72068: विभाषा गमहनविदविशाम्¶
Padacheda: विभाषा | S | 1 | 1 |
गमहनविदविशाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix वस् optionally takes इट् after 1. गम् ‘to go’ 2. हन् ‘to kill’ 3. विद् ‘to know’ and 4. विश् ‘to enter’.
Vasu English Translation¶
The affix वस् optionally takes इट् after 1. गम् ‘to go’ 2. हन् ‘to kill’ 3. विद् ‘to know’ and 4. विश् ‘to enter’. As गम्-जग्मिवान् or जगन्वान् (म् changed to न् by (8.2.64)); हन्-जघ्निवान् or जघन्वान्, (7.2.54) and (7.2.55) विद्-विविदिवान् or विविद्वान्, विश्-विविशिवान् or विविश्वान् ॥ The root विद् ‘to acquire’ belongs to the Tudadi class, as it is read here with the Tudadi विश् ॥ The root विद् ‘to know’ (II.55. IV. 62), forms invariably विविद्वान् because it is atmanepadi and cannot take इट् augment before वस् affix.
Vart:- The root दृश् should also be enumerated. As ददृशिवान् and ददृंश्वान् ॥
Bhashya¶
विभाषा गमहनविदविशाम् ॥ दृशेश्च(2) ॥ दृशेश्चेति वक्तव्यम् । ददृश्वान् । ददृशिवान् ॥ तत्तर्हि वक्तव्यम् ॥ न वक्तव्यम् । दृशेरिति वर्तते ॥ ( विभाषा गमहन )
Kashika¶
गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति। गम — जग्मिवान्, जगन्वान्। मो नो धातोः (८.२.६४), म्वोश्च (८.२.६५) इति नकारः। हन — जघ्निवान्, जघन्वान्। विद — विविदिवान्, विविद्वान्। विश् — विविशिवान्, विविश्वान्। विशिना साहचर्यात् इह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्। ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति॥ दृशेश्चेति वक्तव्यम्॥ ददृशिवान्, ददृ॒श्वान् (ऋ० ४.३३.६)॥
Siddhanta Kaumudi¶
एभ्यो वसोरिड्वा । जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेर्ग्रहणम् । वेत्तेस्तु विविद्वान् । नेड्वशि कृति (SK2981) इतीण्निषेधः ॥<!दृशेश्च !> (वार्तिकम्) ॥ ददृशिवान् । ददृश्वान् ॥
Tattvabodhini¶
विभाषा गमहनविदविशाम् - जग्मिवानित्यादि । इट्पक्षेगमहने॑त्युपधालोपः ।
Padamanjari¶
जध्निवान्, जघन्वानिति । हो हन्तोर्ञ्णिन्नेषु । अभ्यासाच्चेति कुत्वम् । विशिना तौदादिकेनेति । यद्यप्यादादिकेन हन्तिना साहचर्यमस्ति, तथापि शब्दपरविप्रतिषेधाद्विशिसाहचर्यमेव व्यवस्थापकमिति भावः । ज्ञानार्थस्य त्विति । सताविचारणार्थयोस्त्वात्मनेपदित्वात् क्वसावसम्भव एवेति भावः । विविद्वानिति । वूर्वविदिट्प्रतिषेधः ॥
Nyaas¶
पूर्वस्मान्नियमाद्गमादीनामिङ्? न भवतीति विभाषेयमारभ्यते। जग्मिवान् इति। परत्वादिट्? ततः गमहन (6.4.98) इत्यादिनोपधालोपः, ततो द्विर्वचनम्। जघन्वानिति, जध्निवान इति। अभ्यासाच्च (7.3.55) इति कुत्वम् - हकारस्य घकारः। लाभार्थस्य इति। विद्लृ लाभे (धातुपाठः-1432) इत्यस्य। न ज्ञानार्थस्य इति। विद ज्ञाने (धातुपाठः-1064) इत्यस्य। विद सत्तायाम् (धातुपाठः-1171), विद विचारणे (धातुपाठः-1450) - इत्येतयोश्चात्मनेपदित्वादात्मनेपदेषु क्वसुर्न भवतीत्यनुपन्यासः। दृशेश्च इत्यादि। वृशिर्? प्रेक्षणे (धातुपाठः-988) इत्यस्माच्च परे क्वसोरिडागमो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - विभाषा इति योगविभागः क्रियते, तेन दृशेरपि भविष्यतीति। न चैवं सति गमहनविदविशाम् इत्यस्यानर्थक्यम्; पूर्वयोगस्यासर्ववषयत्वसूचनात्। एवं ह्रतिप्रसङ्गः परिह्मतो भवति॥
Prakriyasarvasvam¶
एषां क्वसोरिड् वा स्यात् । गमेरभ्यासचुत्वं, जगम् वस् । अनिट्त्वे ‘म्वोश्च’ (८-२-६५) इति मस्य नत्वं जगन्वान् । इट्पक्षेऽजादित्वाद् ‘गमहन-’ (६-४-९८) इत्युपधालोपः, जग्मिवान् । हनेरभ्यासस्य चुत्वं झः, जश्त्वं, जहन् ‘अभ्यासाच्च’ (७-३-५५) इति धातोः कुत्वं घः । जघन्वान् । इटि तूपधालोपः, जघ्निवान् । विदेर्लाभार्थस्य ग्रहः । द्वित्वे हलादिः शेषः । क्वसोः कित्त्वाद् धातोरगुणः । विविद्वान् विविदिवान् । विविश्वान् विविशिवान् ।<!दृशेश्च क्वसाविड् वेति वाच्यम्!> (वा० ७-२-६८) । द्वित्वं, हलादिः शेषः, ददृशिवस् ॥
Vartika¶
दृशेश्च ।