71096: स्त्रियां च

Padacheda: स्त्रियाम् | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha

स्त्रीलिङ्गे क्रोष्टु-शब्दः तृज्-वत् भवति ।

‘क्रोष्टु’ इति उकारान्तपुँल्लिगः शब्दः । परन्तु स्त्रीलिङ्गस्य विषये अयं शब्दः ‘तृच्-वत्’ भवति । इत्युक्ते, ‘क्रोष्टृ’ शब्दवत् अस्य कार्यं भवति - क्रोष्टु → क्रोष्टृ [स्त्रीलिङ्गस्य विवक्षायाम् स्त्रियां च (7.1.96) इति तृज्वद्भावः] → क्रोष्टृ + ङीप् [स्त्रीत्वं द्योतयितुम् ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ‘ङीप्’ प्रत्ययः] → क्रोष्ट्री [इको यणचि (6.1.77) इति यणादेशः] अस्य रूपाणि ‘कर्त्री’ शब्दवत् भवन्ति । यथा - क्रोष्ट्री, क्रोष्ट्र्यौ क्रोष्ट्र्यः ।

Sutrartha (English)

In feminine context, the word क्रोष्टु behaves similar to the तृच्-प्रत्ययान्त words.

Vasu English Summary

The word क्रोष्टु ‘a jackal’ is treated as if it ended in तृच् (तृ), in the feminine, before all case-endings.

Vasu English Translation

The word क्रोष्टु ‘a jackal’ is treated as if it ended in तृच् (तृ), in the feminine, before all case-endings. This sutra is commenced for the sake of cases other than strong ones. In strong cases, whether of masculine or feminine, the former sutra applies; but in the feminine, in other cases also there is trich-treatment. Thus क्रोष्ट्री꣡, क्रोष्ट्री꣡भ्याम्, क्रोष्ट्रीभिः ॥ Some read the word क्रोष्टु in the Gauradi class (4.1.41), and they treat it is a तृच् ending word before the feminine affix ङीष्, as क्रोष्ट्रा ॥ According to them, in forming the Taddhitartha compounds like पञ्चभिः क्रोष्ट्रीभिः क्रीतैः = पञ्चक्रोष्टृभी रथैः, we could not get the form पञ्चक्रोष्टृभिः, because when the affix ठक् is elided by (5.1.28), the feminine is also elided by (1.2.49), and the ङीष् being thus luk-elided, there would be no तृज्वद्भाव, because the affix leaves no trace behind (1.1.63). To get out of the difficulty, we can only say, that the form is so, in spite of the apparent inconsistency.

Those who do not read क्रोष्टु in the Gauradi class, they explain this sutra by saying that the word स्त्रियां indicates the sense, namely, क्रोष्टु is treated like a तृच् word, when it denotes a female, wherever it may occur.

And because क्रोष्टु is treated as if it was क्रोष्टृ, the feminine will be formed by the affix ङीप् by (4.1.5), and the form क्रोष्ट्री꣡ will be end-acute by (6.1.174). So that whether क्रोष्ट्री be formed by ङीष् under Gauradi class, or by ङीप् under (4.1.5), the accent remains the same: while under this second view, we have not to face any such difficulty as in the first.

