71093: अनङ् सौ¶
Padacheda: अनङ् | S | 1 | 1 |
सौ | S | 7 | 1 |
Sutrartha¶
सखि-शब्दस्य असम्बुद्धिवाचके सुँ-प्रत्यये परे अनङ्-आदेशः भवति ।
‘सखि’ इति कश्चन इकारान्तशब्दः । अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे अनङ्-आदेशः भवति । ङित्वात् ङिच्च (1.1.53) इति अयमन्त्यादेशः भवति । यथा - सखि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → सख् अनङ् + स् [अनङ् सौ (7.1.93) इति सखि-शब्दस्य अनङ्-आदेशः] → सखन् + स् [इत्संज्ञालोपः] → सखान् + स् [सर्वनामस्थाने च असम्बुद्धौ (6.4.8) इति उपधादीर्घः] → सखान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → सखा [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति प्रातिपदिकसंज्ञकस्य पदस्य अन्तिमनकारस्य लोपः । अत्र यद्यपि प्रातिपदिकम् ‘सखि’ इति अस्ति, तथापि एकदेशविकृतमनन्यवत् अनया परिभाषया ‘सखा’ शब्दस्य अपि प्रातिपदिकत्वं जायते ।] अस्याम् प्रक्रियायाम् सख्युरसम्बुद्धौ (7.1.92) इत्यनेन सुँ-प्रत्ययस्य णिद्वद्भावे सत्यपि नित्यत्वात् सर्वनामस्थाने च असम्बुद्धौ (6.4.8) इत्यनेनैव उपधादीर्घः भवति, अतः उपधायाः (7.2.116) इत्यनेन न । सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः एव नास्ति, यतः अस्मिन् सूत्रे ‘असम्बुद्धौ’ इति अनुवर्तते । अतः अस्य ‘मुनि’ शब्दवदेव एङ्ह्रस्वात्सम्बुद्धेः (6.1.69) इत्यनेन अङ्गस्य गुणादेशे कृते ‘हे सखे’ इति रूपम् सिद्ध्यति ।
Sutrartha (English)¶
The word सखि gets an अनङ्-आदेश when it is followed by सुँ-प्रत्यय of प्रथमा-एकवचन.
Vasu English Summary¶
अनङ् (अन्) is substituted for the इ of सखि before सु of the Nominative 1st-Case singular (but not in the Vocative Case singular).
Vasu English Translation¶
अनङ् (अन्) is substituted for the इ of सखि before सु of the Nominative 1st-Case singular (but not in the Vocative Case singular). As सखा, but हे सखे ॥
Kashika¶
सखिशब्दस्य सौ परतोऽनङित्ययमादेशो भवति, स चेत् सुशब्दः संबुद्धिर्न भवति। सखा। असंबुद्धाविति किम्? हे सखे॥
Siddhanta Kaumudi¶
सख्युरङ्गस्याऽनङादेशः स्यादसंबुद्धौ सौ परे । ङिच्च (SK43) इत्यन्तादेशः ॥
Laghu Siddhanta Kaumudi¶
सख्युरङ्गस्यानङादेशोऽसम्बुद्धौ सौ॥
Balamanorama¶
अनङ् सौ - अनङ् सौ । ‘सख्युरसम्बुद्धौ’ इत्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतं । तदाह — सख्युरङ्गस्येत्यादिना । ‘सौ’ इति प्रथमैकवचनम्, नतु सप्तमीबहुवचनम्,असम्बुद्धा॑विति पर्युदासात् । अनङि ङकार इत् । नकारादकार उच्चारणार्थः । अनेकाल्त्वात्सर्वादेशत्वमाशह्क्याह — ङिच्चेति ।
Tattvabodhini¶
अनङ् सौ - अनङ् सौ । नकारादकार उच्चारणार्थः ।असंबुद्धौ॑ इति पर्युदासात्साविति प्रथमैकवचनं गृह्रते, न तु सप्तमीबहुवचनम् ।सौर्डा॑ इत्येव सिद्धे अनङिधामन्यातोऽपि स्यादिति ज्ञापनार्थम्, तेन उशनसः संबुद्धावनङ् सिह्रतीति प्राञ्चः । यद्यपिसोर्डे॑ त्युक्तेऋदुशन -॑ इत्युत्तरसूत्रेणापि ङा स्यात् । ततश्चउशने॑त्यत्रसर्वनामस्थाने चाऽसंबुद्धौ॑इति दीर्घः स्यात् ।॒पुरुदंसे॑त्यत्र तुसान्तमहतः॑इति दीर्घः स्यात्, तथापि संज्ञापूर्वकविधेरनित्यत्वादङ्गवृत्तपरिभाषया वा कतत्समाधेयमिति तेषामाशयः ।
Padamanjari¶
सर्वनामस्थानप्रकरणात्सम्बुद्धिपर्युदासाच्च सौ इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, आकारविधाने सोर्हल्ङ्यादिलोपो न स्यात् एवं तर्हि सोर्ङदेशो विधीयताम्, तएवं सिद्धे यदनण्ंó शास्ति तज्ज्ञापयति - अनङ् एव क्वचिच्छ्रवणमस्तीति । तेन यद्वक्ष्यति - सम्बुद्धावपि पक्षेऽनाङ्ष्यिते इति, तदुपपन्नं भवति ॥
Nyaas¶
पूर्वेण णित्त्वे प्राप्तेऽनङ्? विधीयते। तस्य ङकारोऽन्त्यादेशार्थः। अकार उच्चारणार्थः। सखा इति। सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति दीर्घः, हल्ङ्यादिसुलोपः, (6.1.66) , नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारस्य। आकारे विदातव्येऽनङ्वचनं सोर्लोपो यथा स्यात्। अकारविधाने तस्य लोपो न स्यात्, यथा - पन्था इति॥
Praudhamanorama¶
‘सोर्डा’ इत्येव सिद्धे अनङ्विधानमन्यतोऽपि स्यादिति ज्ञापनार्थम्। तेन उशनसः सम्बुद्धौ अनङ् सिध्यतीति प्राञ्चः। तच्चिन्त्यम्। सोर्डेत्युक्ते हि ‘ऋदुशनस्’ इत्युत्तरसूत्रेणापि डा स्यात्। ततश्च उशनेत्यत्र ‘सर्वनामस्थाने चाऽसम्बुद्धौ’ इति दीर्घः स्यात्। पुरुदंसेत्यत्र ‘सान्तमहत’ इति दीर्घः स्यात्। यद्वा, ‘संज्ञापूर्वको विधिरनित्यः’ इति वा अङ्गवृत्तपरिभाषया वा समाधानं बोध्यम्। हल्ङ्याब्भ्यो (6.1.68) दीर्घादित्येतन्ङ्यापोरेव विशेषणम्, न तु हलोऽसम्भवात् इत्याह—
Prakriyasarvasvam¶
सखिशब्दस्यासम्बुद्धौ सौ परे अनङ् स्यात् । ङित्त्वादन्त्यस्य सखन् स्,
Sarala¶
सख्युरसम्बुद्धौ (७.१.९२) इति वर्त्तते, अङ्गस्य (६.४.१) इति चाधिकृतन्दाह - सख्युरिति ॥
Sudha¶
अनङ् साविति । सख्युरसम्बुद्धौ**(7.1.92) इत्यनुवर्तते । **अङ्गस्य**(6.4.1) इत्यधिकृतम् । तदाह – **सख्युरङ्गस्येत्यादिना ।