71092: सख्युरसम्बुद्धौ ====================== **Padacheda:** सख्युः | S | 5 | 1 | असम्बुद्धौ | S | 7 | 1 | Sutrartha --------- **सखि-शब्दात् विहितः असम्बुद्धिवाचकः सर्वनामस्थानप्रत्ययः णित्वत् भवति ।** 'सखि' अयम् कश्चन इकारान्तशब्दः । अस्मात् शब्दात् परस्य सर्वनामस्थानसंज्ञक-प्रत्ययस्य णित्वत् कार्यं भवति । परन्तु सम्बोधन-एकवचनस्य सुँ-प्रत्ययस्य णित्वत्भावः न भवति । यथा - 1. सखि + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → सखै + औ / औट् [**सख्युरसम्बुद्धौ** (7.1.92) इति औ/औट्-प्रत्यययोः णित्-अतिदेशः । अतः **अचो ञ्णिति** (7.2.115) इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः] → सखाय् + औ / औट् [**एचोऽयवायावः** (6.1.78) इति आय्-आदेशः] → सखायौ 2. सखि + जस् [प्रथमा-बहुवचनस्य प्रत्ययः] → सखै + अस् [**सख्युरसम्बुद्धौ** (7.1.92) इति जस्-प्रत्ययस्य णित्-अतिदेशः । अतः **अचो ञ्णिति** (7.2.115) इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः] → सखाय् अस् [**एचोऽयवायावः** (6.1.78) इति आय्-आदेशः] → सखायः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम् । **खरवसानर्योविसर्जनीयः** (8.3.15) इति विसर्गः] 3. सखि + अम् [द्वितीयैकवचनस्य प्रत्ययः] → सखै + अम् [**सख्युरसम्बुद्धौ** (7.1.92) इति अम्-प्रत्ययस्य णित्-अतिदेशः । अतः **अचो ञ्णिति** (7.2.115) इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः] → सखाय् अम् [**एचोऽयवायावः** (6.1.78) इति आय्-आदेशः] → सखायम् 4. सखि-शब्दस्य प्रथमैकवचनस्य प्रत्यये परे अस्य सूत्रस्य अवकाशे प्राप्तेऽपि **सर्वनामस्थाने च असम्बुद्धौ** (6.4.8) इत्यस्य नित्यत्वात् तस्यैव प्रयोगः भवति - सखि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → सख् अनङ् + स् [**अनङ् सौ** (7.1.93) इति सखि-शब्दस्य अनङ्-आदेशः] → सखन् + स् [इत्संज्ञालोपः] अस्यामवस्थायाम् - अ) **सर्वनामस्थाने च असम्बुद्धौ** (6.4.8) इत्यनेन असम्बुद्धौ-सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधादीर्घः (=आकारः) प्राप्नोति , तथा आ) **सख्युरसम्बुद्धौ** (7.1.92) इति सुँ-प्रत्ययस्य णित्-अतिदेशे कृते **अतः उपधायाः** (7.2.116) इति अङ्गस्य उपधावर्णस्य वृद्धिः (=आकारः) अपि प्राप्नोति । अत्र एताभ्यां सूत्राभ्याम् **अतः उपधायाः** (7.2.116) इत्यस्य अपेक्षया **सर्वनामस्थाने च असम्बुद्धौ** (6.4.8) इति सूत्रम् नित्यमस्ति यतः अस्य सूत्रस्य प्रयोगः **अतः उपधायाः** (7.2.116) इत्यस्मात् अनन्तरमपि भवितुमर्हति, परन्तु **सर्वनामस्थाने च असम्बुद्धौ** (6.4.8) इत्यस्य प्रयोगं कुर्मश्चेत् **अतः उपधायाः** (7.2.116) इत्यस्य अवकाशः (= उपधा-अकारः) एव विनश्यति । अतः अत्र 'सखान् स्' इति स्थिते **पूर्वपरनित्यन्तरङ्गापवादानामुत्तरोत्तरं बलीयः** अनया परिभाषया नित्यसूत्रस्यैव प्रयोगः क्रियते - → सखान् स् [**सर्वनामस्थाने च असम्बुद्धौ** (6.4.8) इति उपधादीर्घः] → सखान् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → सखा [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति प्रातिपदिकसंज्ञकस्य पदस्य अन्तिमनकारस्य लोपः । अत्र यद्यपि प्रातिपदिकम् 'सखि' इति अस्ति, तथापि **एकदेशविकृतमनन्यवत्** अनया परिभाषया 'सखा' शब्दस्य अपि प्रातिपदिकत्वं जायते ।] 5. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः एव नास्ति, यतः अस्मिन् सूत्रे 'असम्बुद्धौ' इति उक्तमस्ति । अस्य 'मुनि' शब्दवदेव **एङ्ह्रस्वात्सम्बुद्धेः** (6.1.69) इत्यनेन अङ्गस्य गुणादेशे कृते 'हे सखे' इति रूपम् सिद्ध्यति । ज्ञातव्यम् - 1. अनेन सूत्रेण सखि-शब्दात् परस्य सर्वनामस्थानसंज्ञकप्रत्यये 'णित्' गुणस्य आरोपणम् भवति, अतः एतत् सूत्रम् 'अतिदेशसूत्रम्' नाम्ना ज्ञायते । **अन्यतुल्यत्वविधानमतिदेशः** इति अतिदेशस्य व्याख्या । 2. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः **उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्** अनया परिभाषया अत्र सप्तमीनिर्दिष्टः शब्दः स्थानिनः कार्यं करोति । अतएव णित्-गुणः सर्वनामस्थानस्य भवति, 'सखि'शब्दस्य न । 3. वर्तमानसूत्रेण सखि-इत्यस्य अङ्गस्य वृद्धिं कृत्वा 'ऐ' इति अन्तिमवर्णनिर्माणम् भवति, यस्मात् परः **प्रथमयोः पूर्वसवर्णः** (6.1.102) , **जसि च** (7.3.109), **अमि पूर्वः** (6.1.107) एतेषु कस्यापि प्रसक्तिः एव नास्ति । Sutrartha (English) ------------------- The सर्वनामस्थानप्रत्यय not belonging to सम्बोधन-एकवचन when attached to the word सखि becomes णित्. Vasu English Summary -------------------- After सखि, the endings of the strong cases, with the exception of the Vocative Case singular are णित्। Vasu English Translation ------------------------ After सखि, the endings of the strong cases, with the exception of the Vocative Case singular are णित्। That is, they cause *Vriddhi*. As सखायौ, सखायः, but हे सखे ॥ Kashika ------- असंबुद्धौ यः सखिशब्दः तस्मात् परं सर्वनामस्थानं णिद् भवति। सखायौ, सखायः। असंबुद्धाविति किम्? हे सखे॥ Siddhanta Kaumudi ----------------- सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥ Balamanorama ------------ **सख्युरसम्बुद्धौ** - सखि-औ इति स्थिते णित्कार्यं वृदिंध वक्ष्यन् णिद्वद्भावं दर्शयति-सख्युरसम्बुद्धो ।सख्यु॑रिति दिग्योगे पञ्चमी ।अङ्स्ये॑त्यधिकृतं पञ्चम्या विपरिणम्यते । 'पर' मित्यध्याहार्यम् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यनुवर्तते ।असम्बुद्धा॑वित्यभेदेनान्वेति ।गोतो णि॑दित्यतोणि॑दिति प्रथमान्तमनुवृत्तम् । तत्सामानाधिकारण्यादसम्बुद्धा॑विति सर्वनामस्थाने॑इति च सप्तमी प्रथमा कल्प्यते । तदाह-सख्युरङ्गादित्यादिना । णिद्वदिति । णित्कार्यकृत्स्यादित्यर्थः । णिच्छब्दस्तत्कार्यातिदेशार्थ इति भावः । Tattvabodhini ------------- **सख्युरसम्बुद्धौ** - सख्युरसंबुद्धौ । इहइतोऽत्सर्वनामस्थाने॑इत्यतः॒सर्वनामस्थाने॑इत्यनुवर्तते, तदसंबुद्धावित्यनेन विशेष्यते ।गोतो णि॑दिति सूत्राण्णिदित्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यत इत्याह — संबुद्धिवर्ज्ज सर्वनामस्थानमिति ।सख्युरसंबुद्धि॑रित्येव सूत्रयितुं युक्तमिति मनोरमायां स्थितम् । ननु॒सखे॑त्यत्रोपधादीर्घे बाधित्वना परत्वाद॒त उपधाया॑इति वृद्ध्या भाव्यं, सोर्णित्त्वादिति चेदत्राहुः-कृताऽकृतप्रसङ्गित्वमात्रेणापि नित्यत्वस्वीकारात्, अन्तरङ्गत्वाच्चसखे॑त्यत्र वृदिंध बाधित्वासर्वानामस्थाने चासंबुद्धौ॑ इत्युपधादीर्घेणैव भवतव्यम्,सख्युरसंबुद्धा॑विति णिद्वद्बावमुपजीव्याऽत्र पर्वर्तमानस्यअत उपाधायाः॑इत्यस्य बहिरङ्गत्वादिति । Nyaas ----- `असम्बुद्धौ` इति पर्युदासः - सम्बुद्धेरन्याऽसम्बुद्धिः। `हे सखे` इति। `ह्रस्वस्य गणः` (7.3.108) इति गुणः॥ Praudhamanorama --------------- इह 'इतोऽत्सर्वनामस्थाने' इत्यतः 'सर्वनामस्थाने' इत्यनुवर्तते। तत् 'असम्बुद्धौ' इत्यनेन विशेष्यते। 'गोतो णित्' इति सूत्राद् 'णित्' इत्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यत इत्याह— **सम्बुद्धिवर्जं सर्वनामस्थानमिति।** सख्युरसंबुद्धिरित्येव तु सूत्रं युक्तम्। Prakriyasarvasvam ----------------- सम्बुद्धेरन्यत्र सख्युः परं सर्वनामस्थानं णिद्वत् स्यात् । वृद्धिः । आयादेशः । सखायौ । सखायः । सम्बुद्धौ तु णिद्वत्त्वमनङ् च न । हे सखे । सखायम् । सखायौ । सखीन् । 'शेषो घ्यसखि' (१-४-७) इत्यघित्वात्नात्वं गुणश्च न । यण् । सख्या । सख्ये । सख्युम् ॥ Sudha ----- **सख्युरसम्बुद्धाविति ।** इह **इतोऽत् सर्वनामस्थाने**(7.1.86) इत्यतः सर्वनामस्थाने इत्यनुवर्तते तदसम्बुद्धावित्यनेन विशेष्यते । **गोतो णित्**(7.1.90) इति सूत्राण्णिदित्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यते, इत्याह - **सम्बुद्धिवर्जमित्यादिना ।**