Bhashya

स्त्रियां च तृज्वत्क्रोष्टुः ॥ अथात्र विभक्तावित्यनुवर्तते उताहो न ? ॥ किं चातः ? ॥ ॥ तृज्वत्स्त्रियां(3) विभक्तौ चेत्क्रोष्टीभक्तिर्न सिध्यति ॥ तृज्वत्स्त्रियां विभक्तौ चेत्क्रोष्ट्रीभक्तिरिति न सिध्यति ॥ एवं तर्हि ईकार एव तृज्वद्भावं वक्ष्यामि ॥ तदीकार ग्रहणं कर्तव्यम् ? ॥ न कर्तव्यम् । क्रियते न्यासे एव । प्रश्र्लिष्टनिर्देशोऽयं - स्त्री इर् - स्त्री, स्त्रियामिति ॥ ईकारे तन्निमित्तः सः ॥ ईकारे चेत् । तन्न ॥ किं कारणम् ? ॥ तन्निमित्तः सः । तृज्वद्भावनिमित्तः स ईकारः, नाऽकृते तृज्वद्भावे ईकारः प्राप्नोति ॥ किं कारणम् ? ॥ ऋन्नेभ्यो ङीबित्युच्यते । ईकारे च तृज्वद्भावस्तदिदमितरेतराश्रयं(1) भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते ॥ एवं तर्हि गौरादिषु पाठादीकारो भविष्यति ॥ गौरादिषु न पठ्यते ॥ नहि किं चित्तुन्नन्तं गौरादिषु पठ्यते ! ॥ एवं तर्हि एतज्ज्ञापयत्याचार्यो - भवत्यत्र ईकार इति यदयमीकारे तृज्वद्भावं शास्ति ॥ ॥ तेनैव भावनं चेत्स्यादनिष्टोपि प्रसज्यते ॥ यद्यपि नास्ति विशेषो ङीपो वा(1) ङीषो वा, ङीनपि तु प्राप्नोति । इह च न प्राप्नोति - पञ्ञ्चभिः क्रोष्ट्रीभिः क्रीतै रथैः - पञ्ञ्चक्रोष्टृभी रथैरिति ॥ एवं तर्हि - ॥ नचाऽपरं(2) निमित्तं संज्ञा च प्रत्ययलक्षणेन(3) ॥ न चापरं निमित्तमाश्रीयते, अस्मिन्परतः क्रोष्टुस्तृज्वद्भवतीति ॥ (किं तर्हि ?) ॥ अङ्गस्य क्रोष्टुस्तृज्वद्भवत्यङ्गसंज्ञा च भवति प्रत्ययलक्षणेन ॥ किं पुनरयं शास्त्रातिदेशः - तृचो यच्छास्त्रं तदतिदिश्यते, आहो स्विद्रूपातिदेशः, तृचो यद्रूपं तदतिदिश्यते इति ? ॥ कश्चात्र विशेषः ? ॥ ॥ तृज्वदिति शास्त्राऽतिदेशश्चेद्यथा चिणि तद्वत् ॥ तृज्वदिति शास्त्रातिदेशश्चेद्यथा चिणि तद्वत्प्राप्नोति ॥ कथं च चिणि ? ॥ उक्तम्(1) - अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदेशात्सिद्धमिति । आङ्गं यत्कार्यं तदतिदिश्यते ॥ एवमिहाप्यनङ्गुणदीर्घत्वान्यतिदिष्टानि रपरत्वमनतिदिष्टम् ॥ तत्र को दोषः ? ॥ ॥ तत्र रपरवचनम्(2) ॥ तत्र रपरत्वं न सिध्यति, तद्वक्तव्यम् ॥ नैषः दोषः । गुणेऽतिदिष्टे रपरत्वमप्यतिदिष्टं भवति ॥ कथम् ? ॥ कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यम्, ऋतो ङिसर्वनामस्थानयोर्गुणो भवति उपस्थितमिदं भवति - उरण्रपर इति ॥ एवं तर्हि अयमन्यो दोषो जायते - आहत्य तृचो यच्छास्त्रं तदतिदिश्येताऽनाहत्य(2) वेति ? ॥ किं चातः ? ॥ यद्याहत्य, - दीर्घत्वमतिदिष्टम्, अनङ्गुणरपरत्वान्यनतिदिष्टानि ॥ अथानाहत्य, अनङ्गुणरपरत्वान्यतिदिष्टानि, दीर्घत्वमनतिदिष्टम् ॥ अस्त्वाहत्य ॥ ननु चोक्तं दीर्घत्वमतिदिष्टमनङ्गुणरपरत्वान्यनतिदिष्टानीति । नैष दोषः - दीर्घत्वेऽतिदिष्टेऽनङ्गुणरपरत्वान्यनयतिदिष्टानि भवन्ति ॥ कथम् ?॥ उपधाया इति वर्तते, न चाऽकृतेष्वेतेषु दीर्घत्वभाविन्युपधा(1) भवति ॥ कुतो नु खल्वेतदेतेषु विधिषु कृतेषु या उपधा तस्या उपधायाः दीर्घत्वं भविष्यति न पुनः क्रोष्टोर्योऽन्तरतमो(3) गुणस्तस्मिन्कृतेऽवादेशे च योपधा तस्या दीर्घत्वं भविष्यति ? ॥ नैकमुदाहरणं योगारम्भं प्रयोजयतीति (4)। तत्र तृज्वद्वचनसार्मथ्यादेतेषु विधिषु कृतेषु योपधा तस्या दीर्घत्वं भविष्यति ॥ अथ वा किं न एतेन - आहत्याऽनाहत्य वेति । आहत्याऽनाहत्य च तृचो यच्छास्त्रं तदतिदिश्यते ॥ अथ वा पुनरस्तु रूपातिदेशः ॥ अथैतस्मिन्रूपातिदेशे सति किं प्रागादेशेभ्यो यद्रूपं तदतिश्यते, आहो स्वित्कृतेष्वादेशेषु ? ॥ किं चातः ? ॥ यदि प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते, ऋकार एकोऽतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानि । अथ कृतेष्वादेशेषु, - ऋकारोऽनतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यतिदिष्टानि ॥ उभयथा च(1) स्वरोऽनतिदिष्टो न हि स्वरो रूपवान्(2) ॥ (उभयथा(1) च स्वरोऽनतिदिष्टः ॥ किं कारणम् ? ॥ न हि स्वरो रूपवान् ॥) अस्तु प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते ॥ ननु चोक्तम्ऋकारोतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानीति ॥ नैषः दोषः - ऋकारेऽतिदिष्टे स्वाश्रया अत्रैते विधयो भविष्यन्ति ॥ यदप्युच्यते - उभयथा च(1) स्वरोऽनतिदिष्टो नहि स्वरो रूपवानिति । सचकारग्रहणसार्मथ्यात्स्वरो भविष्यति ॥ ॥ रूपातिदेश(2) इति चेत्सर्वादेशप्रसङ्गः(3) ॥ रूपातिदेश इति चेत्सर्वादेशः प्राप्नोति । सर्वस्यतुन्नन्तस्य तृशब्द आदेशः प्राप्नोति ॥ सिद्धन्तु रूपातिदेशात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ रूपातिदेशात् । रूपातिदेशोऽयम् ॥ ननु चैवमेव कृत्वा चोद्यते - रूपातिदेश इति चेत्सर्वादेशप्रसङ्ग इति ? ॥ सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवती-त्येवं तुन्नन्तस्य तृजन्त आदेशो भविष्यति ॥ एवमपि किं चिदेव तृजन्तं प्राप्नोति, इदमपि प्राप्नोति - पक्तेति ॥ आन्तरतम्याच्च(4) सिद्धम् ॥ क्रोष्टोर्यदन्तरतमं(5) तद्भविष्यति ॥ किं पुनस्तत् ? ॥ कुशेर्यस्तृज्विहितस्तदन्तम् ॥ तृज्वद्वचनमनर्थकम्(6) (किं कारणम् ?) ॥ तृज्विषये तृचो मृगवाचित्वात् ट ॥ तृज्विषये एतत्तजन्तं मृगवाचि ( ॥ तुनो निवृत्त्यर्थम् ॥ ) ॥ तुनो निवृत्त्यर्थं तर्हीदं वक्तव्यम् । तुनः सर्वनामस्थाने निवृत्तिर्यथा स्यात् ॥ तुनो निवृत्त्यर्थमिति चेत्सिद्धं यथान्यत्रापि(7) ॥ तुनो निवृत्त्यर्थमिति चेत्तदन्तरेण वचनं सिद्धं, - यथान्यत्राप्यविशेषविहिताः शब्दाः नियतविषया दृश्यन्ते ॥ क्वाऽन्यत्र ? ॥ तद्यथा घरतिरस्मायविशेषेणोपदिष्टः स घृतं घृणा घर्म इत्येवं(1) विषयः । रशिरस्मायविशेषेणोपदिष्टः स राशिः रश्मिः रशनेत्येवं विषयः । लुशिरस्मायविशेषेणोपदिष्टः स लोष्ट इत्येवं विषयः ॥ इदं तर्हि प्रयोजनं - विभाषां (2)वक्ष्यामीति विभाषा तृतीयादिष्वचीति ॥ वावचनानर्थक्यं च स्वभावसिद्धत्वात् ॥ वावचनं चानर्थकम् ॥ किं कारणम् ? ॥ स्वभावसिद्धत्वात् । स्वभावत(3) एतत्तृतीयादिष्वजादिषु विभक्तिषु तृजन्तं च तुन्नन्तं च मृगवाचीति ॥ गुणवृध्द्योत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् (4)॥ ॥। गुणवृध्द्यौत्वतृज्वद्भावेभ्यो नुम्भवति पूर्वविप्रतिषेधेन ॥ तत्र गुणस्यावकाशः - अग्नये वायवे । नुमोऽवकाशः - त्रपुणी । जतुनी । इहोभयं प्राप्नोति त्रपुणे । जतुने॥ वृद्धेरवकाशः - सखायौ सखायः। नुमः स एव । इहोभयं प्राप्नोति - अतिसखीनि ब्राह्मणकुलानीति । औत्वस्यावकाशः - अग्नौ । वायौ । नुमः स एव । इहोभयं प्राप्नोति-त्रपूणि । जतूनीति । तृज्वद्भावस्यावकाशः - क्रोष्ट्रा । क्रोष्टुना । नुमः स एव । इहोभय प्राप्नोति - कृश-क्रोष्टुने अरण्याय । हितक्रोष्टुने वृषलकुलाय । नुम्भवति पूर्वविप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः । इष्टवाची परशब्दो विप्रतिषेधे परं-यदिष्टं तद्भवतीति ॥ नुमचिरतृज्वद्भावेभ्यो नुट्(5) (पूर्वविप्रतिषेधेन) ॥ नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन वक्तव्यः । नुमोऽवकाशः - त्रपूणि जतूनि । नुटोऽवकाशः - अग्नीनां वायूनाम् । इहोभयं प्राप्नोति - त्रपूणां जतूनाम् ॥ अचि रादेशस्यावकाशः - तिस्रस्तिष्ठन्ति । चतस्रस्तिष्ठन्ति । नुटः स एव । इहोभयं प्राप्नोति - तिसृणां चतसृणाम् ॥ तृज्वद्भावस्यावकाशः-क्रोष्ट्रा क्रोष्टुना । नुटः स एव । इहोभयं प्राप्नोति - क्रोष्टूनां । नुड्भवति पूर्वविप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः(1) ॥ न वा नुडि्वषये रप्रतिषेधात् ॥ न वैतद्विप्रतिषेधेनापि सिध्यति - तिसृणां चतसृणामिति ॥ कथं तर्हि सिध्यति ? ॥ नुडि्वषये रप्रतिषेधात् । नुडि्वषये रप्रतिषेधो वक्तव्यः । (स चावश्यं वक्तव्यः(1)) ॥ इतरथा हि सर्वापवादः ॥ इतरथा हि सर्वापवादो रादेशः स यथैव गुणपूर्वसवर्णौ बाधते एवं नुटमपि बाधेत ॥ तस्मान्नुडि्वषये रप्रतिषेधः ॥ तस्मान्नुडि्वषये रादेशस्य प्रतिषेधो वक्तव्यः ॥ न वक्तव्यः(1)। आचार्यप्रवृत्तिर्ज्ञापयति न रादेशो नुटं बाधत इति, यदयं न तिसृचतसृ इति प्रतिषेधं शास्ति- नामि दीर्घत्वस्य (तृज्वत्क्रोष्टुः) ॥

