduplication. ((6.1.14) &c). The अ being elided, we should have घ्स् only, which not having any vowel, could not be reduplicated. By its separate enumeration here, the augment इट् being ordained by a subsequent rule (7.2.67), prevents even the rule of elision (6.4.100). Having, therefore, first added इट्, we then elide the penultimate अ by (6.4.98), this elided अ, however, becomes *sthanivat* for the purposes of reduplication only by (1.1.52). Thus घस् + इवस् = घ्स् + इवस् (6.4.98) = जक्ष् + इवस् = जक्षिवान् ॥ Bhashya ------- वस्वेकाजाद्वसाम् किमर्थमिदमुच्यते ? ॥ वस्वेकाजाद्धसांवचनं नियमार्थम् ॥ नियमार्थोऽयमारम्भः - वसावेकाजाद्धसामेव ॥क्व मा भूत् ? ॥ बिभिद्वान् ॥ किमुच्यते - नियमार्थमिति, न पुनर्विध्यर्थमपि(1) स्यात् । प्रतिषेधोऽपि ह्यत्र प्राप्नोति - नेड्वशि कृतीति, कृच्चैवाऽयं(2) वशादिश्च ॥ एवं तर्हि - कृसृभृवृस्तुद्रुस्रुश्रुवो लिटीत्येतस्मान्नियमादत्रेड्भविष्यति ॥ नात्र तेन परिप्रापणं प्राप्नोति ॥ किं कारणम् ? ॥ प्रकृतिलक्षणस्य प्रतिषेधस्य स(3) प्रत्यारम्भः, प्रत्ययलक्षणश्चाऽयं प्रतिषेधः ॥ उभयोः(4) स प्रत्यारम्भः । ॥ कथं ज्ञायते ? ॥ वृङ्वृञ्ञोर्ग्रहणात् ॥ कथं कृत्वा ज्ञापकम् ? ॥ इमौ वृङ्वृञ्ञावुदात्तौ, तयोः प्रकृतिलक्षणः प्रतिषेधो न प्राप्नोति । पश्यति त्वाचार्यः-उभयोः स प्रत्यारम्भ इति, ततोवृङ्वृञ्ञोर्ग्रहणं करोति । न खल्वपि कश्चिदुभयवान्प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणश्च। तुल्यजातीयेऽसति यथैव प्रकृतिलक्षणस्य नियामको भवत्येवं प्रत्ययलक्षणस्यापि नियामको भविष्यति ॥ अथ यावता वसावेकाजाद्धसिभ्य(5) इटा भवितव्यं को न्वत्र विशेषो नियमार्थे वा सति विध्यर्थे वा ? ॥ न खलु कश्चिद्विशेषः, आहोपुरुषिकामात्रं तु, - भवानाह विध्यर्थमिति, वयं तु ब्रूमो - नियमार्थमिति ॥ अथैकाज्ग्रहणं किमर्थम् ? ॥ इह मा भूत् - बिभिद्वान् चिच्छिद्वानिति ॥ क्रियमाणेऽपि वै एकाज्ग्रहणेऽत्र प्राप्नोति, एषोऽपि ह्येकाच् ॥ एवं तर्हि कृते द्विर्वजने य(1) एकाच् ॥ किं वक्तव्यमेतत् ? ॥ न हि ॥ कथमनुच्यमानं गंस्यते ? ॥ एकाज्ग्रहणसार्मथ्यात् । न हि कश्चिदकृते द्विर्वचनेऽनेकाजस्ति यदर्थमेकाज्ग्रहणं क्रियते ॥ ननु चायमस्ति जागर्तिः - जागृवांसोऽनुग्मन्(2) ॥ यत्तर्ह्याकारग्रहणं करोति । न हि कश्चिदकृते द्विर्वचने आकारान्तोऽनेकाजस्ति ॥ ननु चायमस्ति, - दरिद्रातिः ॥ न दरिद्रातेरिटा भवितव्यम् ॥ किं कारणम् ? ॥ उक्तमेतत्(1) - दरिद्रातेरार्धधातुके लोपः, सिद्धश्च प्रत्ययविधाविति । यश्चेदानीं प्रत्ययविधौ सिद्धः सिद्धौऽसाविडि्वधौ । एवमपि भूतपूर्वगतिर्विज्ञायेत - आकारान्तो यो भूतपूर्वइति ॥ एकाज्ग्रहणमेव तर्हि ज्ञापकम् ॥ ननु चोक्तं - जार्गत्यर्थमेतत्स्यात् ॥ नैकमुदाहरणमेकाज्ग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्या ज्जार्तेर्नेत्येव ब्रूयात् ॥ अथ घसिग्रहणं किमर्थं, न एकाजित्येव सिद्धम् ॥ घसिग्रहणमनच्कत्वात् ॥ घसिग्रहणं क्रियते, लोपे कृतेऽनच्कत्वादिण्न(1) प्राप्नोति ॥ इदमिह संप्राधार्यमिट् क्रियतां लोप इति, किमत्र कर्तव्यम् ? ॥ परत्वादिडागमः ॥ नित्यो लोपः । कृतेऽपीटि प्राप्नोत्यकृतेऽपि ॥ इडपि नित्यः । कृतेऽपि लोपे प्राप्नोत्यकृतेऽपि ॥ अनित्य इट् । न हि कृते लोपे प्राप्नोति ॥ किं कारणम् ? ॥ अनच्कत्वात् ॥ एवं तर्हि द्विर्वचने कृतेऽभ्यासे योऽकारस्तदाश्रय इड्भविष्यति ॥ न सिध्यति ॥ किं कारणम् ? ॥ द्वित्वाल्लोपस्य परत्वात् । द्विर्वचनं क्रियतां लोप इति किमत्र कर्तव्यम् ? ॥ परत्वाल्लोपः । लोपे कृतेऽनच्कत्वाद्विर्वचनं न प्राप्नोति । घसिग्रहणे पुनः क्रियमाणे न दोषो भवति ॥ कथम् ? ॥ वचनादिड्भविष्यति ॥ इटि कृते द्विर्वचनं क्रियतां लोप इति यद्यपि परत्वाल्लोपः, स्थानिवद्भावाद्विर्वचनं भविष्यति ॥ (वस्वेकाजाद्धसाम्) ॥ Kashika ------- कृतद्विर्वचनानामेकाचां धातूनाम्, आकारान्तानां घसेश्च वसाविडागमो भवति। आदिवान्। आशिवान्। पेचिवान्। शेकिवान्। धात्वभ्यासयोरेकादेशे कृत एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्ति। आत् — ययिवान्। तस्थिवान्। घस् — जक्षिवान्। सिद्धे सत्यारम्भो नियमार्थः — एकाजाद्घसामेव वसाविडागमो भवति नान्येषाम्। बिभिद्वान्। चिच्छिद्वान्। बभूवान्। शिश्रिवान्। क्रादिनियमात् प्रतिषेधाभावात् च य इट् प्रसक्तः स नियम्यते। आद्ग्रहणमनेकाज्ग्रहणार्थम्। द्विर्वचने हि कृत इटि हि सत्यातो लोपेन भवितव्यम्। द्ररिद्रातेस्तु **कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्** (३.१.३५ वा०) इत्यामा भवितव्यम्। दरिद्रांचकार। अथाप्याम् न क्रियते तथापि च दरिद्रातेरार्धधातुके लोपः सिद्धश्च प्रत्ययविधौ (६.४.११४ वा०) इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्त इडागमस्य निमित्तं विहतमिति नेडागमो भवति, ददरिद्र्वानिति भवितव्यम्। घसेरपि यदि ग्रहणमिह न क्रियते तदा द्विर्वचनात् परत्वाद् **घसिभसोर्हलि च** (६.४.