72040: सिचि च परस्मैपदेषु ========================= **Padacheda:** सिचि | S | 7 | 1 | च | S | 0 | 0 | परस्मैपदेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The इट् is not lengthened after वॄ , वृञ् and after roots ending in long ॠ in the s-Aorist of the परस्मैपद । Vasu English Translation ------------------------ The इट् is not lengthened after वॄ , वृञ् and after roots ending in long ॠ in the s-Aorist of the परस्मैपद । As प्रावारिष्टाम्, प्रावारिषुः, अतारिष्टाम्, from तॄ प्लवनतरणयोः ॥ आस्तारिष्टाम्, आस्तारिषुः, from स्तृञ् आच्छादने; but प्रावरिष्ट, प्रावरीष्ट in the *Atmanepada*. Kashika ------- परस्मैपदपरे सिचि वृृत उत्तरस्येटो दीर्घो न भवति। प्रावारिष्टाम्, प्रावारिषुः। अतारिष्टाम्, अतारिषुः। आस्तारिष्टाम्, आस्तारिषुः। परस्मैपदेष्विति किम्? प्रावरिष्ट, प्रावरीष्ट॥ Siddhanta Kaumudi ----------------- अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ॥ अथाष्टावनुदात्तेतः ॥{$ {!970 गुप!} गोपने$} ।{$ {!971 तिज!} निशाने$} ।{$ {!972 मान!} पूजायाम्$} ।{$ {!973 बध!} बन्धने$} ॥ Laghu Siddhanta Kaumudi ----------------------- अत्र इटो न दीर्घः। अपारिष्टाम्। अपरीष्यत्, अपरिष्यत्॥ {$ {! 5 ओहाक् !} त्यागे $} (धातुपाठे (03.0009)) ॥ जहाति॥ Tattvabodhini ------------- **सिचि च परस्मैपदेषु** - सिचि च ।न लिङी॑त्यतो नेत्यनुवर्तनादाह — इटो दीर्घो नेति । Padamanjari ----------- अतारिष्टामिति । तृ प्लवनतरणयोः । अस्तारिष्टमिति । स्तञ् आच्छादने, ञिदुभयपदी ॥ Nyaas ----- `प्रावारिष्टाम्` इति। `तस्थस्थमिपां तान्तन्तामः` (3.4.101) इति तसस्ताम्, सामान्यविहित इट्? सिचि वृद्धिः। `प्रावारिषुः` इति। `सिजभ्यस्तविदिभ्यश्च` (3.4.109) इति झेर्जुस्। वृङ उदाहरणं नोपन्यस्तम; तस्य परस्मैपदासम्भवात्। `प्रावरिष्ट, प्रावरीष्ट` इति। **लिङ्सिचोरात्मनेपदेषु** (7.2.42) इतीट्॥ Prakriyasarvasvam ----------------- वृङ्‌वृञ्भ्यामृदन्ताच्च सिचि परस्मैपदेष्विटो दीर्घो न स्यात्१ । अपरिष्टाम् । कर्मणि अपारि । वा चिण्वदि । तदभावे,