71092: सख्युरसम्बुद्धौ

Padacheda: सख्युः | S | 5 | 1 |

असम्बुद्धौ | S | 7 | 1 |

Sutrartha

सखि-शब्दात् विहितः असम्बुद्धिवाचकः सर्वनामस्थानप्रत्ययः णित्वत् भवति ।

‘सखि’ अयम् कश्चन इकारान्तशब्दः । अस्मात् शब्दात् परस्य सर्वनामस्थानसंज्ञक-प्रत्ययस्य णित्वत् कार्यं भवति । परन्तु सम्बोधन-एकवचनस्य सुँ-प्रत्ययस्य णित्वत्भावः न भवति । यथा - 1. सखि + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → सखै + औ / औट् [सख्युरसम्बुद्धौ (7.1.92) इति औ/औट्-प्रत्यययोः णित्-अतिदेशः । अतः अचो ञ्णिति (7.2.115) इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः] → सखाय् + औ / औट् [एचोऽयवायावः (6.1.78) इति आय्-आदेशः] → सखायौ 2. सखि + जस् [प्रथमा-बहुवचनस्य प्रत्ययः] → सखै + अस् [सख्युरसम्बुद्धौ (7.1.92) इति जस्-प्रत्ययस्य णित्-अतिदेशः । अतः अचो ञ्णिति (7.2.115) इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः] → सखाय् अस् [एचोऽयवायावः (6.1.78) इति आय्-आदेशः] → सखायः [ससजुषोः रुँः (8.2.66) इति रुँत्वम् । खरवसानर्योविसर्जनीयः (8.3.15) इति विसर्गः] 3. सखि + अम् [द्वितीयैकवचनस्य प्रत्ययः] → सखै + अम् [सख्युरसम्बुद्धौ (7.1.92) इति अम्-प्रत्ययस्य णित्-अतिदेशः । अतः अचो ञ्णिति (7.2.115) इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः] → सखाय् अम् [एचोऽयवायावः (6.1.78) इति आय्-आदेशः] → सखायम् 4. सखि-शब्दस्य प्रथमैकवचनस्य प्रत्यये परे अस्य सूत्रस्य अवकाशे प्राप्तेऽपि सर्वनामस्थाने च असम्बुद्धौ (6.4.8) इत्यस्य नित्यत्वात् तस्यैव प्रयोगः भवति - सखि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → सख् अनङ् + स् [अनङ् सौ (7.1.93) इति सखि-शब्दस्य अनङ्-आदेशः] → सखन् + स् [इत्संज्ञालोपः] अस्यामवस्थायाम् - अ) सर्वनामस्थाने च असम्बुद्धौ (6.4.8) इत्यनेन असम्बुद्धौ-सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधादीर्घः (=आकारः) प्राप्नोति , तथा आ) सख्युरसम्बुद्धौ (7.1.92) इति सुँ-प्रत्ययस्य णित्-अतिदेशे कृते अतः उपधायाः (7.2.116) इति अङ्गस्य उपधावर्णस्य वृद्धिः (=आकारः) अपि प्राप्नोति । अत्र एताभ्यां सूत्राभ्याम् अतः उपधायाः (7.2.116) इत्यस्य अपेक्षया सर्वनामस्थाने च असम्बुद्धौ (6.4.8) इति सूत्रम् नित्यमस्ति यतः अस्य सूत्रस्य प्रयोगः अतः उपधायाः (7.2.116) इत्यस्मात् अनन्तरमपि भवितुमर्हति, परन्तु सर्वनामस्थाने च असम्बुद्धौ (6.4.8) इत्यस्य प्रयोगं कुर्मश्चेत् अतः उपधायाः (7.2.116) इत्यस्य अवकाशः (= उपधा-अकारः) एव विनश्यति । अतः अत्र ‘सखान् स्’ इति स्थिते पूर्वपरनित्यन्तरङ्गापवादानामुत्तरोत्तरं बलीयः अनया परिभाषया नित्यसूत्रस्यैव प्रयोगः क्रियते - → सखान् स् [सर्वनामस्थाने च असम्बुद्धौ (6.4.8) इति उपधादीर्घः] → सखान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → सखा [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति प्रातिपदिकसंज्ञकस्य पदस्य अन्तिमनकारस्य लोपः । अत्र यद्यपि प्रातिपदिकम् ‘सखि’ इति अस्ति, तथापि एकदेशविकृतमनन्यवत् अनया परिभाषया ‘सखा’ शब्दस्य अपि प्रातिपदिकत्वं जायते ।] 5. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः एव नास्ति, यतः अस्मिन् सूत्रे ‘असम्बुद्धौ’ इति उक्तमस्ति । अस्य ‘मुनि’ शब्दवदेव एङ्ह्रस्वात्सम्बुद्धेः (6.1.69) इत्यनेन अङ्गस्य गुणादेशे कृते ‘हे सखे’ इति रूपम् सिद्ध्यति । ज्ञातव्यम् - 1. अनेन सूत्रेण सखि-शब्दात् परस्य सर्वनामस्थानसंज्ञकप्रत्यये ‘णित्’ गुणस्य आरोपणम् भवति, अतः एतत् सूत्रम् ‘अतिदेशसूत्रम्’ नाम्ना ज्ञायते । अन्यतुल्यत्वविधानमतिदेशः इति अतिदेशस्य व्याख्या । 2. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् अनया परिभाषया अत्र सप्तमीनिर्दिष्टः शब्दः स्थानिनः कार्यं करोति । अतएव णित्-गुणः सर्वनामस्थानस्य भवति, ‘सखि’शब्दस्य न । 3. वर्तमानसूत्रेण सखि-इत्यस्य अङ्गस्य वृद्धिं कृत्वा ‘ऐ’ इति अन्तिमवर्णनिर्माणम् भवति, यस्मात् परः प्रथमयोः पूर्वसवर्णः (6.1.102) , जसि च (7.3.109), अमि पूर्वः (6.1.107) एतेषु कस्यापि प्रसक्तिः एव नास्ति ।

Sutrartha (English)

The सर्वनामस्थानप्रत्यय not belonging to सम्बोधन-एकवचन when attached to the word सखि becomes णित्.

