71097: विभाषा तृतीयादिष्वचि¶
Padacheda: विभाषा | S | 1 | 1 |
तृतीयादिषु | S | 7 | 3 |
अचि | S | 7 | 1 |
Sutrartha¶
तृतीयाविभक्तितः अग्रे अजादिषु प्रत्ययेषु परेषु क्रोष्टु-शब्दः विकल्पेन तृज्वत् भवति ।
‘क्रोष्टु’ इति उकारान्तपुँल्लिगः शब्दः । अयं शब्दः तृतीया-विभक्तितः अग्रे अजादि-प्रत्ययेषु परेषु विकल्पेन ‘तृच्-वत्’ भवति । इत्युक्ते, अस्य शब्दस्य विकल्पेन ‘क्रोष्टृ’ इति शब्दवत् रूपाणि भवन्ति । तृज्वत्-भावस्य अभावे तु अस्य रुपाणि मुनि-शब्दवत् एव भवन्ति । यथा - क्रोष्टु + टा [तृतीयैकवचनस्य प्रत्ययः] → क्रोष्टृ + आ [विभाषा तृतीयाऽऽदिष्वचि (7.1.97) इति वैकल्पिकः तृज्वत्-भावः] → क्रोष्ट्रा [इको यणचि (6.1.77) इति यणादेशः] तृज्वत्-भावस्य अभावे - क्रोष्टु + टा [तृतीयैकवचनस्य प्रत्ययः] → क्रोष्टु + ना [आङो नाऽस्त्रियाम् (7.3.120) इति टा-प्रत्ययस्य ‘ना’-आदेशः] → क्रोष्टुना एवमेव ङे / ङसिँ / ङस् / ओस् / ङि प्रत्ययेषु परेषु अपि रूपद्वयम् जायते । षष्ठी-बहुवचनस्य आम्-प्रत्यये परे विभाषा तृतीयाऽऽदिष्वचि (7.1.97) इति वैकल्पिकः तृज्वत्-भावे प्राप्ते <!नुमचिर्तृज्वद्भावेभ्यो नुट् विप्रतिषेधेन!> इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन एतत् उच्यते, यत् तृज्वत्-भावः तथा नुडागमः - उभयोः प्रसक्तिः अस्ति चेत् नुडागमस्यैव प्रयोगः भवति, तृज्वद्भावस्य न । अतः ‘क्रोष्टु + आम्’ इत्यत्र विभाषा तृतीयाऽऽदिष्वचि (7.1.97) इत्यनेन तृज्वद्भावे प्राप्ते, तथा ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नुडागमे अपि प्राप्ते <!नुमचिर्तृज्वद्भावेभ्यो नुट् विप्रतिषेधेन!> अनेन वार्त्तिकेन केवलं नुडागमः एव जायते, तृज्वद्भावः न । अतः ‘क्रोष्टूनाम्’ इत्येव रूपं सिद्ध्यति ।
Sutrartha (English)¶
The word क्रोष्टु optionally behaves like a तृच्-प्रत्ययान्त word when followed by an अजादि विभक्ति of तृतीया onwards.
Vasu English Summary¶
क्रोष्टु ‘a jackal’ may be treated as क्रोष्टृ before the endings beginning with a vowel, in the Instrumental -3rd case and the cases that follow it.
Vasu English Translation¶
क्रोष्टु ‘a jackal’ may be treated as क्रोष्टृ before the endings beginning with a vowel, in the Instrumental -3rd case and the cases that follow it. As क्रोष्ट्रा꣡ or क्रोष्टुना, क्रोष्ट्रे꣡ or क्रोष्टवे, क्रोष्टुः꣡ or क्रोष्टोः, क्रोष्ट꣡रि or क्रोष्टौ, क्रोष्ट्रोः꣡ or क्रोष्ट्वोः ॥ But क्रोष्टून् in the Accusative Plural, and क्रोष्टुभ्यां before consonant-beginning affixes.