१००) इत्युपधालोपे कृते द्विर्वचनमेव न स्याद्, अनच्कत्वाद्। इह तु घसिग्रहणाद् उपधालोपमपि परत्वादिडागमो बाधते। तत्र कृते **गमहनजनखनघसाम्०** (६.४.९८) इत्युपधालोपः। स च **द्विर्वचनेऽचि** (१.१.५९) इति द्विर्वचने कर्तव्ये स्थानिवद् भवति, तेन जक्षिवानिति सिध्यति॥ Siddhanta Kaumudi ----------------- कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच् । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥ Balamanorama ------------ **वस्वेकाजाद्घसाम्** - वस्वे । 'वसु' इत्यविभक्तिको निर्देशः । तथा च व्याख्यास्यति — वसोरिति । नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह — कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्य्नते तेषामित्यर्थः ।नेड्वशि कृती॑ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह — नान्येषामिति । आदिवानिति । अद भक्षणे । द्वित्वहलादिसेषाऽभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्यमेकाजेवेति इट् । आरिवानिति । 'ऋ गतौ'ऋच्छत्यृता॑मिति गुणे कृते पूर्वत्कृतेषु अयमेकाच् । दादिवानिति । डु दाञ् दाने । कृते द्वित्वे नाऽयमेकाच् । इण्निमित्तश्चाऽऽतो लोपो नाऽसति तस्मिन् भवतीति अनेकाजर्थमाद्ग्रहणम् । जक्षिवानिति ।लिटन्यतरस्या॑मित्यदेर्घस्लादेशः । द्वित्वे कृते नायमेकाजिति घसिग्रहणम् । Tattvabodhini ------------- **वस्वेकाजाद्घसाम्** - वस्वे ।वस्वि॑ त्यविभक्तिको निर्देशस्तथा च व्याख्यास्यते — वसोरिति । नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह — कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः ।नेड्वशि कृती॑ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्रस्येटो नियमोऽयमित्याह — नान्येषामिति । आदिवानिति । अद भक्षणे, द्वित्वहलादिशेषाभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेतीड्भवति । आरिवानिति । ऋ गतौ ।ऋच्छत्यृता॑मिति गुणे कृते द्वित्वादिष #उपूर्ववत्कृतेष्वयमप्येकाच् । ददिवानिति । डुदाञ् दाने । कृते द्वित्वे नायमेकाच्, इण्निमित्तश्चातो लोपो नाऽसति तस्मिन्भवतीत्यनेकाजर्थमाद्ग्रहणम् । जक्षिवानिति ।लिटन्यतरस्या॑मित्यदर्घस्लादेशः । द्वित्वे कृते नाऽयमेकाजिति घसिग्रहणम् । अत्र व्याचख्युः — द्वित्वात्पूर्वं परत्वात्घसिभसोर्हली॑त्युपधालोपः स्यात्तस्मश्च कृतेऽनच्कत्वाद्द्वित्वमेव न स्यात् । न चाऽस्य द्वित्वे कर्तव्येद्विर्वचनेऽची॑त्यनेन स्थानिव्दभावो, निषेधो वा शङ्क्यः, द्वित्वनिमित्तस्याऽचोऽभावात् । ततश्च नाऽयं कृतद्विर्वचन एकाज्भवतीति घसिग्रहणं, तत्सामत्र्यात्तु परत्वादुपधालोपमिडागमो बाधते, कृते त्विडागमेगमहने॑त्युपधालोपस्तस्य चाऽज्निमित्तत्वेन स्थानिवत्त्वाद्द्वित्वम् । यद्वाद्विर्वचनेऽची॑ति निषेधपक्षे तूपधालोपात्प्रागेव द्वित्वं, पश्चादुपधालोपःशासिवसिघसीनां चे॑ति षत्वं चर्त्वं क्षः ।