Vasu English Summary

After सखि, the endings of the strong cases, with the exception of the Vocative Case singular are णित्।

Vasu English Translation

After सखि, the endings of the strong cases, with the exception of the Vocative Case singular are णित्। That is, they cause Vriddhi. As सखायौ, सखायः, but हे सखे ॥

Kashika

असंबुद्धौ यः सखिशब्दः तस्मात् परं सर्वनामस्थानं णिद् भवति। सखायौ, सखायः। असंबुद्धाविति किम्? हे सखे॥

Siddhanta Kaumudi

सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात् ॥

Laghu Siddhanta Kaumudi

सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥

Balamanorama

सख्युरसम्बुद्धौ - सखि-औ इति स्थिते णित्कार्यं वृदिंध वक्ष्यन् णिद्वद्भावं दर्शयति-सख्युरसम्बुद्धो ।सख्यु॑रिति दिग्योगे पञ्चमी ।अङ्स्ये॑त्यधिकृतं पञ्चम्या विपरिणम्यते । ‘पर’ मित्यध्याहार्यम् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः ‘सर्वनामस्थाने’ इत्यनुवर्तते ।असम्बुद्धा॑वित्यभेदेनान्वेति ।गोतो णि॑दित्यतोणि॑दिति प्रथमान्तमनुवृत्तम् । तत्सामानाधिकारण्यादसम्बुद्धा॑विति सर्वनामस्थाने॑इति च सप्तमी प्रथमा कल्प्यते । तदाह-सख्युरङ्गादित्यादिना । णिद्वदिति । णित्कार्यकृत्स्यादित्यर्थः । णिच्छब्दस्तत्कार्यातिदेशार्थ इति भावः ।

Tattvabodhini

सख्युरसम्बुद्धौ - सख्युरसंबुद्धौ । इहइतोऽत्सर्वनामस्थाने॑इत्यतः॒सर्वनामस्थाने॑इत्यनुवर्तते, तदसंबुद्धावित्यनेन विशेष्यते ।गोतो णि॑दिति सूत्राण्णिदित्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यत इत्याह — संबुद्धिवर्ज्ज सर्वनामस्थानमिति ।सख्युरसंबुद्धि॑रित्येव सूत्रयितुं युक्तमिति मनोरमायां स्थितम् । ननु॒सखे॑त्यत्रोपधादीर्घे बाधित्वना परत्वाद॒त उपधाया॑इति वृद्ध्या भाव्यं, सोर्णित्त्वादिति चेदत्राहुः-कृताऽकृतप्रसङ्गित्वमात्रेणापि नित्यत्वस्वीकारात्, अन्तरङ्गत्वाच्चसखे॑त्यत्र वृदिंध बाधित्वासर्वानामस्थाने चासंबुद्धौ॑ इत्युपधादीर्घेणैव भवतव्यम्,सख्युरसंबुद्धा॑विति णिद्वद्बावमुपजीव्याऽत्र पर्वर्तमानस्यअत उपाधायाः॑इत्यस्य बहिरङ्गत्वादिति ।

Nyaas

असम्बुद्धौ इति पर्युदासः - सम्बुद्धेरन्याऽसम्बुद्धिः। हे सखे इति। ह्रस्वस्य गणः (7.3.108) इति गुणः॥

Praudhamanorama

इह ‘इतोऽत्सर्वनामस्थाने’ इत्यतः ‘सर्वनामस्थाने’ इत्यनुवर्तते। तत् ‘असम्बुद्धौ’ इत्यनेन विशेष्यते। ‘गोतो णित्’ इति सूत्राद् ‘णित्’ इत्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यत इत्याह— सम्बुद्धिवर्जं सर्वनामस्थानमिति। सख्युरसंबुद्धिरित्येव तु सूत्रं युक्तम्।

Prakriyasarvasvam

सम्बुद्धेरन्यत्र सख्युः परं सर्वनामस्थानं णिद्वत् स्यात् । वृद्धिः । आयादेशः । सखायौ । सखायः । सम्बुद्धौ तु णिद्वत्त्वमनङ् च न । हे सखे । सखायम् । सखायौ । सखीन् । ‘शेषो घ्यसखि’ (१-४-७) इत्यघित्वात्नात्वं गुणश्च न । यण् । सख्या । सख्ये । सख्युम् ॥

Sudha

सख्युरसम्बुद्धाविति । इह इतोऽत् सर्वनामस्थाने**(7.1.86) इत्यतः सर्वनामस्थाने इत्यनुवर्तते तदसम्बुद्धावित्यनेन विशेष्यते । **गोतो णित्**(7.1.90) इति सूत्राण्णिदित्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यते, इत्याह - **सम्बुद्धिवर्जमित्यादिना ।