Vart:- नुम् and नुट् augments come in supersession of the Trich-vad-bhava ordained by the preceding sutras. Thus the Dative of the Neuter noun प्रियक्रोष्टु will be प्रियक्रोष्टुनेऽरण्याय, हितक्रोष्टुने वृषलकुलाय, and not क्रोष्ट्रे ॥ Similarly with नुट्, as क्रोष्टूनाम् ॥
Kashika¶
तृतीयादिषु विभक्तिष्वजादिषु क्रोष्टुर्विभाषा तृज्वद् भवति। क्रोष्ट्रा, क्रोष्टुना। क्रोष्ट्रे, क्रोष्टवे। क्रोष्टुः, क्रोष्टोः। क्रोष्टरि, क्रोष्टौ । क्रोष्ट्रोः, क्रोष्ट्वोः। तृतीयादिष्विति किम्? क्रोष्टून्। अचीति किम्? क्रोष्टुभ्याम्। क्रोष्टुभिः॥ तृज्वद्भावात् पूर्वविप्रतिषेधेन नुम्नुटौ भवतः॥ प्रियक्रोष्टुनेऽरण्याय। हतक्रोष्टुने वृषलकुलाय। नुट् — क्रोष्टूनाम्॥
Siddhanta Kaumudi¶
अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥
Laghu Siddhanta Kaumudi¶
अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥
Balamanorama¶
विभाषा तृतीयाऽऽदिष्वचि - विभाषा तृतीया ।तृज्वत्क्रोष्टु॑रित्यनुवर्तते ।अची॑ति तृतीयादिविभक्तिविशेषणं, तदादिविधिस्तदाह — अजादिष्विति । क्रोष्ट्रेति । तृज्वद्भावे क्रोष्टृ-आ इति स्थिते ऋकारस्य यण् रेफः । एवं क्रोष्ट्रे इति । तृज्वद्भावाऽभावपक्षे-क्रोष्टुना क्रोष्टवे-शम्भुवत् ।
Tattvabodhini¶
विभाषा तृतीयाऽऽदिष्वचि - विभाषा तृ ।यस्मिन्विधिस्तदादौ॑इति तदादिविधिरित्याह — अजादिष्विति ।
Padamanjari¶
अप्राप्तविभाषेयम् । स्त्रियाम् इति नानुवर्तते, पञ्चक्रोष्ट्रेत्यादावन्तरङ्गत्वात्पूर्वेण नित्यस्तृज्वद्भाव इत्यवोचाम, तेनोभयत्र विभाषापि न भवति । पूर्वविप्रतिषेधेनेति । तृज्वद्भावस्यावकाशः क्रोष्ट्रे, पुंसे नुम्नुटोरवकाशः - त्रपुणे, जतुने, अग्नीनाम्, वायूनाम, प्रियक्रोष्टुअन इत्यादावुभयप्रसङ्गे पूर्वविप्रतिषेधः । अथ किमर्थ तृज्वद्भावो विधीयते, यावता क्रुशेरेव तृचि क्रोष्ट्रेत्यादि सिद्ध्यति तुन्नन्तस्यासम्बुद्धौ सर्वनामस्थाने स्ज्ञियां च प्रयोगो मा भूत्, तृजन्तस्यैव यथा स्यात् । विभाषा तृतीयादिष्वचि इत्येततर्हि किमर्थम्, तृजन्तस्यैव क्रोष्ट्रेत्यादि सिद्धम्, तुन्नन्तस्य क्रोष्टुअनेत्यादि यथैव तर्ह्यजादावुभयं भवति तथा हलादावपि स्यात्, एवं शस्यपि तुन्नन्तस्यैव च तत्र प्रयोग इष्यते, तेनैतदपि नियमार्थम् - तृतीयादावेवोभयम्, तत्राप्यजादावेवेति । यस्तु मन्यते - अभिधानस्वभावादेव तुंस्तृचोर्व्यवस्थितविषयः प्रयोग इति, तं प्रति सूत्रत्रयमपि शक्यमकर्तुम् ॥
