71099: अम् सम्बुद्धौ

Padacheda: अम् | S | 1 | 1 |

सम्बुद्धौ | S | 7 | 1 |

Sutrartha

चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अम्-आगमः भवति ।

‘चतुर्’ इति रेफान्तशब्दः । ‘अनडुह्’ इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे चतुरनडुहोरामुदात्तः (7.1.98) इत्यनेन उदात्तसंज्ञकः ‘आम्’ आगमः भवति । सम्बोधनैकवचनस्य सुँ-प्रत्यये परे तं बाधित्वा वर्तमानसूत्रेण अम्-आगमः विधीयते । यत्र चतुर्-शब्दः समस्तपदस्य अन्ते अस्ति, तत्रापि अनेन सूत्रेण अम्-आगमः भवति । मित्वात् अयमागमः मिदचोऽन्त्यात्परः (1.1.47) इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणे एते - 1. ‘प्रियाः चत्वारः यस्य सः’ अस्मिन् अर्थे ‘प्रियचतुर्’ शब्दः सिद्ध्यति । अस्य सम्बोधनैकवचनस्य प्रक्रियायाम् - प्रियचतुर् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → प्रियचतु अम् र् + सुँ [चतुरनडुहोरामुदात्तः (7.1.98) इत्यनेन उदात्तसंज्ञकः ‘आम्’ आगमे प्राप्ते, अपवादत्वेन अम् सम्बुद्धौ (7.1.99) इति अम्-आगमः] → प्रियचत्व र् स् [इको यणचि (6.1.77) इति यणादेशः] → प्रियचत्वर् [रात्सस्य (8.2.24) इति सकारलोपः] → प्रियचत्वः [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] 2. अनडुह् + सुँ [सम्बुद्धिः] → अनडु अम् ह् + स् [चतुरनडुहोरामुदात्तः (7.1.98) इति आम्-आगमे प्राप्ते अपवादत्वेन अम् सम्बुद्धौ (7.1.99) इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।] → अनडु अ नुम् ह् + स् [सावनडुहः (7.1.82) इत्यनेन नुम्-आगमः] → अनड्वन् ह् स् [इको यणचि (6.1.77) इत्यनेन यणादेशः] → अनड्वन् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वन् [संयोगान्तस्य लोपः (8.2.23) इत्यनेन हकारस्य लोपः]

Sutrartha (English)

The words चतुर् and अनडुह् get an अमागम when followed by सुँ प्रत्यय of सम्बोधन-एकवचन.

Vasu English Summary

चतुर् and अनडुह् get the augment अ after the उ in the Vocative Case singular.

Vasu English Translation

चतुर् and अनडुह् get the augment अ after the उ in the Vocative Case singular. This debars the previous rule, as हे प्रियचत्वः (a Bahuvrihi), हे प्रियनड्वन् ॥

Kashika

संबुद्धौ परतश्चतुरनडुहोरमागमो भवति। पूर्वस्यायमपवादः। हे प्रियचत्वः। हे प्रियानड्वन्॥

Siddhanta Kaumudi

चतुरनडुहोरम् स्यात्संबुद्धौ । आमोऽपवादः । हे अनड्वन् । अनड्वाहौ । अनड्वाहः । अनडुहा ॥

Laghu Siddhanta Kaumudi

हे अनड्वन्। हे अनड्वाहौ। हे अनड्वाहः। अनडुहः। अनडुहा॥

Balamanorama

अम् सम्बुद्धौ - ननु अनड्वान् ह् सित्यत्र सुलोपे संयोगान्तलोपे च कृते नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपः किं न स्यात् । नच नुम्विधिसामर्थ्यान्नात्र नलोप इति वाच्यं, नलोपाऽभावस्थले संबुद्धौहे अनड्व॑नित्यत्र नुग्विधेश्चारितार्थत्वात् । तत्र न ङसंबुद्ध्यो॑रिति नलोपप्रतिषेधादित्यत आह-समयोगान्तेति । हकारलोपस्याऽसिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाऽभावात्पदान्तत्वाऽभावाच्च नलोपो नेत्यर्थः । अनड्वानिति । अनुडुह् सिति स्थिते, आम् यण्, नुम्, सुलोपः, संयोगान्तलोपश्च । अथ संबुद्धौ हे अनडुह् सिति स्थिते चतुरनडुहोरित्यामागमे प्राप्ते — अम्संबुद्धौ । ‘चतुरनडुहोः’ इत्यनुवर्तते । तदाह — चतुरनडुहोरिति । अमो मकार इत् । मित्त्वादन्त्यादचः परः । हे अनड्विन्निति । अम्, यण्, नुम्, सुलोपः, संयोगान्तलोपश्च । अनड्वाहाविति । सर्वनामस्थानत्वादाम् । नुम् तु न, तस्य सावेव विधानात् । अनडुह इति । शसादावचि अविकृत एवानडुहशब्द इति भावः ।

