71098: चतुरनडुहोरामुदात्तः ========================== **Padacheda:** चतुर्-अनडुहोः | S | 6 | 2 | आम् | S | 1 | 1 | उदात्तः | S | 1 | 1 | Sutrartha --------- **चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सर्वनामस्थाने परे उदात्तः आम्-आगमः भवति ।** 'चतुर्' इति रेफान्तशब्दः । 'अनडुह्' इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे 'आम्' आगमः भवति, स च उदात्तसंज्ञकः भवति । मित्वात् अयमागमः **मिदचोऽन्त्यात्परः** (1.1.47) इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणानि एतानि - 1) चतुर्-शब्दः नित्यबहुवचनान्तः अस्ति, अतः अस्य शब्दस्य केवलं 'जस्' इति सर्वनामस्थानसंज्ञकः प्रत्ययः भवति - चतुर् + जस् → चतु आम् र् + अस् [**चतुरनडुहोरामुदात्तः** (7.1.98) इति आम्-आगमः] → चतु आ र् + अस् [मकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति तस्य लोपः] → चत्वारस् [**इको यणचि** (6.1.77) इति यणादेशः] → चत्वारः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गनिर्माणम् ।] 2) चतुर्-शब्दः यदि समस्तपदस्य अन्ते आगच्छति, तर्हि तस्य समस्तपदस्य अपि अयमागमः विधीयते । एतादृशस्य समस्तपदस्य रूपाणि तु सर्वासु विभक्तिषु दृश्यन्ते । यथा - 'प्रियाः चत्वारः यस्य सः' अस्मिन् अर्थे 'प्रियचतुर्' शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् - प्रियचतुर् + सुँ → प्रियचतु आम् र् + स् [**चतुरनडुहोरामुदात्तः** (7.1.98) इति आम्-आगमः] → प्रियचत्वार् स् [**इको यणचि** (6.1.77) इति यणादेशः] → प्रियचत्वार् [**रात्सस्य** (8.2.24) इति रेफात् परस्य सकारस्य लोपः] → प्रियचत्वाः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] 3) प्रियचतुर् + औ / औट् → प्रियचतु आम् र् + औ / औट् [**चतुरनडुहोरामुदात्तः** (7.1.98) इति आम्-आगमः] → प्रियचत्वारौ [ [**इको यणचि** (6.1.77) इति यणादेशः] एवमेव प्रियचत्वारः, प्रियचत्वारम् - एते रूपे अपि सिद्ध्यतः । 4) अनडुह् (= वृषभः) अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे इयम् प्रक्रिया जायते - अनडुह् + सुँ → अनडु आम् ह् स् [**चतुरनडुहोरामुदात्तः** (7.1.98) इति आम्-आगमः] → अनडु आ न् ह् स् [**सावनडुहः** (7.1.82) इति नुम्-आगमः] → अनड्वान् ह् स् [**इको यणचि** (6.1.77) इत्यनेन यणादेशः] → → अनड्वान् ह् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वान् [**संयोगान्तस्य लोपः** (8.2.23) इत्यनेन हकारस्य लोपः] 3) अनडुह् शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायामस्य सूत्रस्य प्रसक्तिः नास्ति, यतः **अम् सम्बुद्धौ** (7.1.99) इत्यनेन अपवादत्वेन अम्-आगमः विधीयते - अनडुह् + सुँ [सम्बुद्धिः] → अनडु अम् ह् + स् [**चतुरनडुहोरामुदात्तः** (7.1.98) इति आम्-आगमे प्राप्ते अपवादत्वेन **अम् सम्बुद्धौ** (7.1.99) इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।] → अनडु अ नुम् ह् + स् [**सावनडुहः** (7.1.82) इत्यनेन नुम्-आगमः] → अनड्वान् ह् स् [**इको यणचि** (6.1.77) इत्यनेन यणादेशः] → अनड्वान् ह् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वन् [**संयोगान्तस्य लोपः** (8.2.23) इत्यनेन हकारस्य लोपः] 4) अनडुह् + औ / औट् [प्रथमा/द्वितीया-द्विवचनम्] → अनडु आम् ह् + औ / औट् [**चतुरनडुहोरामुदात्तः** (7.1.98) इति आम्-आगमः] → अनड्वाहौ [**इको यणचि** (6.1.77) इत्यनेन यणादेशः] एवमेव अनडुह्-शब्दस्य जस्-प्रत्यये परे 'अनड्वाहः' तथा अम्-प्रत्यये परे 'अनड्वाहम्' एते रूपे सिद्ध्यतः । ज्ञातव्यम् - **आगमाः अनुदात्ताः भवन्ति** इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः । Sutrartha (English) ------------------- The words चतुर् and अनडुह् get an उदात्तः आम्-आगम when followed by a सर्वनामस्थान. Vasu English Summary -------------------- चतुर् and अनडुह् get the acutely accented (उदात्त) augment आ (आम्) after the उ in the strong cases. Vasu English Translation ------------------------ चतुर् and अनडुह् get the acutely accented (उदात्त) augment आ (आम्) after the उ in the strong cases. Thus चत्वा꣡रः, अनड्वा꣡न्, अनड्वा꣡हौ, अनड्वा꣡हः, अनड्वा꣡हम् ॥ The rule applies to compounds ending with चत्वार् and अनडुह्, as प्रियचत्वार्, प्रियचत्वारौ, प्रियचत्वारः, प्रियानड्वान्, प्रियानड्वाहौ, प्रियानड्वाहः ॥ Vart:- In the case of अनडुह् there is option in the feminine, as, अनडुही, or अनड्वाही ॥ This would be so, because it occurs in *Gauradi* class (4.1.41). Bhashya ------- चतुरनडिहोरामुदात्तः ॥ आमनडुहः स्त्रियां वा ॥ आमनडुहः स्त्रियां वेति वक्तव्यम् । अनडुही । अनड्वाही ॥ ( चतुरनडुहोराम् ) ॥ Kashika ------- चतुर् अनडुह् इत्येतयोः सर्वनामस्थाने परत आमागमो भवति, स चोदात्तः। चत्वारः। अनड्वान्, अनड्वाहौ, अनड्वाहः। अनड्वाहम्। तदन्तविधिरत्रेष्यते। प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः। प्रियानड्वान्, प्रियानड्वाहौ, प्रियानड्वाहः॥ अनडुहः स्त्रियां वेति वक्तव्यम्॥ अनडुही, अनड्वाही। गौरादिपाठात् सिद्धम्॥ Siddhanta Kaumudi ----------------- अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥ Laghu Siddhanta Kaumudi ----------------------- अनयोराम् स्यात्सर्वनामस्थाने परे॥ Balamanorama ------------ **चतुरनडुहोरामुदात्तः** - अनडुह् स् इति स्थिते । चतुरनडुहोः । अनयोरिति । चतुरनडुहोरित्यर्थः । सर्वनामस्थान इति ।इतोऽत्सर्वनामस्थाने॑ इत्यतः स् इति स्थिते- । Tattvabodhini ------------- **चतुरनडुहोरामुदात्तः** - चतुरडुहोः ।इतोत्सर्वनामस्थाने॑इत्यतोऽनुवर्तनादाह — सर्वनामस्थान इति ।सावनडुहः ।आच्छीनद्यो॑रित्यतो नुममनुवर्त्त्याह -नुम्स्यादिति । विशेषविहितेन यासुटा सामान्यविहितः सीयुडिव नुमा आम्बाध्यतामित्याशङ्कां निराकरोति -अवर्णात्परोऽयमित्यादिना । उपजीव्योपजीकयोर्विरोधाऽभावेन बाध्यबाधकभावो नेति भाव । Padamanjari ----------- अत्र सर्वनामस्थाने इति स्वर्यते, न तृतीयादिष्विति । आगमानुदातत्यवबाधनार्थमुदातवचनम् । तदान्तविधिरत्रेष्यत थैति । अङ्घाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । प्रयचत्वा इति । बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानमिति चतुरशब्दस्य पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥ Nyaas ----- `सर्वनामस्थाने` (7.1.86) इति स्वर्यते, न `तृतीयादिषु` (7.1.97) इति। `आगमा अनुदात्ता भवन्ति` (व्या।प।105) इत्यनुदात्तत्वे प्राप्ते, उदात्तत्वार्थं वचनम्। `तदन्तविधिरत्रेष्यते` इति। `अङ्गाधिकारे तस्य तदुत्तरपदस्य` (पु।प।वृ।85) इति वचनात्। `प्रियचत्वाः` इति। बहुव्रीहिः। `सर्वनामसंख्ययोरुपसंख्यानम्` (वा।113) इति संख्यायाः पूर्वनिपाते प्राप्ते `वा प्रियस्य` (वा।114) इति प्रियशब्दस्य पूर्वनिपातः॥ Prakriyasarvasvam ----------------- मधुलिह् स् । हल्ङ्यादिना सुलोपः । 'हो ढः' (८-२-३१) इति ढः । जश्त्वं, वा चत्वं च सर्वहलन्तेषूह्यम् । मधुलिट्, मधुलिड् । अवसाने यरो द्वित्वं वा वाच्यमित्यनयोर्द्वित्वमप्यूह्यम् । मधुलिहौ । मधुलिहः । हे मधुलिट् । मधुलिह्- मित्याद्यजादावविकारः । मधुलिड्भ्यामित्यादौ पदत्वाढ्ढत्वजश्त्वे । मधुलिट्सु इत्यत्र 'खरिच' (८-४-५) इति चर्वम् । गोदुह् स् । सुलोपे 'दादेर्धातोर्घः' (८-२-३२) 'एकाचो बशः—' (८-२-३७) इति भष्त्वम् । जश्त्वचत्वे । गोधुक् । गोदुहौ । जश्त्वावधि कृते गोदुग्भ्याम् । चर्वपक्षे गोधुक्षु । 'वा द्रुह—' (८-२-३३) इति वा घः । जश्त्वं वा चर्वम् । कंसध्रुक्, कंसध्रुग्, कसध्रुट्, कंसध्रुड्, कंसद्रुहौ । कंसध्रुग्भ्याम् । कंसध्रुड्भ्यां । कंसध्रुक्षु । कंसध्रुट्सु । एवं प्रमुक् प्रमुगित्यादि । विश्ववाट् । विश्ववाहौ । शसादौ भत्वे 'वाह ऊठ्' (६-४-१३१) विश्वऊह् अस् । 'एत्येधाते—' (६-१-८९) इति वृद्धिः । विश्वौहः । विश्वौहा । विश्ववाड्भ्यामित्यादि । भूवादित्यस्य भत्व ऊठि सवर्णदीर्घः । अवर्णाभावान्न वृद्धिः । भूहः । भूह्वा । भूवाड्भ्यामित्यादि । अनडुह् स्— अनयोः सर्वनामस्थाने परे उदात्त आम् स्यात् । मित्त्वादन्त्यात् पूर्वम् । अनड्वाह् स् । Sudha ----- चतुरनडुहो: । **इतोऽत् सर्वनामस्थाने**(7.1.86) इत्यतः सर्वनामस्थाने इत्यनुवर्तते तदाह - सर्वनामस्थान इति ।