72059: न वृद्भ्यश्चतुर्भ्यः =========================== **Padacheda:** न | S | 0 | 0 | वृद्भ्यः | S | 5 | 3 | चतुर्भ्यः | S | 5 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The परस्मैपद आर्धधातुक affixes beginning with स् do not get the इट् augment after वृत् and the three roots (वृध् , शृध् and स्यन्द्) that follow it. Vasu English Translation ------------------------ The परस्मैपद आर्धधातुक affixes beginning with स् do not get the इट् augment after वृत् and the three roots (वृध् , शृध् and स्यन्द्) that follow it. Thus वृत् — वर्त्स्यति, अवर्त्स्यत्, विवृत्सति । वृध् वर्त्स्यति, अवर्त्स्यत् । विवृत्स्सति । शृधू । शर्त्स्यति । अशर्त्स्यत् । शिशृत्सति । स्यन्दू । स्यन्त्सति । अस्यन्त्स्यत् । The वृतादि roots are four वृत्, वृध्, शृध् and स्यन्द (*Bhuadi* 795-798). In the examples, the *Parasmaipada* forms are shown, because these roots are optionally *Parasmaipadi* by (1.3.92) before स्य and सन् ॥ Objection :- The word चतुर्भ्यः may conveniently have been omitted from the *sutra*. A reference to the *Dhatupatha* will show that the वृतादि roots form a subdivision of द्युतादि roots, and stand at the end of *Dyutadi* class. So that the *sutra* न वृद्भ्यः would have been enough, and there would have been no uncertainty or vagueness about it, for the word वृतादि would mean 'the roots वृत् &c. with which the *Dyutadi* class ends'. Thus we shall get the five roots 795 वृतुर्वर्तने 796 वृधु वृद्धौ, 797 शृधु शब्दकुत्सायाम्; 798 स्यन्दू प्रस्रवणे and कृपू सामर्थ्ये ॥ As regards the last root कृपू, we shall find from the next *sutra*, that the present *sutra* applies to this root also. Or we can change the order of the roots, putting कृपू first, and वृतु &c after it, so that वृतादि will mean four roots only. Whether *vritadi* be taken to mean the five or the four roots, the word चतुर्भ्यः is redundant. Ans:- The word चतुर्भ्यः is used in order that the prohibition contained in this *sutra* may debar the 'option' which the root स्यन्दू would have taken, because of its indicatory long ऊ (7.2.44). For this 'option' is an *antaranga* operation, because it applies to all *ardhadhatuka* affixes; while the 'prohibition' of the present *sutra* is a *bahiranga*, because it applies to those affixes only which begin with स ॥ So that the 'prohibition' of this *sutra* would not have debarred the 'option' of (7.2.44): and in the *Parasmaipada* स्यन्दू would have had two forms; which, however, is not the case because of the word चतुर्भ्यः by which the 'prohibition' is extended to स्यन्दू also. Thus in the *Parasmaipada*, we have only one form, as, स्यन्त्स्यति; but in the *Atmanepada* we have two forms स्यन्दिष्यते or स्यन्त्स्यते ॥ The word '*Parasmaipada*' is understood in this *sutra*, so that the prohibition does not apply to *atmanepada* affixes: as वर्त्तिषीष्ट, वर्तिष्यते, अवर्तिष्यत्, विवर्तिष्यते, स्यन्दिषीष्ट or स्यन्त्सीष्ट ॥ Moreover, with regard to *Atmanepada* also, the इट् is added to these roots when they stand in the same '*pada*' with the affixes. But when the *Atmanepada* affixes are added not to the roots '*vrit* &c', but to the roots which are derived from the nominal bases formed from '*vrit* &c', then the 'root' is not in the same *pada* with the affix, and the prohibition of this *sutra* will apply. As विवृत्सित्रीयते ॥ Moreover, the rule applies, as we have said, to the affixes standing in the same '*pada*' with the 'roots'; therefore it will apply to Desiderative roots, as विवृत्सति, though शप् here intervenes between the *ardhadhatuka* affix सन् and the *Parasmaipada* तिप्; so also, an *ekadesa* though *sthanivat* and therefore an intervention, will not be considered so for the purposes of this rule, as विवृत्सिष्यति; so also in विवृत्सयति ॥ This prohibition, moreover, applies to कृत् affixes, and where there is *luk*-elision of *Parasmaipada* affixes. As विवृत्सिता; and विवृत्स त्वम् where the Imperative हि is *luk* elided, and being so elided, the force of *Parasmaipada* does not here remain by न लुमताङ्गस्य (1.1.63); hence the above *Ishti*. Bhashya ------- न वृद्भ्यश्चतुर्भ्यः ॥ वृतादिप्रतिषेधे च ॥ किम् ? ॥ कृत्युपसङ्ख्यानम् ॥ (कृत्युपसङ्ख्यानं(3)) कर्तव्यम् । विवृत्सिता । विवृत्सितुम् । विवृत्सितव्यम् ॥ तत्तर्ह्युपसङ्ख्यानं कर्तव्यम् ? ॥ न कर्तव्यम् ? ॥ अविशेषेण वृतादिभ्य इट्प्रतिषेधमुक्त्वा आत्मनेपदपर इड्भवतीति वक्ष्यामि ॥ आत्मनेपदपर(4) इड्वचने तत्परपरसीयुडेकादेशेष्विड्वचनम्(5) ॥ आत्मनेपदपर इड्वचने तत्परपरसीयुडेकादेशेष्विड्वक्तव्यः । तत्परपरे तावत् - विवर्तिषिष्यते । सीयुटि - वर्तिषीष्ट । एकादेशे-वर्तिष्यन्ते वर्द्धिष्यन्ते(6) ॥ सिद्धं तु वृतादीनामात्मनेपदेन समानपरस्थस्येड्वचनात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ वृतादीनामात्मनेपदेन समानपदस्थस्ये (ड्वचनात् । वृतादीनामात्मनेपदेन(1) समानपदस्थस्ये - ) ड्भवतीति वक्तव्यम् ॥ चतुस्तासिकॢपिग्रहणार्थक्यं च ॥ चतुर्ग्रहणं चानर्थकम् । सर्वेभ्यो (2)हि वृतादिभ्यः प्रतिषेध इष्यते ॥ तासिग्रहणं चानर्थकम् ॥ किं कारणम् ? ॥ निवृत्तत्वात्सकारस्य ॥ निवृत्तं सकारादाविति । तास्ग्रहणे चेदानीमक्रियमाणे कॢपिग्रहणेनापि नार्थः । एषोऽपि हि वृतादिः पञ्ञ्चमः ॥ भवेत्कॢपिग्रहणं न कर्तव्यं, तास्ग्रहणन्तु कर्तव्यम् । यद्धि तत्सकारदाविति न तच्छक्यं निवर्तयितुं, तृच्यपि हि प्रसज्येत - वर्तिता वर्धिता ॥ तास्ग्रहणे चेदानीं क्रियमाणे कॢपिग्रहणमपि कर्तव्यमन्येभ्योऽपि वृतादिभ्यस्तासौ मा भूदिति । भवेत्तासिग्रहणं कर्तव्यं, कॢपिग्रहणं तु नैव कर्तव्यम् ॥ अन्येभ्योपि(4) वृतादिभ्यः तासौ कस्मान्न भवति ? ॥ पररमैपदेष्विति वर्तते, कॢपेरेव च तास्परस्मैपदपरो नान्येभ्यो वृतादिभ्यः (5) ॥ यद्येवं तास्ग्रहणेनापि नार्थः ॥ तृचि कस्मान्न भवति ? ॥ परस्मैपदेष्विति वर्तते ॥ Kashika ------- वृतादिभ्यश्चतुर्भ्य उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो न भवति। वृत् — वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वृधु — वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। शृधु — शर्त्स्यति। अशर्त्स्यत्। शिशृत्सति। स्यन्दू — स्यन्त्स्यति। अस्यन्त्स्यत्। सिस्यन्त्सति। चतुर्भ्य इति न वक्तव्यम्, वृद्ग्रहणं हि तत्र द्युतादिपरिसमाप्त्यर्थं क्रियते — कृपू सामर्थ्ये वृदिति, तदेव यदि वृतादिसमाप्त्यर्थमपि विज्ञायते न किंचिदनिष्टं प्राप्नोति तत् क्रियते स्यन्देरूदिल्लक्षणमन्तरङ्गमपि विकल्पं प्रतिषेधो यथा बाधेतेति। चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः संनिधापितो भवति। परस्मैपदेष्वित्येव — वर्तिष्यते। वर्तिषीष्ट। अवर्तिष्यत। विवर्तिषते। अत्राप्यात्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते। अन्यत्र सर्वत्र प्रतिषेधः। कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति — विवृत्सिता, विवृत्स त्वमिति॥ Siddhanta Kaumudi ----------------- एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत ।{$ {!759 वृधु!} वृद्धौ$} ।{$ {!760 शृधु!} शब्दकुत्सायाम्$} । इमौ वृतिवत् ।{$ {!761 स्यन्दू!} प्रस्रवणे$} । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोः (SK2347) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् न वृद्भ्यः (SK2348) इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङि-(SK2347) इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्सताम् । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥ Laghu Siddhanta Kaumudi ----------------------- वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे। वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत॥ {$ {! 19 दद !} दाने $} (धातुपाठे (01.0017))॥ ददते॥ Balamanorama ------------ **न वृद्भ्यश्चतुर्भ्यः** - न वृद्भ्यः । सेऽसिचीति सूत्रात्से इति, आर्धधातुकस्येडिति चानुवर्तते । एभ्यः सकारादेरिति । तङानयोरभावे इति ।गमेरि॑डित्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तङानयोरभावो लक्ष्यते, व्याख्यानादिति भावः । तेनजिगमिषिते॑त्यत्र गमेःसन्नन्तात्तृचि इट् सिध्यति, वृतेः सन्नन्ताद्धेर्लुकि विवृत्सेत्यत्र इण्निषेधश्च सिध्यति । वत्स्र्यतीति । लृटि स्यः ।वृद्भ्यः स्यसनो॑रिति परस्मैपदविकल्पः । 'न वृद्भ्यः' इति इण्निषेधः । गुणः । रपरत्वम् । परस्मैपदाऽभावे त्वाह — वर्तिष्यते इति । 'तङानयोरभावे' इत्युक्तेः 'न वृद्भ्यः' ति इण्निषेधो न । अवर्तिष्टेति । परस्मैपदस्याङश्चाऽभावे रूपम् । अवत्स्र्यदिति । लृङि स्यः ।