71097: विभाषा तृतीयादिष्वचि =========================== **Padacheda:** विभाषा | S | 1 | 1 | तृतीयादिषु | S | 7 | 3 | अचि | S | 7 | 1 | Sutrartha --------- **तृतीयाविभक्तितः अग्रे अजादिषु प्रत्ययेषु परेषु क्रोष्टु-शब्दः विकल्पेन तृज्वत् भवति ।** 'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । अयं शब्दः तृतीया-विभक्तितः अग्रे अजादि-प्रत्ययेषु परेषु विकल्पेन 'तृच्-वत्' भवति । इत्युक्ते, अस्य शब्दस्य विकल्पेन 'क्रोष्टृ' इति शब्दवत् रूपाणि भवन्ति । तृज्वत्-भावस्य अभावे तु अस्य रुपाणि मुनि-शब्दवत् एव भवन्ति । यथा - क्रोष्टु + टा [तृतीयैकवचनस्य प्रत्ययः] → क्रोष्टृ + आ [**विभाषा तृतीयाऽऽदिष्वचि** (7.1.97) इति वैकल्पिकः तृज्वत्-भावः] → क्रोष्ट्रा [**इको यणचि** (6.1.77) इति यणादेशः] तृज्वत्-भावस्य अभावे - क्रोष्टु + टा [तृतीयैकवचनस्य प्रत्ययः] → क्रोष्टु + ना [**आङो नाऽस्त्रियाम्** (7.3.120) इति टा-प्रत्ययस्य 'ना'-आदेशः] → क्रोष्टुना एवमेव ङे / ङसिँ / ङस् / ओस् / ङि प्रत्ययेषु परेषु अपि रूपद्वयम् जायते । षष्ठी-बहुवचनस्य आम्-प्रत्यये परे **विभाषा तृतीयाऽऽदिष्वचि** (7.1.97) इति वैकल्पिकः तृज्वत्-भावे प्राप्ते इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन एतत् उच्यते, यत् तृज्वत्-भावः तथा नुडागमः - उभयोः प्रसक्तिः अस्ति चेत् नुडागमस्यैव प्रयोगः भवति, तृज्वद्भावस्य न । अतः 'क्रोष्टु + आम्' इत्यत्र **विभाषा तृतीयाऽऽदिष्वचि** (7.1.97) इत्यनेन तृज्वद्भावे प्राप्ते, तथा **ह्रस्वनद्यापो नुट्** (7.1.54) इत्यनेन नुडागमे अपि प्राप्ते अनेन वार्त्तिकेन केवलं नुडागमः एव जायते, तृज्वद्भावः न । अतः 'क्रोष्टूनाम्' इत्येव रूपं सिद्ध्यति । Sutrartha (English) ------------------- The word क्रोष्टु optionally behaves like a तृच्-प्रत्ययान्त word when followed by an अजादि विभक्ति of तृतीया onwards. Vasu English Summary -------------------- क्रोष्टु 'a jackal' may be treated as क्रोष्टृ before the endings beginning with a vowel, in the Instrumental -3rd case and the cases that follow it. Vasu English Translation ------------------------ क्रोष्टु 'a jackal' may be treated as क्रोष्टृ before the endings beginning with a vowel, in the Instrumental -3rd case and the cases that follow it. As क्रोष्ट्रा꣡ or क्रोष्टुना, क्रोष्ट्रे꣡ or क्रोष्टवे, क्रोष्टुः꣡ or क्रोष्टोः, क्रोष्ट꣡रि or क्रोष्टौ, क्रोष्ट्रोः꣡ or क्रोष्ट्वोः ॥ But क्रोष्टून् in the Accusative Plural, and क्रोष्टुभ्यां before consonant-beginning affixes. Vart:- नुम् and नुट् augments come in supersession of the *Trich*-*vad*-*bhava* ordained by the preceding *sutras*. Thus the Dative of the Neuter noun प्रियक्रोष्टु will be प्रियक्रोष्टुनेऽरण्याय, हितक्रोष्टुने वृषलकुलाय, and not क्रोष्ट्रे ॥ Similarly with नुट्, as क्रोष्टूनाम् ॥ Kashika ------- तृतीयादिषु विभक्तिष्वजादिषु क्रोष्टुर्विभाषा तृज्वद् भवति। क्रोष्ट्रा, क्रोष्टुना। क्रोष्ट्रे, क्रोष्टवे। क्रोष्टुः, क्रोष्टोः। क्रोष्टरि, क्रोष्टौ । क्रोष्ट्रोः, क्रोष्ट्वोः। तृतीयादिष्विति किम्? क्रोष्टून्। अचीति किम्? क्रोष्टुभ्याम्। क्रोष्टुभिः॥ तृज्वद्भावात् पूर्वविप्रतिषेधेन नुम्नुटौ भवतः॥ प्रियक्रोष्टुनेऽरण्याय। हतक्रोष्टुने वृषलकुलाय। नुट् — क्रोष्टूनाम्॥ Siddhanta Kaumudi ----------------- अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥ Laghu Siddhanta Kaumudi ----------------------- अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥ Balamanorama ------------ **विभाषा तृतीयाऽऽदिष्वचि** - विभाषा तृतीया ।तृज्वत्क्रोष्टु॑रित्यनुवर्तते ।अची॑ति तृतीयादिविभक्तिविशेषणं, तदादिविधिस्तदाह — अजादिष्विति । क्रोष्ट्रेति । तृज्वद्भावे क्रोष्टृ-आ इति स्थिते ऋकारस्य यण् रेफः । एवं क्रोष्ट्रे इति । तृज्वद्भावाऽभावपक्षे-क्रोष्टुना क्रोष्टवे-शम्भुवत् । Tattvabodhini ------------- **विभाषा तृतीयाऽऽदिष्वचि** - विभाषा तृ ।यस्मिन्विधिस्तदादौ॑इति तदादिविधिरित्याह — अजादिष्विति । Padamanjari ----------- अप्राप्तविभाषेयम् । स्त्रियाम् इति नानुवर्तते, पञ्चक्रोष्ट्रेत्यादावन्तरङ्गत्वात्पूर्वेण नित्यस्तृज्वद्भाव इत्यवोचाम, तेनोभयत्र विभाषापि न भवति । पूर्वविप्रतिषेधेनेति । तृज्वद्भावस्यावकाशः क्रोष्ट्रे, पुंसे नुम्नुटोरवकाशः - त्रपुणे, जतुने, अग्नीनाम्, वायूनाम, प्रियक्रोष्टुअन इत्यादावुभयप्रसङ्गे पूर्वविप्रतिषेधः । अथ किमर्थ तृज्वद्भावो विधीयते, यावता क्रुशेरेव तृचि क्रोष्ट्रेत्यादि सिद्ध्यति तुन्नन्तस्यासम्बुद्धौ सर्वनामस्थाने स्ज्ञियां च प्रयोगो मा भूत्, तृजन्तस्यैव यथा स्यात् । विभाषा तृतीयादिष्वचि इत्येततर्हि किमर्थम्, तृजन्तस्यैव क्रोष्ट्रेत्यादि सिद्धम्, तुन्नन्तस्य क्रोष्टुअनेत्यादि यथैव तर्ह्यजादावुभयं भवति तथा हलादावपि स्यात्, एवं शस्यपि तुन्नन्तस्यैव च तत्र प्रयोग इष्यते, तेनैतदपि नियमार्थम् - तृतीयादावेवोभयम्, तत्राप्यजादावेवेति । यस्तु मन्यते - अभिधानस्वभावादेव तुंस्तृचोर्व्यवस्थितविषयः प्रयोग इति, तं प्रति सूत्रत्रयमपि शक्यमकर्तुम् ॥ Nyaas ----- **स्त्रियाम्** (4.1.3) इति नानुवर्तते, तेनेयमप्राप्तविभाषा। `क्रोष्टुना` इति। **आङो नाऽस्त्रियाम्** (7.3.120) इति नाभावः। `क्रोष्टवे` इति। **घेर्ङिति** (7.3.111) इति गुणः। `क्रोष्टुः` इति। `ऋत उत्` (6.1.107) इत्युत्त्वम्, रपरत्वम्, `रात्? सस्य` (8.2.24) इति सलोपः। `क्रोष्टोः` इति। पूर्ववद्गुणः, **ङसिङसोश्च** (6.1.110) इति पूर्वरूपत्वम्? `क्रोष्टरि इति। **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इति गुणः। `क्रीष्टौ` इति। **अच्च घेः** (7.3.119) इत्यत्त्वम्, औत्त्वञ्च। `तृज्वद्भावात्` इत्यादि। तृज्वद्भावस्यावकाशः - पुंसि क्रोष्ट्रो इति, नुमोऽवकाशः - त्रपुणे, जतुन इति; प्रियक्रोष्टुने वनायेत्यत्रोभयप्रसङ्गे सति नुम्भवति पूर्वविप्रतिषेधेनेति। नुटोऽवकाशः - अग्नीनाम्, वायूनामिति, तृज्वद्भावस्यावकाशः स एव; क्रोष्ट्रनामित्यत्रोभयप्रसङ्गे सति नुङ्? भवति पूर्वविप्रतिषेधेनेति। पूर्वविप्रतिषेधस्तु परशब्दस्येष्टवाचित्वा ल्लभ्यते॥ Prakriyasarvasvam ----------------- तृतीयादिष्वजादिविभक्तिषु क्रोष्टुर्वा तृज्वत् स्यात् । तृज्वत्त्वे यण् । क्रोष्ट्रा । क्रोष्टुना । क्रोष्ट्रे । क्रोष्टवे । ङसिङसोस्तृज्वत्त्वे क्रोष्टु अस्— Sarala ------ **विभाषा** - अव्ययपदं, **तृतीयादिषु** - सप्तम्यन्तम् । **अचि** - सप्तम्यन्तम् ॥ Sudha ----- **विभाषा तृतीयादिष्विति ।** **तृज्वत् क्रोष्टुः**(7.1.95) इत्यनुवर्तते । अचीति तृतीयादिविभक्तेर्विशेषणम् । तदादिविधिस्तदाह - **अजादिष्वित्यादिना । क्रोष्ट्रा ।** 'क्रोष्टु + टा' इत्यत्र **चुटू**(1.3.7) इति टस्येत्सञ्ज्ञायां लोपे च **विभाषा तृतीयादिष्वचि**(7.1.97) इति तृज्वद्भावे **इको यणचि**(6.1.77) इति यणि विहिते "क्रोष्ट्रा" इति रूपम् । **क्रोष्टुना ।** तृज्वद्भावाभावे 'क्रोष्टु + टा' इत्यत्र **शेषो घ्यसखि**(1.4.7) इति घिसञ्ज्ञायाम् **आङो नाऽस्त्रियाम्**(7.3.120) इति टाइत्यस्य स्थाने नादेशे कृते "क्रोष्टुना" इति रूपम् । **क्रोष्ट्रे |** क्रोष्टुशब्दाच्चतुर्थ्येकवचनविवक्षायां ङेसमागते 'क्रोष्टु + ङे' इति स्थिते, ङकारस्येत्सञ्ज्ञायां लोपे च 'क्रोष्टृ + ए' इति जाते **विभाषा तृतीयादिष्वचि**(7.1.97) इति तृज्वद्भावे **इको यणचि**(6.1.77) इति यणि "क्रोष्ट्रे" इति रूपम् । पक्षे घिसञ्ज्ञायां **घेर्ङिति**(7.3.111) इति गुणे विहिते **एचोऽयवायावः**(6.1.78) इत्यवादेशे "क्रोष्टवे" इति रूपम् ।