72052: वसतिक्षुधोरिट् ===================== **Padacheda:** वसतिक्षुधोः | S | 6 | 2 | इट् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes क्त्वा , क्त and क्त्वातु always get the इट् augment after वस् 'to dwell' and क्षुध्। Vasu English Translation ------------------------ The affixes क्त्वा , क्त and क्त्वातु always get the इट् augment after वस् 'to dwell' and क्षुध्। As उषित्वा, उषितः and उषितवान्, क्षुधित्वा, क्षुधितः, क्षुधितवान् ॥ The वस् of the *Adadi* class will get इट् as it is enumerated in the list of सेट् roots. The repetition of इट् shows that the rule is invariable, the 'optionally' of the preceding *sutra* does not affect it. Bhashya ------- वसतिक्षुधोरिट् इडिति वर्तमाने पुनरिडग्रहणं किमर्थम् ? ॥ पुनरिड्ग्रहणं नित्यार्थम् ॥ इडिति वर्तमाने पुनरिड्ग्रहणं क्रियते ॥ (किं प्रयोजनम् ? ॥) ठनित्यार्थम् । नित्यार्थोऽयमारम्भः ॥ (वसतिक्षुधोरिट्) ॥ Kashika ------- वसतेः क्षुधेश्च क्त्वानिष्ठयोरिडागमो भवति। उषित्वा। उषितः उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्। वसतीति विकरणो निर्देशार्थ एव। वस्तेस्तूदात्तत्वादेव भवितव्यमिटा। पुनरिड्ग्रहणं नित्यार्थम्॥ Siddhanta Kaumudi ----------------- आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥ Balamanorama ------------ **वसतिक्षुधोरिट्** - वसतिक्षुधोरिट् । पञ्चम्यर्थे षष्टी । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वानिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । इडित्यनुवर्तमाने पुनरिड्ग्रहणस्यस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः । 'एकाच उपदेश' इति इण्निषेधबाधनार्थमिदं सूत्रम् । उषित इति । यजादित्वात्संप्रसारणम्,शासिवसिघसीनां चे॑ति षः । Tattvabodhini ------------- **वसतिक्षुधोरिट्** - उषित इति । यजादित्वात्संप्रसारणम् ।शासिवसी॑ ति षः ।वसती॑ति शपा निर्देशः स्पष्टार्थः । वस्तेः सेट्कत्वाद्भवितव्यमेवेटा । क्षुधित इति । एवं चतस्याऽलमेषा क्षुधितस्ये॑ति प्रयोगो निर्बाध एवेति क्षुधेर्धातोर्भावे क्विपितारकादित॑ जिति धातुवृत्तिषु यदुक्तं, तन्नादर्तव्यम् । समानन्यायतया क्रुधितादावुयोक्ष्यत इति वा कथंचिन्नेयम् । Padamanjari ----------- उषित्वेति । पूर्ववत्कित्वम्, यजादित्वात्सम्प्रसारणम्, शासिवसि इत्यादिना षत्वम् । वस्तेस्त्विति । वस आच्छादने इत्यस्य यङ्लुग्निवृत्यर्थोऽपि शपा निर्द्देशो न भवति, तत्रापि क्त्वानिष्ठयोः सामान्यलक्षणेन इड् भवत्येव - वावसितः , वावसितवान्, वावसित्वा । गणाश्रयत्वात्सम्प्रसारकणाभावः ॥ Nyaas ----- `वस निवासे` (धातुपाठः-1005), `क्षुध बुभुक्षायाम्` (धातुपाठः-1190) - अनयोरनुदत्तत्वादिट्प्रतिषेधे प्राप्ते क्त्वानिष्ठयोरिङ्विधनार्थ वचनम्। `उषित्वा` इति। क्त्वा, इट्, **न क्त्वा सेट्** (1.2.18) इति कित्त्वप्रतिषेधे प्राप्ते `मुडमृव` (1.2.7) इत्यादिना कित्त्वम्, वच्यादिसूत्रेण (6.1.15) यजादित्वात्? सम्प्रसारणम्, `शासिवसिचसीनां च` (8.3.60) इति षत्वम्। `क्षुधित्वा` इति। अत्रापि **रलो व्युपधाद्धलादेः संश्च** (1.2.26) इति पक्षे कित्त्वम्। `वसतीति विकरणनिर्देशः` इत्यादि। `विकरणनिर्देशो धातुनिर्देशार्थे एव` इत्युक्तम्। अथ `वस आच्छादने` (धातुपाठः-1023) इत्यस्य निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चीदयेत्, तं प्रत्याह - `वस्तेः` इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चोदयेत्, तं प्रत्याह - `वस्तेः` इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्निवृत्त्यर्थः कस्मान्न विज्ञायते? विहितविशेषणपक्षविज्ञानादपि यङ्लुङ्निवृत्तिः शक्यते कर्त्तुमित्यभिप्रायः। अथेडित्यनुवर्तमाने पुनरिङ्ग्रहणं किमर्थम्? इत्याह - `पुनरिङ्ग्रहणं नित्यार्थम्` इति। पूर्वकमिङ्ग्रहणं विकल्पेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मात्तन्निवृत्त्यर्थ पुनरिङ्ग्रहणं कृतम्॥ Prakriyasarvasvam ----------------- अनयोः क्त्वानिष्ठयोर्नित्यमिट् स्यात् । क्षुधितः । वसेर्यजादित्वात्तुत्वम् । 'शासिवसि—' (८-३-६०) इति षत्वम् । उषितः ॥ Sutra Prayogas -------------- * **रसहासवतोपितेन** (शिशुपालवधम्): `वसतिक्षुधोरिट्` इतीडागमः। * **प्रोषितेषु** (शिशुपालवधम्): `वसतिक्षुधोरिट्` इतीडागमः।