Nyaas¶
स्त्रियाम् (4.1.3) इति नानुवर्तते, तेनेयमप्राप्तविभाषा। क्रोष्टुना इति। आङो नाऽस्त्रियाम् (7.3.120) इति नाभावः। क्रोष्टवे इति। घेर्ङिति (7.3.111) इति गुणः। क्रोष्टुः इति। ऋत उत् (6.1.107) इत्युत्त्वम्, रपरत्वम्, रात्? सस्य (8.2.24) इति सलोपः। क्रोष्टोः इति। पूर्ववद्गुणः, ङसिङसोश्च (6.1.110) इति पूर्वरूपत्वम्? क्रोष्टरि इति। **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इति गुणः। `क्रीष्टौ इति। अच्च घेः (7.3.119) इत्यत्त्वम्, औत्त्वञ्च। तृज्वद्भावात् इत्यादि। तृज्वद्भावस्यावकाशः - पुंसि क्रोष्ट्रो इति, नुमोऽवकाशः - त्रपुणे, जतुन इति; प्रियक्रोष्टुने वनायेत्यत्रोभयप्रसङ्गे सति नुम्भवति पूर्वविप्रतिषेधेनेति। नुटोऽवकाशः - अग्नीनाम्, वायूनामिति, तृज्वद्भावस्यावकाशः स एव; क्रोष्ट्रनामित्यत्रोभयप्रसङ्गे सति नुङ्? भवति पूर्वविप्रतिषेधेनेति। पूर्वविप्रतिषेधस्तु परशब्दस्येष्टवाचित्वा ल्लभ्यते॥
Prakriyasarvasvam¶
तृतीयादिष्वजादिविभक्तिषु क्रोष्टुर्वा तृज्वत् स्यात् । तृज्वत्त्वे यण् । क्रोष्ट्रा । क्रोष्टुना । क्रोष्ट्रे । क्रोष्टवे । ङसिङसोस्तृज्वत्त्वे क्रोष्टु अस्—
Sarala¶
विभाषा - अव्ययपदं, तृतीयादिषु - सप्तम्यन्तम् । अचि - सप्तम्यन्तम् ॥
Sudha¶
विभाषा तृतीयादिष्विति । तृज्वत् क्रोष्टुः**(7.1.95) इत्यनुवर्तते । अचीति तृतीयादिविभक्तेर्विशेषणम् । तदादिविधिस्तदाह - **अजादिष्वित्यादिना । क्रोष्ट्रा । ‘क्रोष्टु + टा’ इत्यत्र चुटू**(1.3.7) इति टस्येत्सञ्ज्ञायां लोपे च **विभाषा तृतीयादिष्वचि**(7.1.97) इति तृज्वद्भावे **इको यणचि**(6.1.77) इति यणि विहिते “क्रोष्ट्रा” इति रूपम् । **क्रोष्टुना । तृज्वद्भावाभावे ‘क्रोष्टु + टा’ इत्यत्र शेषो घ्यसखि**(1.4.7) इति घिसञ्ज्ञायाम् **आङो नाऽस्त्रियाम्**(7.3.120) इति टाइत्यस्य स्थाने नादेशे कृते “क्रोष्टुना” इति रूपम् । **क्रोष्ट्रे | क्रोष्टुशब्दाच्चतुर्थ्येकवचनविवक्षायां ङेसमागते ‘क्रोष्टु + ङे’ इति स्थिते, ङकारस्येत्सञ्ज्ञायां लोपे च ‘क्रोष्टृ + ए’ इति जाते **विभाषा तृतीयादिष्वचि**(7.1.97) इति तृज्वद्भावे **इको यणचि**(6.1.77) इति यणि “क्रोष्ट्रे” इति रूपम् । पक्षे घिसञ्ज्ञायां **घेर्ङिति**(7.3.111) इति गुणे विहिते **एचोऽयवायावः**(6.1.78) इत्यवादेशे “क्रोष्टवे” इति रूपम् ।