72046: निरः कुषः ================ **Padacheda:** निरः | S | 5 | 1 | कुषः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A वलादि आर्धधातुक affix optionally takes इट् after कुष् when it is preceded by निर्। Vasu English Translation ------------------------ A वलादि आर्धधातुक affix optionally takes इट् after कुष् when it is preceded by निर्। As निष्कोष्टा or निष्कोषिता, निष्कोष्टुम् or निष्कोषितुम्, निष्कोष्टव्यम् or निष्कोषितव्यम् ॥ But only कोषिता, कोषितुं, कोषितव्यम् without निर् ॥ The exhibition of निर् instead of निस् indicates the existence of a separate and distinct preposition निर्, besides निस् ॥ It is the र् of this निर् which is changed to ल् by (8.2.19), in निलयनम्; for the र् of निस् being *asiddha* could not be changed to ल् ॥ Kashika ------- निर् इत्येवंपूर्वात् कुष उत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। निष्कोष्टा, निष्कोषिता। निष्कोष्टुम्, निष्कोषितुम्। निष्कोष्टव्यम्, निष्कोषितव्यम्। निर इति किम्? कोषिता। कोषितुम्। कोषितव्यम्। निस इति वक्तव्ये निर इति निर्देशेन रेफान्तमुपसर्गान्तरमस्तीति ज्ञाप्यते। तस्य हि निलयनमिति **उपसर्गस्यायतौ** (८.२.१९) इति लत्वं भवति। निसो हि रुत्वस्यासिद्धत्वाद् लत्वं न स्यात्॥ Siddhanta Kaumudi ----------------- निरः परात्कुषोवलादेरार्धधातुकस्य इड्वा स्यात् । निष्कोषिता । निष्कोष्टा । निरकोषीत् । निरकुक्षत् ।{$ {!1519 क्षुभ!} संचलने$} । क्षुभ्नादिषु च (SK792) क्षुभ्नाति । क्षुभ्नीतः । क्षोभिता । क्षुभान ।{$ {!1520 णभ!} {!1521 तुभ!} हिंसायाम्$} । नभ्नाति । तुभ्नाति । नभते तोभते इति शपि । नभ्यति तुभ्यतीति श्यनि ।{$ {!1522 क्लिशू!} विबाधने$} । शादिति श्चुत्वनिषेधः । क्लिश्नाति । क्लेशिता । क्लेष्टा । अक्लेशीत् । अक्लिक्षत् ।{$ {!1523 अश!} भोजने$} । अश्नाति । आश ।{$ {!1524 उध्रस!} उञ्छे$} । उकार इत् । ध्रस्नाति । उकारो धात्ववयव इत्येके । उध्रसांचकार ।{$ {!1525 इष!} आभीक्ष्ण्ये$} । पौनः पुन्यं भृशार्थो वा आभीक्ष्ण्यम् । इष्णाति । तीषसह - (SK2340) इत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषेर्ग्रहणं नतु इष्यतीष्णात्योरित्याहुः । एषिता । वस्तुतस्तु इष्णातेरपि इड्विकल्प उचितः । तथा च वार्तिकम् ॥ (वार्तिकम्) ॥{$ {!1526 विष!} विप्रयोगे$} । विष्णाति । वेष्टा ।{$ {!1527 प्रुष!} {!1528 प्लुष!} स्नेहनसेवनपूरणेषु$} । प्रुष्णाति । प्लुष्णाति ।{$ {!1529 पुष!} पुष्टौ$} । पोषिता ।{$ {!1530 मुष!} स्तेये$} । मोषिता ।{$ {!1531 खच!} भूतप्रादुर्भावे$} । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्ञाति । वान्तोऽयमित्येके ॥ Balamanorama ------------ **निरः कुषः** - निरः कुषः ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते ।स्वरतिसूती॑त्यतो वेति च । तदाह — निरः परादिति । निरकुक्षदिति । इडभावपक्षे 'शल' इति क्स इति भावः । अश भोजने । आशेति । द्विहल्त्वाऽभावान्न नुडिति भावः । इष आभीक्ष्ण्ये । तासितीषसहे॑तीड्विकल्पमाशङ्क्याह — तीषसहेत्यत्रेति । सहेति शपा निर्देशबलेन भौवादिक एव सहधातुरत्र निर्दिष्टः । तत्साहचर्यात्तौदादिकस्यैव इषेग्र्रहणम्, अकारविकरणसामान्यादिति भावः । इषेस्तकारे श्यन्प्रत्ययादिति । श्यन् प्रत्ययो यस्मादिति बहुव्रीहिः । श्यन्विकरणपठितादिषेस्तकारे परेतीषसहे॑ति विधिर्नेत्यर्थः । इष्णातेस्तकारे इड्विकल्पः फलित इति भावः । प्रूष प्लुषेति । आद्यो दीर्घोपधः । पुष्ट पुष्टौ । पोषितेति । अनिट्सु श्यन्विकरणस्यैव पुषेग्र्रहणादयं सेडिति भावः ।पुषादिद्युतादी॑त्यत्र श्यन्विकरमपुषादेरेव ग्रहणादङ् न । खच भूताप्रादुर्भावे । अतिक्रान्तोत्पत्तिरिति । दशममासादौ उत्पत्तियोग्यस्य एकादशादिमासादिषूत्पत्तिरित्यर्थः । खच्ञातीति । नस्य श्चुत्वेन ञ इति भावः । वान्तोऽयमिति ।खव भूतप्रादुर्भावे॑ इत्येवं दन्त्योष्ठआन्तमेके पठन्तीत्यर्थः । Tattvabodhini ------------- **निरः कुषः** - निरः कुषः ।स्वरती॑ति सूत्राद्वेत्यनुवर्तते ।आर्धधातुकस्ये॑डित्यधिक्रियत एव । तदाह — — वलादेरित्यादि । निरः किम् । कोषिता । कोषितुम् । निरकुक्षदिति । इडभावे क्सः । सहिना साहचर्यादिति । यद्यपि षह षुह चक्यर्थ इति दिवादिरपि सहिरस्ति तथापि सहेति शपा निर्देशाद्भौवादिकेनैव सहिना साहचर्यमित्याहुः । *इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध । श्यन्प्रत्ययादिति । बहुव्रीहिरयम् । श्यन्प्रत्ययवत इषेस्तकारे परत इड्विकल्पप्रतिषेध इति वार्तिकार्थः । तथा च दैवादिकाद्विकल्पो नेति फलितम् । एवं चतीषसहे॑त्यत्र इष्णातेरपि ग्रहणमिति बोध्यम् । पोषितेति । अनिट्केषु पुष्येति श्यना निर्देशादयं सेडिति भावः । Padamanjari ----------- निष्कोष्टोति । इदुदुपधस्य चाप्रत्ययस्य इति षत्वम् । निस इति वक्तव्य इति । प्रदिषु हि निसिति पठ।ल्ते, तथा च निसस्तपतौ तिति निर्देश इति भावः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तस्येति । ननु नच नित्य एव रुत्वे कृते लत्वं भविष्यति तत्राह - निसो हीति ॥ Prakriyasarvasvam ----------------- निष्कुषेरिड् वा स्यात् । निष्कोषिता निष्कोष्टा । सुरनुदुवामलिटीड् वेति कौमुदी । सुनोतेरनुजैश्वर्यार्थस्य सवतेश्च सविता सोता । रविता रोता । नविता नोता । 'दु गतौ', दविता दोता । चायृस्फायप्यायामिड् वेति सैवाह । 'चायृ पूजानिशामनयोः' । 'स्फायी ओ प्यायी वृद्धौ' । अनिट्त्वे तु 'लोपो व्योर्वलि' (६-१-६६) इति वलि परे यलोपः । चायिता चाता । स्फायिता स्फाता । प्यायिता प्याता । Sutra Prayogas -------------- * **निष्कोषितव्यान्निष्कोष्टुं** (भट्टिकाव्यम्): `निरः कुषः` इति विभाषेट् ।