71098: चतुरनडुहोरामुदात्तः

Padacheda: चतुर्-अनडुहोः | S | 6 | 2 |

आम् | S | 1 | 1 |

उदात्तः | S | 1 | 1 |

Sutrartha

चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सर्वनामस्थाने परे उदात्तः आम्-आगमः भवति ।

‘चतुर्’ इति रेफान्तशब्दः । ‘अनडुह्’ इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे ‘आम्’ आगमः भवति, स च उदात्तसंज्ञकः भवति । मित्वात् अयमागमः मिदचोऽन्त्यात्परः (1.1.47) इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणानि एतानि - 1) चतुर्-शब्दः नित्यबहुवचनान्तः अस्ति, अतः अस्य शब्दस्य केवलं ‘जस्’ इति सर्वनामस्थानसंज्ञकः प्रत्ययः भवति - चतुर् + जस् → चतु आम् र् + अस् [चतुरनडुहोरामुदात्तः (7.1.98) इति आम्-आगमः] → चतु आ र् + अस् [मकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा, तस्य लोपः (1.3.9) इति तस्य लोपः] → चत्वारस् [इको यणचि (6.1.77) इति यणादेशः] → चत्वारः [ससजुषोः रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गनिर्माणम् ।] 2) चतुर्-शब्दः यदि समस्तपदस्य अन्ते आगच्छति, तर्हि तस्य समस्तपदस्य अपि अयमागमः विधीयते । एतादृशस्य समस्तपदस्य रूपाणि तु सर्वासु विभक्तिषु दृश्यन्ते । यथा - ‘प्रियाः चत्वारः यस्य सः’ अस्मिन् अर्थे ‘प्रियचतुर्’ शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् - प्रियचतुर् + सुँ → प्रियचतु आम् र् + स् [चतुरनडुहोरामुदात्तः (7.1.98) इति आम्-आगमः] → प्रियचत्वार् स् [इको यणचि (6.1.77) इति यणादेशः] → प्रियचत्वार् [रात्सस्य (8.2.24) इति रेफात् परस्य सकारस्य लोपः] → प्रियचत्वाः [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] 3) प्रियचतुर् + औ / औट् → प्रियचतु आम् र् + औ / औट् [चतुरनडुहोरामुदात्तः (7.1.98) इति आम्-आगमः] → प्रियचत्वारौ [ [इको यणचि (6.1.77) इति यणादेशः] एवमेव प्रियचत्वारः, प्रियचत्वारम् - एते रूपे अपि सिद्ध्यतः । 4) अनडुह् (= वृषभः) अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे इयम् प्रक्रिया जायते - अनडुह् + सुँ → अनडु आम् ह् स् [चतुरनडुहोरामुदात्तः (7.1.98) इति आम्-आगमः] → अनडु आ न् ह् स् [सावनडुहः (7.1.82) इति नुम्-आगमः] → अनड्वान् ह् स् [इको यणचि (6.1.77) इत्यनेन यणादेशः] → → अनड्वान् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वान् [संयोगान्तस्य लोपः (8.2.23) इत्यनेन हकारस्य लोपः] 3) अनडुह् शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायामस्य सूत्रस्य प्रसक्तिः नास्ति, यतः अम् सम्बुद्धौ (7.1.99) इत्यनेन अपवादत्वेन अम्-आगमः विधीयते - अनडुह् + सुँ [सम्बुद्धिः] → अनडु अम् ह् + स् [चतुरनडुहोरामुदात्तः (7.1.98) इति आम्-आगमे प्राप्ते अपवादत्वेन अम् सम्बुद्धौ (7.1.99) इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।] → अनडु अ नुम् ह् + स् [सावनडुहः (7.1.82) इत्यनेन नुम्-आगमः] → अनड्वान् ह् स् [इको यणचि (6.1.77) इत्यनेन यणादेशः] → अनड्वान् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वन् [संयोगान्तस्य लोपः (8.2.23) इत्यनेन हकारस्य लोपः] 4) अनडुह् + औ / औट् [प्रथमा/द्वितीया-द्विवचनम्] → अनडु आम् ह् + औ / औट् [चतुरनडुहोरामुदात्तः (7.1.98) इति आम्-आगमः] → अनड्वाहौ [इको यणचि (6.1.77) इत्यनेन यणादेशः] एवमेव अनडुह्-शब्दस्य जस्-प्रत्यये परे ‘अनड्वाहः’ तथा अम्-प्रत्यये परे ‘अनड्वाहम्’ एते रूपे सिद्ध्यतः । ज्ञातव्यम् - आगमाः अनुदात्ताः भवन्ति इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे ‘उदात्तः’ इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।

Sutrartha (English)

The words चतुर् and अनडुह् get an उदात्तः आम्-आगम when followed by a सर्वनामस्थान.

Vasu English Summary

चतुर् and अनडुह् get the acutely accented (उदात्त) augment आ (आम्) after the उ in the strong cases.

Vasu English Translation

चतुर् and अनडुह् get the acutely accented (उदात्त) augment आ (आम्) after the उ in the strong cases. Thus चत्वा꣡रः, अनड्वा꣡न्, अनड्वा꣡हौ, अनड्वा꣡हः, अनड्वा꣡हम् ॥ The rule applies to compounds ending with चत्वार् and अनडुह्, as प्रियचत्वार्, प्रियचत्वारौ, प्रियचत्वारः, प्रियानड्वान्, प्रियानड्वाहौ, प्रियानड्वाहः ॥

Vart:- In the case of अनडुह् there is option in the feminine, as, अनडुही, or अनड्वाही ॥ This would be so, because it occurs in Gauradi class (4.1.41).