Kashika

असर्वनामस्थानार्थमारम्भः। स्त्रियां च क्रोष्टुशब्दस्य तृज्वद् भवति। क्रोष्ट्री। क्रोष्ट्रीभ्याम्। क्रोष्ट्रीभिः। क्रोष्टुशब्दं केचिद् गौरादिषु पठन्ति। ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति। तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैरिति स्त्रीशब्दस्य लुकि कृते न सिध्यति। तत्र प्रतिविधेयम्। ये तु गौरादिषु न पठन्ति, तेषां स्त्रियामित्यर्थनिर्देशः, स्त्रियां वर्तमानःक्रोष्टुशब्दः तृज्वद् भवति। कृतेऽतिदेश **ऋन्नेभ्यो ङीप्**(४.१.५) इति ङीप् प्रत्ययः। तत्र **उदात्तयणो हल्पूर्वात्**(६.१.१७४) इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति॥

Siddhanta Kaumudi

स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥

Laghu Siddhanta Kaumudi

स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते॥

Balamanorama

स्त्रियां च - अथ क्रोष्टुशब्दस्य स्त्रियां विशेषमाह — स्त्रियां च । ‘तृज्वत्क्रोष्टुः’ इत्यनुवर्तते । रूपातिदेशोऽयमित्युक्तम् । तदाह — स्त्रीवाचीत्यादिना । तथाच स्त्रियामुदन्तः क्रोष्टुशब्दो नास्त्येव । किन्तु क्रोष्टृ इति ऋदन्त एवेति फलितम् ।