वृद्भ्यः स्यसनो॑इति इण्निषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ऋदुपधौ । तत्रापि 'द्युद्भ्यो लुङि' इति परस्मैपदपक्षे द्युतादिलक्षणोऽङ् । लृट्लृङो 'वृद्भ्यः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्भ्यः' इति इण्निषेधश्च । तदाह — इमौ वृतुदिति । वत्स्र्यति — वर्धिष्यते । अवृधत् — अवर्धिष्ट । अवत्स्र्यत् — अवर्धिष्यत । शत्स्र्यति — शर्धिष्यते । अशृधत् — अशर्धिष्ट । अशत्स्र्यत्-अशर्धिष्यत । स्यन्दू धातुः ऊदित्, नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः । सस्यन्दिषे सस्य्नत्से इति । इडभावे दस्य चर्त्वेन तः । सस्यन्दिद्ध्वे सस्यन्द्ध्वे इति । इडभावे धकारात् प्राग् दकारः । खर्परकत्वाऽभावान्न चर्त्वम् । स्यान्दितास्यन्तेति । इडभावे दस्य चर्त्वम् । ननु लृटि स्ये सतिवृद्भ्यः स्यसनो॑रिति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पं बाधित्वान वृद्भ्यश्चतुभ्र्यः॑ इति इण्निषेधे स्यन्त्स्यतीत्येव रूपमिष्यते, नतु स्यन्दिष्यत इति । तदयुक्तम्, अन्तरङ्गतया ऊदिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात्, सकारादिविशेषापेक्षतया तङानाभावनिमित्तापेक्षया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्यशङ्क्य निराकरोति — वृदभ्य इति ।वृद्भ्यः स्यसनो॑रिति परस्मैपदेकृते अन्तरङ्गमपि विकल्पं बाधित्वा 'न वृद्भ्य' इति निषेध इत्यन्वयः । कुत इत्यत आह — चतुग्र्रहमसामर्थ्यादिति । यदि ह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्यान्नतुन वृद्भ्यश्चतुभ्र्यः॑ इति निषेधस्तर्हि 'चतुभ्र्यः' इति व्यर्थं स्यात् । न च कृपूव्यावृत्तिस्तत्फलमिति शङ्क्यं, 'तासि च कॢपः' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिण्निषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । तथा च चतुग्र्रहणं चतुर्णामपि सर्वत्र इण्निषेधार्थमिति भावः । भाष्ये तुनिषेधाश्च बलीयांसः॑ इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य 'न वृद्भ्यः' इति निषेधेन बाधसिद्धेश्चतुग्र्रहणं प्रत्याख्यातम् । तथा च लृटि परस्मपैदपक्षे तु ऊदित्त्वादिड्विकल्पं बाधित्वा 'न वृद्भ्यः' इति नित्यमिण्निषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिड्विकल्पं मत्वाह — स्यन्दिष्यते स्यन्त्स्यते इति । इडभावे दस्य चर्त्वम् । आसीर्लिङि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह — स्यान्दिषीष्ट स्यन्त्सीष्टेति । 'न वृद्भ्यः' इति निषेधस्त न, तङानयोरभाव एव तत्प्रवृत्तेरिति भावः । लुङि विशेषमाह — द्युद्भ्यो लुङीत्यादिना । अङिति । 'द्युतादिलक्षणे' इति शेषः । नलोप इति ।