Tattvabodhini

अम् सम्बुद्धौ - अमा चेति ।विशेषबिहितेनाऽपी॑त्यनुषज्यते ।आमा च नुम्न बाध्यते॑इति केचित्पठन्ति । तस्याययर्थः — ॒बह्वनङ्वांही॑त्यत्र परत्वादामि कृते पुनःप्रसङ्गविज्ञानात्नपुंसकस्य झलचः॑इति नुम्भवत्येव, न तु बाध्यत इथ । नुमो दत्वमाशङ्क्याह — नुम्विधिसामर्थ्यादित्यादि । विधानसामर्थ्यात्सर्वत्राऽविकृतेन नुमा भवितव्यमिति भावः । नन्वेवमनङ्वास्तत्रेत्यत्रनश्छवू॑ति रुत्वमपि न स्यादिति चेदत्राहुर्भाश्यकाराः -॒यं विधिं प्रतुयपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते॑इति । भवति हि दत्वं प्रति नुमो विधिरनर्थकः, रुत्वं प्रति तु निमित्तमेवेति । अनङ्वानिति । अनः शकटं वहतीति विग्रहे अनसि वहेः क्विप् । अनसो डश्च । यजादित्वात्संप्रसारणम् । अनडुह् -स् इति स्थिते आम्रुम्सुलोपेषु कृतेषु संयोगान्तलोपेन हकारलोपः ।

Padamanjari

चतुःशब्दस्य केवलस्य सम्बुद्ध्यभावादुपसमस्तस्योदाहरणम् । अनडुहस्तु प्रक्रमाभेदाय, तदन्तविधिरत्रेष्यते इति प्रदर्शनाय च तदन्तस्योदाहरणम् ॥

Nyaas

पूर्वेणामि प्राप्ते वचनम्। हे प्रियचत्वः। हे प्रियानढवन् इति। अत्र चतुःशब्दस्य केवलस्य सम्बुद्धिर्न भवतीति दतन्तस्योदाहरणम्। अनजुहस्तु यद्यपि केवलस्य सम्भवति, तथापि तदन्तविधिरत्रेष्यत इति तदन्तस्योदाहरणम्॥

Prakriyasarvasvam

चतुरनडुहोः सम्बुद्धावम् स्यात् । प्राग्वन्नुमादि । हे अनड्वन् । अनड्वाहम् । अनड्वाहौ । अनडुहः । अनडुहा ।

Sudha

अम्सम्बुद्धाविति । **चतुरनडुहोरामुदात्तः**(7.1.98) इत्यनुवर्तते इति भावः । हे अनड्वान् । ‘हे अनडुह् + सु’ अत्र **अम् सम्बुद्धौ**(7.1.99) इत्यमि मित्त्वादन्त्यादचः परे कृते मस्येत्संज्ञायां लोपे च **सावनडुहः**(7.1.82) इति नुमि मित्त्वादन्त्यादचः परे जाते उमि गते सोरुकारे गते सस्य हल्ङ्यादिना लोपे हस्य **संयोगान्तस्य लोपः**(8.2.23) इति लोपे डकारोत्तरवर्तिन उकारस्य यणि कृते ‘अनड्वन्’ इति रूपम् । अनड्वाहौ, अनड्वाहः । अनड्ह् + औ इत्यत्र **चतुरनडुहोरामुदात्तः**(7.1.98) इत्यामि मलोपे मित्त्वादन्त्यादचः परे **इको यणचि**(6.1.77) इति यणि संयोगे च कृते ‘अनड्वाहौ’ इति रूपम् । एवम् जसि परे आमि कृते अनड्वाहः । अनड्वाहम्, अनड्वाहौ । ‘अनहुह् + शस्, शकारस्येत्संज्ञायां लोपे च कृते सस्य रुत्वे विसर्ग च कृते ‘अनडुहः’ इति ।