Padamanjari

क्रोषटुअशब्दस्तृज्वद्भवतीत्येतत्वर्थकथनम् । षष्ठ।ल्न्तं तु युक्तं पठितुम् । अन्ये त्वेतद्ग्रहन्थपर्यालोपचनया पूर्वसूत्रेऽपि क्रोष्टः इति प्रथमान्तं मन्यन्ते । अनुक्रियमाणरुपविनाशप्रसङ्गातु तृज्वद्भावो न कृतः । वतिरपि तृतीयासमर्थादेव । तृजन्तेन तुल्यं वर्तत इति तद्रूपभाक्त्वेन तुल्यत्वमिति रुपातिदेशत्वम् । एवं च पूर्वसूक्षेऽप्याद्यग्रहन्थे तस्येति न पठितव्यम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । एतच्चार्थकथनम् । अत्र विभक्तौ इत्यनुवर्तते चेत् क्रोष्ट्री भक्तिरस्येति बहुव्रीहौ भक्तिशब्दस्य प्रियादिशु पाठात्पुंवद्भावाभावे क्रोषट्री भक्तिरिति न सिद्ध्यति समासार्थाया विभक्तेर्लुमता लुप्तत्वात् । अथ वाक्यावस्थायामेव तृज्वद्भावो भविष्यति अन्तरङ्गनपि विधीन्बहिहङ्गो लुग्बाधते । तस्मान्नात्र विभक्तिर्निमितत्वेन शक्या आश्रयितुम्, किं तर्हि निमितम् इत्याह - केचिदित्यादि । कथं पुनर्गौरादिषु पाठे ङीष्प्रत्ययो निमितं भवति स्त्रियाम् इति नैवं विज्ञायते स्त्रियामर्थ इति । कथं तर्हि स्त्रिया - ई - स्त्री, स्त्रियामिति, स्त्रीत्वस्य द्योतको य ईकारस्तत्रेत्यर्थः । अर्थगतं च स्त्रीत्वमीकअरे आरोप्य स्त्रियामिति नदीसंज्ञानिमितावामाटौ क्रियेते । एवं वदतामनिष्टमाह - तेषामिति । पञ्चक्रोष्ट्ःअभिरिति । तद्धितार्थे समासः, आर्हीयस्य ठकः अध्यर्द्धपूर्व इति लुक्, लुक्तद्धितलुकि इति स्त्रीप्रत्ययस्यापि लुक् । तत्र न लुमताङ्गस्य इति एप्रतिषेधादीकारनिमितस्तृज्वद्भावो न सिद्ध्यति । अन्तरङ्गातणं च विधीनां लुका बाधनोत् न पूर्वमेव तृज्वद्भावो लभ्यते । तत्र सर्वनामस्थाने पूर्वेणैव सिद्धस्तृज्वद्भाव इति तृतीयादावसिद्धिरुक्ता, सर्वनामस्थानेऽपि सम्बुद्धौ पूर्वेणासिद्धिरेव - हे पञ्चक्रोष्टरिति । तथा शसि पञ्चक्रोष्ट्ःअन्, तथा तृतीयादिष्वजादिप्वप्युतरसूत्रेण विकल्पः प्राप्नोति - पञचक्रोष्ट्रा, पञ्चक्रोष्ट्रे । नन्वारब्धेऽप्यस्मिन्, परत्वाद्विकल्प एव प्राप्नोति थान्तरङ्गत्वादयमेव नित्यो विधर्भवति । तत्र प्रतिविधेयमिति । वचनमेवात्र शरणम् । ये तर्हि गौरादिषु न पठन्ति तेषां किं निमितम् न किञ्चिदित्याह - य त्वित्यादि । स्त्रियां च वर्तमान इति । सूत्राक्षरामनुरोधेन चशब्दः पठितः । ननु च यद्यपि न शब्देन किञ्चिन्नमितमाश्रीयते, अङ्गस्य इति त्वाश्रीयते, अङ्गे चाश्रिते प्रत्ययोऽप्याश्रित एव, यथोक्तम्, अङ्गस्य इत्यत्र वव्रश्चेत्यस्य सिद्धये सत्यम् कार्यकालं संज्ञापरिभाषम् तदुक्तम् । तत्र हि पक्षे उरत् इत्यत्राङ्गसंज्ञासूत्रमुपतिष्ठते, ततश्च प्रत्ययः त्यिस्याङ्गसंज्ञायामुरदत्वं च प्रति निमितभावः , सन्निधेरविशिष्टत्वात् । इह तु यथोद्देशपक्ष आश्रीयते, तदतश्च वस्तुतोऽङ्गस्य स्त्रियां वर्तमानस्य क्रोष्टुअशब्दस्य तृज्वद्भावो विधीयते, न तु परनिमितमाश्रीयते । अङ्गसंज्ञा च प्रत्ययलक्षणेन भविष्यति । अङ्गस्य इति वचनाल्लब्धाङ्गसंज्ञस्य यत्कार्यं प्रत्ययलक्षणं तदेव प्रतिषिद्ध्यति, न चाङ्गसंज्ञा अङ्गस्य कार्यम् । अन्तोदात एव क्रोष्ट्रीशब्दो भवतीति । गौरादिषु पाठे ङीष्प्रत्ययस्वरेणान्तोदातः । अत्रापि पक्षे उदातयणो हल्पूर्वात् तथैत्यन्तोदात थएवेति एवशब्दार्थः । केचितु - ङीपोऽपि उदातयणः इत्येवोदातत्वमन्यथा ङीषि परतस्तृज्वद्भावे चित्स्वरस्य सतिशिष्टत्वेन ङीषोऽनुदातत्वप्रसङ्ग इत्याहुः ॥