अभ्यासे चर्चे॑ त्यभ्यासघकारस्य जश्त्वमिति । Padamanjari ----------- वसु इत्यविभक्तिको निर्द्देशः । वसोरित्यर्थः । कृतद्विर्वचनानामिति । कथं पुनरविशेषोक्तावेष विशेषो लभ्यते एकाज्ग्रहणसामर्थ्यात् । न हि कश्चिचदकृते द्विर्वचनेनैकाजस्ति यन्निवृत्यर्थमेकाज्ग्रहणं स्यात् । चिरिजिरिचकाशिभ्यः कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामा भवितव्यमिति वसोरसम्भवः । ऊर्णोतेस्तु णुवद्भावादेकाज्ग्रहणोनानिवःतिः । ननु च जागर्तिरस्ति उषविदजागृभ्योऽन्यतरस्याम् इत्यामो विकल्पितत्वात् वेदेऽपि - जागृवांसो अनुग्मन्निति द्विर्वचनप्रकरकणे च्छन्दसि वेति वक्तव्यम् इति द्विर्वचनाभावः, नैकमुदाहरणमेकाज्गरहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात् जागर्तेर्न इत्येव ब्रूयात्, लधीयसी हि साक्षात्प्रतिषेधप्रतिपतिः । यदि वा न्यायसिद्धोऽयमर्थः । तथा हि द्विर्वचनस्यावकाशः - पंपाच, इटोऽवकाशः यत्र कृते द्विर्वचन एकाच् - पेचिवान्, आदिवान् बिभिद्वानित्यादौ तूभयप्रसङ्गे नित्यत्वाद् द्विर्वचनम् । कादिनियमात्प्राप्त इति । नेड्वशि कृतीति प्रत्ययाश्रयस्य प्रतिषेधस्य सर्वत्र भावात्कादिनियमानेव सर्वत्र वसोरिटः प्राप्तिः । आद्ग्रहणमनेकाजर्थमिति । ननु द्विर्वचने आकारलोपे सति तेषामप्येकाच्त्वादेव सिद्धमत आह - द्विर्वचने हीति । इण्निमित आकारलोपो नासति तस्मिन्भवति, ततश्चानेकाच्त्वमित्यर्थः । अथाप्याम्न क्रियत इति । आत औ णलः इत्योकारे विधातव्ये औकारविधानेन ज्ञापितमेतत् - दरिद्रातेरनित्य आमिति । तेनायमभ्युपगमः ददरिद्रवानिति, नेड्वशि कृतीति प्रतिषेध एव तत्र भवति । अथ घसिग्रहणं किमर्थम्, यावता द्विर्वचने कृते घसिभसोर्हलि च इत्युपधालोपे सत्येकाच्त्वादेव सिद्धमत आह - घसेरपीति । परत्वादिति । नित्यत्वाच्चेत्यापि द्रष्टव्यम् तस्य हल्यपि विधानात् । अनष्कत्वादिति । स्थानिवद्भावोषऽपि नास्ति, हल्निमितत्वादुपधालोपस्य । क्रियमाणे तु घसिग्रहणे नायं दोष इत्याह - क्रियमाणे त्विति ॥ Nyaas ----- `कृतद्विर्वचनानां धातूनामेकाचाम्` इति। कुत एतदवसितम्? एकाज्ग्रहणसामर्थ्यात्। न हि कश्चिदकृते द्विर्वचनेऽनेकाजस्ति, यन्निवृत्त्यर्थमेकान्ग्रहणं क्रियते। ननु च जागर्त्तिरस्ति, अतस्तन्निवृत्त्यर्थ तत्? स्यात्? नैतदस्ति; न ह्रेकमूदाहरणं प्रति योगारम्भं प्रयोजयति। यद्येतत्? प्रयोजनं स्यात्, `जाग्रो न` इत्येवं ब्राऊयात्। तदाप्ययमर्थः - प्रतिपत्तिगौरवं परिह्मतं भवति। ननु चोर्णोतेर्निवृत्त्यर्थमपि स्यात्? नैतत्; उक्तं हि प्राक् - `वाच्यौउर्णोर्णुवद्भावः` (कारिका।7.2.11) इति। तस्माद्युक्तमुक्तम् - कृतद्विर्वचनानां धातूनामेकाचामिति। `आदिवान्ाशिवान्` इति। `अद भक्षणे` (धातुपाठः-1011), `अश भोजने` (धातुपाठः-1523)। लिटः **क्वसुश्च** (3.2.107) इति क्वसुः, द्विर्वचनम्, अभ्यासकार्थञ्च, `अत आदेः (7.4.70) इति दीर्घत्वम्। सवर्णदीर्घत्वम्, इट्, `उगिदचम्` (7.2.70) इति नुम्, `सान्तमहतः` (6.4.10) इत्यादिना दीर्घः, हल्ङ्यादि- (6.1.66) संयोगान्तलोपौ (8.2.23) । `पेचिवन्, शोकिवान्` इति। `अत एकहल्मध्ये` (6.4.120) इत्यादिनैत्त्वाभ्यासलोपौ। `धात्वभ्यासयोरेकादेशे कृते` इत्यादि। ननु च षाष्ठिके द्विर्षचनविधौ `द्विष्प्रयोगो द्विर्वचनम्` इत्येव पक्षो वृत्तिकारेणाश्रितः, एवं चाकृते दात्वभ्यासयोरेकदेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचना अप्येत एकाचो भवन्ति। स्थाने द्विर्वचने हि शब्दान्तरमनेकाजतिदिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्, न तु द्विष्प्रयोगे द्विर्वचने; तत्र हि स एव धातुर्द्विरुच्यते, न चासौ शतकृत्वोऽप्युच्चार्यमाण एकाच्त्वं जहाति, किंपुनर्द्धिरुच्यमानः, तत्? क्रिमुच्यते - धात्वभ्यासयोरेकादेश एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्तीति? आवृत्तिकृतमेकाचो बेदमाश्रित्यैवमुक्तमित्यदोषः। भवति हि धर्मभेदादपि धर्मिणो भेदव्यवहारः? तथा हि, वक्तारो वदन्ति - परुद्भावान्? पटुरासीत्, पटुतरश्चैषमः, पटुतमः परारि, सोऽन्य एवासि संवृत्त इति। अथ वा - स्थाने द्विर्वचनपक्षोऽपि तत्राश्रितः, द्विष्प्रयोगश्च द्विर्वचनमिति कृत्वा। चकारात्? स्थाने द्विर्वचनमपीति स्थाने द्विर्वचनपक्षस्यापि तत्र सूचनात्। ये तु तत्पक्षभाविनो दोषस्ते तत्र प्रतिविहिता एव। `तस्थिवान्` इति। `शर्पूर्वाः खथः` (7.4.61) इति ख्यः शेषः; `अतो लोप इटि च` (6.4.64) इत्याकारलोपः। `जक्षिवान्` इति। पूर्ववददेर्घस्लादेशः, इट्? `गमहन` (6.4.98) इत्यादिनोपधालोपः, **कुहोश्चुः** (7.4.62) इति चुत्वम् - धकारस्य झकारः, **अभ्यासे चर्च** (8.4.54) इति झकारस्य जकारः। परस्य धकारस्य `खरि च` (8.4.54) इति चर्त्वम् - ककारः, `शासिवसि` (8.3.60) इत्यादिना षत्वम्। ननु चात्र क्रादिनियमादिडागमः सिद्ध एव, तत् किमर्थोऽयमारम्भः? इत्याह - `सिद्धे` इत्यादि। `क्रादिनियमात्? प्रसक्तः` इत्यादिना `सिद्धे सत्यारम्भो नियमार्थः` (कात।