Bhashya

चतुरनडिहोरामुदात्तः ॥ आमनडुहः स्त्रियां वा ॥ आमनडुहः स्त्रियां वेति वक्तव्यम् । अनडुही । अनड्वाही ॥ ( चतुरनडुहोराम् ) ॥

Kashika

चतुर् अनडुह् इत्येतयोः सर्वनामस्थाने परत आमागमो भवति, स चोदात्तः। चत्वारः। अनड्वान्, अनड्वाहौ, अनड्वाहः। अनड्वाहम्। तदन्तविधिरत्रेष्यते। प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः। प्रियानड्वान्, प्रियानड्वाहौ, प्रियानड्वाहः॥ अनडुहः स्त्रियां वेति वक्तव्यम्॥ अनडुही, अनड्वाही। गौरादिपाठात् सिद्धम्॥

Siddhanta Kaumudi

अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥

Laghu Siddhanta Kaumudi

अनयोराम् स्यात्सर्वनामस्थाने परे॥

Balamanorama

चतुरनडुहोरामुदात्तः - अनडुह् स् इति स्थिते । चतुरनडुहोः । अनयोरिति । चतुरनडुहोरित्यर्थः । सर्वनामस्थान इति ।इतोऽत्सर्वनामस्थाने॑ इत्यतः स् इति स्थिते- ।

Tattvabodhini

चतुरनडुहोरामुदात्तः - चतुरडुहोः ।इतोत्सर्वनामस्थाने॑इत्यतोऽनुवर्तनादाह — सर्वनामस्थान इति ।सावनडुहः ।आच्छीनद्यो॑रित्यतो नुममनुवर्त्त्याह -नुम्स्यादिति । विशेषविहितेन यासुटा सामान्यविहितः सीयुडिव नुमा आम्बाध्यतामित्याशङ्कां निराकरोति -अवर्णात्परोऽयमित्यादिना । उपजीव्योपजीकयोर्विरोधाऽभावेन बाध्यबाधकभावो नेति भाव ।

Padamanjari

अत्र सर्वनामस्थाने इति स्वर्यते, न तृतीयादिष्विति । आगमानुदातत्यवबाधनार्थमुदातवचनम् । तदान्तविधिरत्रेष्यत थैति । अङ्घाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । प्रयचत्वा इति । बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानमिति चतुरशब्दस्य पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥

Nyaas

सर्वनामस्थाने (7.1.86) इति स्वर्यते, न तृतीयादिषु (7.1.97) इति। आगमा अनुदात्ता भवन्ति (व्या।प।105) इत्यनुदात्तत्वे प्राप्ते, उदात्तत्वार्थं वचनम्। तदन्तविधिरत्रेष्यते इति। अङ्गाधिकारे तस्य तदुत्तरपदस्य (पु।प।वृ।85) इति वचनात्। प्रियचत्वाः इति। बहुव्रीहिः। सर्वनामसंख्ययोरुपसंख्यानम् (वा।113) इति संख्यायाः पूर्वनिपाते प्राप्ते वा प्रियस्य (वा।114) इति प्रियशब्दस्य पूर्वनिपातः॥

Prakriyasarvasvam

मधुलिह् स् । हल्ङ्यादिना सुलोपः । ‘हो ढः’ (८-२-३१) इति ढः । जश्त्वं, वा चत्वं च सर्वहलन्तेषूह्यम् । मधुलिट्, मधुलिड् । अवसाने यरो द्वित्वं वा वाच्यमित्यनयोर्द्वित्वमप्यूह्यम् । मधुलिहौ । मधुलिहः । हे मधुलिट् । मधुलिह्- मित्याद्यजादावविकारः । मधुलिड्भ्यामित्यादौ पदत्वाढ्ढत्वजश्त्वे । मधुलिट्सु इत्यत्र ‘खरिच’ (८-४-५) इति चर्वम् । गोदुह् स् । सुलोपे ‘दादेर्धातोर्घः’ (८-२-३२) ‘एकाचो बशः—’ (८-२-३७) इति भष्त्वम् । जश्त्वचत्वे । गोधुक् । गोदुहौ । जश्त्वावधि कृते गोदुग्भ्याम् । चर्वपक्षे गोधुक्षु । ‘वा द्रुह—’ (८-२-३३) इति वा घः । जश्त्वं वा चर्वम् । कंसध्रुक्, कंसध्रुग्, कसध्रुट्, कंसध्रुड्, कंसद्रुहौ । कंसध्रुग्भ्याम् । कंसध्रुड्भ्यां । कंसध्रुक्षु । कंसध्रुट्सु । एवं प्रमुक् प्रमुगित्यादि । विश्ववाट् । विश्ववाहौ । शसादौ भत्वे ‘वाह ऊठ्’ (६-४-१३१) विश्वऊह् अस् । ‘एत्येधाते—’ (६-१-८९) इति वृद्धिः । विश्वौहः । विश्वौहा । विश्ववाड्भ्यामित्यादि । भूवादित्यस्य भत्व ऊठि सवर्णदीर्घः । अवर्णाभावान्न वृद्धिः । भूहः । भूह्वा । भूवाड्भ्यामित्यादि । अनडुह् स्— अनयोः सर्वनामस्थाने परे उदात्त आम् स्यात् । मित्त्वादन्त्यात् पूर्वम् । अनड्वाह् स् ।

Sudha

चतुरनडुहो: । **इतोऽत् सर्वनामस्थाने**(7.1.86) इत्यतः सर्वनामस्थाने इत्यनुवर्तते तदाह - सर्वनामस्थान इति ।