अनिदितामित्यनेने॑ति शेषः । आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह — अस्यन्दिष्ट अस्यन्त्तेति । तत्र इडभावपक्षे अस्यन्द् स् त इति स्थिते 'झलो झली' ति सलोपे दस्य चर्त्वम् । न चाऽपित्त्वेन ङित्त्वात्अनिदिता॑मिति नलोपः शङ्क्यः, सिज्लोपस्याऽसिद्धत्वेनाऽनुपधात्वादिति भावः । अस्यन्त्सातामस्यन्त्सतेति । अस्यन्त्थाः, अस्यन्त्साथाम् । अस्यन्द्ध्वम् । अस्यनन्त्सि अस्यन्त्स्वहि अस्यन्त्स्महि । अस्यन्त्स्यत् — अस्यन्त्स्यत -अस्यन्दिष्यत । Tattvabodhini ------------- **न वृद्भ्यश्चतुर्भ्यः** - न वृद्भ्यः । गणकार्यत्वादुभयोर्यङ्लुक्यप्रवृत्तिः । वर्वर्तिष्यति । वर्वर्तिषति । चतुग्र्रहणफलं तु मूले एव स्फुटीभविष्यति ।सेऽसिची॑ति सूत्रात्से इत्यनुवर्तते । तदाह — सकारादेरिति । इण् न स्यादिति । स्यन्देरूदित्त्वाद्विकल्पे प्राप्ते, इतरेषां प्राप्ते, इतरेषां नित्यमिटि प्राप्ते निषेधोऽयम् । तङानयोरिति । जिगमिषिता । जिगमिषितारावित्यादौ तृचि परतः सन इडागमसिद्धयेगमेरिट् परस्मैपदग्रहणमं तङानयोरभावं लक्षयतीत्यभ्युपगम्यते । तञ्चात्रापि तथैवानुवर्तते, अर्थाधिकाराश्रयणात् ।तेन परस्मैपदाऽभावेऽपि तृचि विवृत्सितारावित्यत्रअतो हे॑ रिति हेर्लुकित्वं विवृत्से॑त्यत्र च सन इण्निषेधः सिध्यतीति भावः । अत्र भाष्यवार्तिकयोर्वृतादीनामात्मनेपदेन समानपदस्थर्स्येड्वचनादन्यत्र निषेध इति स्थितम् । तेन विवर्तिषते विवर्द्धिषते इत्यादाविड्भवति । विवृत्सतेवाचरति विवृत्सित्रीयते इत्यत्र त्वात्मनेपदोत्पत्तेः पूर्वं तत्समानापदस्थत्वाऽभावादन्तरङ्गोऽयं निषेधः प्रवर्तते । स च पश्चात्तङि कृतेऽपि न निवर्तते, चतुग्र्रहणसामर्थ्यादिति । अत्र व्याचख्युः -पञ्चभ्य॑ इति वक्तुमुचितम् । [एवं च]तासि चे॑त्येव सूत्रं कर्तव्यम् । न च वृतादिष्वतिव्याप्तिः तङानयोः सत्त्वादिति । अस्यन्त्तेति । अत्रअनिदिता॑मिति न लोपो न भवति, सिज्लोपस्याऽसिद्धत्वेनानुपधात्वात् । Padamanjari ----------- बहुवचननिर्द्देशाच्चतुर्ग्रहणाच्चाद्यर्थो गम्यते । वृत्तिर्वृधिः शृधिः स्यन्दिश्चत्वारोऽमी वृतादयः । शृधु शब्दकुत्सायाम् । अन्ये प्रसिद्धाः । उदाहरथणेषु वृद्भ्यः स्यसनोः इति तपरस्मैपदम् । चतुर्भ्य इति न वक्तव्यमिति । किं कारणम् इत्यत तथाअह - वृद्ग्रहतणं हीति । यदि द्यौतादिपरिसमाप्त्यर्थं तत्किमायातं वृतादिपरिसमाप्तेः इत्यत आह - तदेवतेति । तागुह्ययमाणविशेषत्वादिति भावः । अवन्तरङ्गमपीति । अन्तरङ्गत्वं विकल्पस्यार्धधातुकमात्रापेक्षत्वात् । अयं तु प्रतिषेधो बहिरङ्गः, सकारादिविशेषापेक्षत्वात्, बहिर्भूतपरस्मैपदापेक्षत्वाच्च । ननु चान्येष्वपि वृतादिषु आर्धधातुकलक्षणोऽपीडन्तरङ्ग एव, अथ तस्य वचनसामर्थ्यातप्रतिषेधः, तर्हि विकल्पस्यापि भविष्यति नैतदस्ति येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्तिश्चार्धधातुकस्येडित्यस्य, न तूदिल्लक्षणस्य । यदि परम्, परत्वादुदिल्लक्षणमपीट्ंअ प्रतिषेधो बाधेत ततदपि न अन्तरङ्गबहिरङ्गयोर्विप्रतिषेधानुपपतेः । कथं तर्हि सत्यपि चतुर्ग्रहणे तस्य प्रतिषेधः इत्यत आह - चतुर्ग्रहणे हीति । सति च तस्मिन् चतुर्थ्या प्रतिषेधेन भाव्यमिति प्रतीतिः, इतरथा संख्याश्बदाभावादेकस्य प्रतिषेधाभावेऽपि न कश्चिद्भावधः । परस्मैपदेष्वित्येवेति । यद्येवम्, यत्र वृतादिभ्यः परस्यार्धधातुकस्य परस्मैपदमनन्तरं तत्रैव स्यात् - वर्त्स्यतीत्यादौ, विवृत्सतीत्यादौ न स्यात्, शपा व्यवधानात् । तएकादेशेऽपि कृते स्थानिवद्भावाव्द्यवधानमेव, विवृत्सिष्यति, विवृत्सयतीत्यादौ प्रतियक्षमेव व्यवधानम्, कृति परस्मैपदलुकि च परस्मैपरगन्धोऽपि नास्तीति न स्यादेव तत्राह - अत्रापीति । इष्टिरेवेयम् । विवृत्सित्रीयत इत्यादौ चोक्त एव परिहारः ॥ Nyaas ----- `वृद्भ्यः` इति बहुवचननिर्देशादाद्यर्थो गम्यते। अत एवाह - `वृदादिभ्यः` इति। `वृतु वर्तने` (धातुपाठः-758), `वृधु वृधौ` (धातुपाठः-759), `शृधु शब्दकुत्सायम्` (दा।पा।760) `स्यन्दू रुआवणे` (धातुपाठः-761) - इत्येते वृदादयश्चत्वार उदात्तः। तत्राद्यानां त्रयाणां नित्यमिटि प्रप्ते, स्यन्देस्तूदित्त्वात्? पाक्षिके प्राप्ते प्रतिषेधोऽयमुच्यते। `वत्स्र्यति` इति। `लृट्? शेषे च` (3.3.13) इति लृट्, `वद्भ्याः स्यसनोः` (1.3.92) इति विकल्पेन परस्मैपदम्। `विवृत्सति` इति। **हलन्ताच्च** (1.2.10) इति सनः कित्वाद्गुणाभावः। वृधिशृध्योर्धकारस्य `खरि च` (8.4.54) इति चर्त्वम् - तकारः। `चतुभ्र्य इति न वक्तव्यम्` इति। अत्र कारणमाह - `वृत्करणं हि` इत्यादि। तदेव यदि वृदादिपरिसमाप्त्यर्थमपि विज्ञायत इति तन्त्रेणानेकशक्तितो वा शब्दानां न किञ्चिदनिष्टं प्राप्नोति। एवमपि विशायमान इष्टस्यैव सिद्धेरत्यभिप्रायः। एवं प्रत्याख्याते चतुग्र्रहणे, प्रयोजनमाह - `तत्क्रियते` इत्यादि। यदि चतुग्र्रहणं न क्रियेत, तदा स्पन्देरूदिल्लक्षणोऽन्तरङ्गत्वाद्विकल्पः स्यात्। अन्तरङ्गत्वं तु तसय वलाद्यर्धधातुकमात्राश्रयत्वात्। अस्य तु प्रतिषेधस्यार्थधातुकविशेषाश्रयत्वाद्वहरङ्गत्वम्। तस्मादन्तरङ्गमपि स्यन्देरूदिल्लक्षणं विकल्पमयं प्रतिषेधो यथा बाधेतेत्येवमर्थञ्च चतुग्र्रहणं क्रियते। कथं पुनः क्रियमाणेऽपि चतुग्र्रहणे, अयमर्थो लभ्यते? इत्यत आह - `चतुग्र्रहणे` इत्यादि। स स्यन्दिः परः प्रधानो यस्य तत्? तत्परम्, तद्भावस्तात्पर्यम्, तेन तात्पर्येण तत्प्रधानतयेत्यर्थः। `सन्निधापितः` इति। उपस्थापित इत्यर्थः। तस्य चैवं सन्निधापितस्य विकल्पोऽनेन प्रतिषेधेन कथं नाम बाध्येतत्येतदेव प्रयोजनम्। ततश्चतुग्र्रहणादन्तरङ्गमपि विक्लपं प्रतिषेधो बाधते। `अत्रपि` इत्यादि। कथं पुनः `परस्मैपदेषु` (7.2.58) इत्यनुवर्तमानेऽन्यत्र सर्वत्र प्रतिषेधो लभ्यते? एवं मन्यते - गमेरित्यनुवर्तते, तत्रैवमभिसम्बन्धः करिष्यते - गमेः सकारादौ येन प्रकारेण इट्? तेनैव प्रकारेण वृदादिब्यो नेडिति। तेन यथा गमेरात्मनेपदवर्जनमन्यत्र सर्वत्रैवेङ् भवति, तथा वृदादिभ्योऽपि प्रतिषेध इति॥ Prakriyasarvasvam ----------------- वृतादिभ्यश्चतुर्भ्यः परस्य सादेरार्धधातुकस्य आत्मनेपदाभाव इण् न स्यात् । वत्स्यति । अवत्स्यत् । तङ्पक्षे इट् । वर्तिष्यते । अवर्तिष्यत । कृपू सामर्थ्ये । कल्पत इति स्थिते Sutra Prayogas -------------- * **वर्त्स्यन्तावामयः** (शिशुपालवधम्): `न वृद्भ्यश्चतुर्भ्यः` इतीडभावः । * **निवर्त्स्यन्** (भट्टिकाव्यम्): `न वृत्यः` इति वलादिलक्षण इटि प्राप्ते इग्निषेधः। * **पुनरावर्त्स्यतां** (भट्टिकाव्यम्): `नवृद्भ्यः` इतीट्प्रतिषेधः । * **निर्वर्त्स्यत्यृतु-संघातः** (भट्टिकाव्यम्): `न वृद्भ्यश्चतुर्भ्यः` इतीट्प्रतिषेधः।