प।59) इत्येतदेव स्पष्टीकरोति। `प्रसक्तः` इति। प्राप्त इत्यर्थः। `नियम्यते` इति। धात्वन्तरेभ्यो व्यावर्त्त्येकाजादिष्वेव व्यवस्थाप्यत इत्यर्थः। अथाद्ग्रहणं किमर्थम्, यावताऽकारान्ता अप्यतो लोपे कृते कृतद्विर्वचना एकाचो भवन्त्येव, तत्रैकाज्ग्रहणेनैव सिद्धम्? इत्याह - `आद्ग्रहणमनेकाज्ग्रहणार्थम्` इति। कथं पुनस्तेषामनेकाच्त्वम्? इत्यत आह - `द्विर्वचने` इत्यादि। इण्निमित्तत्वादाकारलोपस्येटि सति तेषामाकारलोपेन भवितव्यम्, नासति, अतो यावदिण्न क्रियते तावदाकारलोपाभावात्? कृतद्विर्वचना एतेऽनेकाच इत्यसत्याद्ग्रहणे [`इत्यसत्यादिग्रहणे` - इति मुद्रितः पाठः] तेषां ग्रहणं न स्यात्। तस्मादनेकाजर्थमाद्ग्रहणं कर्तव्यम्। यद्येवम्, दरिद्रातेरपीट्? प्रसज्येत? इत्यत आह - `दरिद्रातेस्तु` इत्यादि। दरिद्रातेः क्वसो सम्भव एव नास्ति, यतः `कास्यनेकान्ग्रहणम्` (वा।305) इति वचनाद्दरिद्रातेरामा भवितव्यम्, तस्मश्च सति `आमः` (2.4.81) इति लेर्लुका भवितव्यम्? तत्कुतोऽयमिट्प्रसङ्गः! `दरिद्राञ्चकर` इति। `कृञ्चानुप्रयुज्यते` (3.1.40) इति लिट्परस्य कृञोऽनुप्रयोगः। अभ्युपगम्यपि दरिद्रातेरामोऽभावं परीहारान्तरमाह - `अथाप्याम्न क्रियते` इत्यादि। आकारान्तानां धातूनामिहेङ्विधीयते। दरद्रातेरार्धधातुके `लोपः सिद्धश्च प्रत्ययविधौ` इति वचनात्? प्रागेव प्रत्ययोत्पत्तेराकारो लुप्त इतीडागमोऽस्मान्निमित्ताभावान्न भवति। क्रियतां नामाद्ग्रहणम्, घसिग्रहणं न कर्तव्यमिति, अस्य द्विर्वचने कृते `घसिभसोहंलि च` (6.4.100) इत्युपधालोपे कृते चैकाच इत्येवं सिद्ध इडागमः? इत्याह - `घसेरपि` इत्यादि। `अनच्कत्वात्` इति। द्विर्वचनाभावहेतुः। एकाचो द्विर्वचनमुच्यते; `एकाचः` (6.1.1) इत्यधिकारात्। तस्मादुपधालोपे कृतेऽनच्कत्वान्न द्विर्वचनं स्यात्, ततश्च जक्षिवानिति न सिध्यतीत्यभिप्रायः। अथ क्रियमाणेऽपि घसिग्रहणे कस्मादेव दोषो व भवति? इत्याह - `क्रियमाणे` [`नास्ति काशिकायाम्। पदमञ्जर्यां तु `क्रियमाणे तु` इति प्रतीकमुपलभ्यते] इत्यादि। सुबोधम्॥ Prakriyasarvasvam ----------------- द्विर्वचने कृतेऽप्येकाचां धातूनामादन्तानां घसेश्च वसोरिट् स्यान्नान्येषाम् । पेचिवस् । पदकार्यं, पेचिवान् । क्वसोर्विकल्पोक्तिः पपाचेति तिङोऽपि सिद्ध्यर्था । आदन्ताद्वसोरिट् । पा इवस् । 'आतो लोप इटि च' (६-४-६४) इत्याल्लोपः । पिवस् पुनर्द्वित्वे,