Nyaas

क्रीष्ट्रीभिः इति। तृज्वद्भावे कृते यणादेशः। केन पुनः क्रोष्टुशब्दादीकारः, तृज्वद्भावे कृते ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेनेति चेत्? न; अनुदात्तत्वप्रसङ्गादित्यत आह - क्रोष्टुशब्दं केचित् इत्यादि। पञ्चभिः क्रोष्ट्रीभिः क्रीतैः इति। तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति समासः। आर्हादगोपुच्छ (5.1.19) इत्यादिना ठक्, तस्य अध्यद्र्धपूर्व (5.1.28) इत्यादिना लक्, लुक्तद्धितलुकि (1.2.49) इति स्त्रीप्रत्ययस्य लुक्, तस्मल्लुप्ते ये ङीष्प्रत्यये कृते तृज्वद्भावं कुर्वन्ति तेषां तृजवद्भावो न भवति, तस्मात्? प्रतिविषेयम् इति। प्रतिविधानं कर्तव्यमित्यर्थः। तत्रेदं प्रतिविधानम् - चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन लुप्तेऽपि स्त्रीप्रत्यये भविष्यति। ये तर्हि गौरादिषु न पठन्ति तेषामीकारः कथम्? इत्याह - गौरादिषु इत्यादि। तेषां पञ्चक्रोष्टुभिरित्यत्र न किञ्चित्? प्रतिविधेयम्; परस्य स्त्रीप्रत्ययस्य निमित्तत्वेनानाश्रितत्वात्। ननु च तेषामपि स्त्रीप्रत्ययस्य लुप्तत्वादसस्यामङ्गसंज्ञायामङ्गस्योच्यमानस्तृण्वद्भावो न प्राप्नोतीति प्रतिविधेयमेव? नैतदस्ति; लुप्ते हि स्त्रीप्रत्यये प्रत्ययलक्षणेनाङ्गसंज्ञा भवत्येव। न लुमताङ्गस्य (1.1.63) इति यः प्रतिषेधः सोऽङ्गाधिकार विहितस्यैव कार्यस्य। न चाङ्गसंज्ञाऽङ्गाधिकारे विहिता। कृतेऽतिदेशे इत्यादि। इकोऽचि विभक्तौ (7.1.73) इत्यनुवृत्तेर्विभक्तावुत्पन्नायां तदाश्रयायाञ्चाङ्गसंज्ञायां स्त्रियां वर्तमानस्य क्रोष्टुशब्दस्यातिदेशः क्रियते। तस्मिन्? कृते ऋकारान्तत्वात्? `ऋन्नेभ्यो ङीप् (4.1.5) इति ङीब्भवति। ननु च ङीप्प्रत्यये कृतेऽन्तोदात्तः क्रोष्ट्रीशब्दो न सिध्यति? इत्याह - तत्र इत्यादि। क्रोष्ट्रीशब्दोऽन्तोदात्तोऽतिदिश्यत इति तृसम्बन्धिन ऋकारस्य स्थाने यणादेशो भवन्नुदात्तयण्? भवति, ततश्च शतुरनुमो नद्यजादी (6.1.173) इत्यनुवर्तमाने उदात्तयणो हल्पूर्वात् (6.1.174) इत्यन्तोदात्तो भवति क्रोष्ट्रीशब्दः॥

Prakriyasarvasvam

क्रोष्टुशब्दः स्त्रियां तृजन्तवद्रूपं भजते । क्रोष्ट्री ; अनडुहः स्त्रियामामागमो वा वाच्यः । अनडु आह ई । यण् । अनड्वाही, अनडुही । अनित्यः षित्वां ङीष् । दंष्ट्रा ॥

Sudha

स्त्रियां चेति । तृज्वत् क्रोष्टुः**(7.1.95) इत्यनुवर्तते तदाह - **स्त्रीवाचीत्यादिना ।