71091: णलुत्तमो वा

Padacheda: णल् | S | 1 | 1 |

उत्तमः | S | 1 | 1 |

वा | S | 0 | 0 |

Sutrartha

लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः केवलं विकल्पेन णित् भवति ।

लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इत्यनेन भिन्नाः आदेशाः विधीयन्ते । अनेनैव सूत्रेण उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य णल्-आदेशः भवति । अस्मिन् आदेशः णकारः इत्संज्ञकः अस्ति, अतः अयं आदेशः वस्तुतः ‘णित्’ अस्ति, परन्तु वर्तमानसूत्रेण अस्य णित्वम् केवलं विकल्पेन भवति । णित्वाभावात् अचो ञ्णिति (7.2.115) इत्यनेन अजन्तस्य अङ्गस्य वृद्धि-एकादेशः, तथा अतः उपधायाः (7.2.116) इत्यनेन अङ्गस्य उपधा-अकारस्य वृद्धि-एकादेशः - द्वावपि न विधीयेते । उदाहरणानि एतानि - 1. पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः (7.4.60) इति चकारलोपः] → प पच् + मिप् [तिप्तस्झि… (3.4.78) इति मिप्-प्रत्ययः] → प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → प पाच्/पच् + अ [णलुत्तमो वा (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः (7.2.116) इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच / पपच 2. नी-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - नी + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → नी नी + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → नि नी + लिट् [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → नि नी + मिप् [तिप्तस्झि… (3.4.78) इति मिप्-प्रत्ययः] → नि नी णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → नि नै अ / नि ने अ [णलुत्तमो वा (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति (7.2.116) इति इकारस्य वृद्धिः ऐकारः । णित्वाभावे सार्वधातुकार्धधातुकयोः (7.3.85) इति इकारस्य गुणः एकारः] → निनाय / निनय [एचोऽयवायावः (6.1.78) इति आय्/अय्-आदेशः] 3. पू-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - पू + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पू पू + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → पु पू + लिट् [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → पु पू + मिप् [तिप्तस्झि… (3.4.78) इति मिप्-प्रत्ययः] → पु पू णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → पु पौ अ / पु पो अ [णलुत्तमो वा (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति (7.2.116) इति उकारस्य वृद्धिः औकारः । णित्वाभावे सार्वधातुकार्धधातुकयोः (7.3.85) इति उकारस्य गुणः ओकारः] → पुपाव / पुपव [एचोऽयवायावः (6.1.78) इति आव्/अव्-आदेशः] 4. कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - कृ + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → कृ कृ + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → कर् कृ + लिट् [उरत् (7.4.66) इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । उरण् रपरः (1.1.51) इति सः रपरः] → क कृ + लिट् [हलादि शेषः (7.4.60) इति ककारलोपः] → च कृ + लिट् [कुहोश्चुः (7.4.62) इति ककारस्य चकारः] → च कृ + मिप् [तिप्तस्झि… (3.4.78) इति मिप्-प्रत्ययः] → च कृ णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → च कार् अ / च कर् अ [णलुत्तमो वा (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति (7.2.116) इति ऋकारस्य वृद्धिः कारः । णित्वाभावे सार्वधातुकार्धधातुकयोः (7.3.85) इति ऋकारस्य गुणः अकारः । उभयत्र उरण् रपरः (1.1.51) इति रेफः] ज्ञातव्यम् - अनेन सूत्रेण केवलं लिट्लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययस्य वैकल्पिकं णित्वम् भवति, प्रथमपुरुषैकवचनस्य णल्-प्रत्ययस्य न ।

Sutrartha (English)

The णल्-प्रत्यय of लिट्लकार-परस्मैपद-उत्तमपुरुषैकवचन is only optionally णित्.

Vasu English Summary

The ending of the 1st person singular in the लिट् (Perfect Tense) optionally acts as णित्।

Vasu English Translation

The ending of the 1st person singular in the लिट् (Perfect Tense) optionally acts as णित्। The Vriddhi is optional, as अहं चकार or चकर, अहं पपाच or पपच ॥

Kashika

उत्तमो णल् वा णिद् भवति। णित्कार्यं तत्र वा भवतीत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच॥

Siddhanta Kaumudi

उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥

Laghu Siddhanta Kaumudi

उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥

Balamanorama

णलुत्तमो वा - णलुत्तमः । णित्स्यादिति ।गोतो णि॑त्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्त्वे उपधावृद्धिः । तदभावे न ।

Padamanjari

णित्कार्यं वा तत्र भवतीत्यर्थं इति । एतेन पक्षे णित्कर्यस्याभावाद्वा णिद्ववतीत्युच्यते, न तु पक्षे णकारस्येत्संज्ञाप्रतिषेधादिति दर्शयति । एतच्च पूर्वत्र कार्यातिदेशाल्लभ्यते । चकारेति । णित्वपक्षे वृद्धिः, अन्यदा तदभावः ॥

Nyaas

णित्कार्यं वा भवतोत्यर्थः इति। अनेन णित्कार्यस्य पक्षेऽबावाण्णिद्वा भवतीत्युच्यते, न तु णित्त्वस्यैव प्रतिषेध इति दर्शयति। न तु णल उपदेशावस्थायां सिद्धं णित्त्वं तद्वचनशतेनापि शक्यं तिषेद्धुमिति भावः। चकार, चकर इति। यदा णित्त्वं तदा अचो ञ्णिति (7.2.115) इति वृद्धिः, अन्यदार्धधातुकलक्षणो गुणः। पपाच, पपच इति। यदा णित्त्वं तदा अकत उपधायाः (7.2.116) इति वृद्धिः, अन्यदा तदभावः॥

Prakriyasarvasvam

उत्तमणल् वा णित् । णित्त्वे वृद्धिः । अन्यत्र णलः* पित्त्वाद् गुणः । जय गुणायोः स्थानिवत्त्वाद् द्वित्वम्, जिगाय, जिगय ।

Sutra Prayogas

  • जगद (शिशुपालवधम्): णलुत्तमो वा इति पक्षे णित्त्वाभावाद्वृद्ध्यभावः।