71057: गोः पादान्ते¶
Padacheda: गोः | S | 5 | 1 |
पादान्ते | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After गो when standing at the end of a ऋक् verse, the augment न् comes before the Genitive 6th-Case plural आम् ।
Vasu English Translation¶
After गो when standing at the end of a ऋक् verse, the augment न् comes before the Genitive 6th-Case plural आम् । As विद्माहि त्वा सत्पतिं शूरगोनाम्; but गवां गोत्रमुदसृजो यदङ्गिरः in the beginning of a Pada. “All rules have exceptions in the Vedas” is an established maxim, so at the end of a Pada, sometimes this rule does not apply, as हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
Kashika¶
गो इत्येतस्मादृक्पादान्ते वर्तमानादुत्तरस्यामो नुडागमो भवति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ०१०.४७.१)। पादान्त इति किम्? गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः (ऋ०२.२३.१८)। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति पादान्तेऽपि क्वचिद् न भवति। ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् (ऋ० १०.१६६.१)॥
Siddhanta Kaumudi¶
विद्मा हि त्वा गोपतिं शूर गोनाम् (वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म्) । पादान्ते किम् । गवां शता पृक्षयामेषु (गवां॑ श॒ता पृ॒क्षयामेषु) । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् (वि॒राजं॒ गोप॑तिं॒ गवा॑म्) ॥
Padamanjari¶
च्छन्दसि इत्यधिकारदृक्पादस्यै ग्रहणम्, श्लोकपादस्येत्याह - ऋक्पादान्त इति ॥
Nyaas¶
ऋक्पादान्ते वर्तमानात् इति। छन्दसि ऋक्पाद एव सम्भवति, न श्लोकपाद इति ऋक्पादग्रहणम्॥ कुण्डिता, हुण्डता इति। कुडि दाहे (धातुपाठः-270), हुडि सङ्घाते (धातुपाठः-269) - आभ्यां तृच्, इट्, ऋदुशनस् (7.1.94) इत्यादिनानङ्।किमयं धातूपदेशावस्थायामेव नुमु विधीयते? इत्याह - `कुण्डा, हुणडा इत्यादि। यदि प्रत्यय उत्पन्ने नुम्? स्यात्, तद प्रत्ययविघधानवेलायं कुडिडुडओरगुरुत्वात्? क्तिन्नेव स्यात्, न त्वकारप्रत्ययः, स चेध्यते। तस्मात्? तदर्थं धातूपदेशावस्थायामेव नुम्? भवतीत्यवसीयते। कथं पुनर्धातूपदेशावस्थायां नुम्? भवतीत्यवसीयते, यावतात्रोपदेशग्रहणं नास्ति? इत्याह - तथा हि इत्यादि। धिन्विकृण्ष्योर च (3.1.80) इत्युप्रत्ययविधानकाले नुमनुषक्तयोग्र्रहणं सनुम्कयोरेव प्रकृततवं यथा स्यात्। एवं सनुम्कयोः परकृतत्वं भवति यद्युपदेशावस्थायामेव नुम्? भवति, नान्यथा। तस्मान्नुमनुषक्तयोग्र्रहणाज्ज्ञापकादवसीयते - धातूपदेशावस्थायामेव नुम्? भवतात्। तस्य ह्रतत्? प्रयोजनम् - उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम्? भवतीति। तस्य ह्रतत्? प्रयोजनम् - उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम भवितव्यम्, तत्र लक्षणवशादेव धिन्विकृच्च्योर च (3.1.80) इति नुमनुषक्तयोग्र्रहणम्, तत्कथमस्यार्थस्य ग्रहणं ज्ञापकम्? नैतदस्ति; न हि धिन्विकृण्व्योर च (3.1.80) इत्ययमिका निर्देशः, स हि रोगाख्यायां ष्वुल्? बहुलम् (3.3.108) इति बहुलवचनेन सन्निधानात्? क्वचिदेव भवति न सर्वत्र। एवञ्च गुप्तिज्किद्भ्यः सन् (3.1.5) इत्येवमादयो निर्देशा उपपद्यन्ते। तस्मात्? धिन्विकृण्व्योः (3.1.80) इति नायमिका निर्द्देशः, किं तर्हि? उच्चारणार्थेनेकारेण, यथा - इन्धिभवतिभ्याम् (1.2.6) इत्यत्रेकारेण निर्द्देशः; अन्यथा अनिदिताम् (6.4.24) इत्यादिनानुनासिकलोपः स्यात्। अथापि हि धिन्विकृण्व्योः (3.1.80) इतीका निर्देशः स्यात्, एवमपि यदि धातूपदेशावस्थायामेव नुम्भवतीत्ययमर्थो ज्ञापयितुं नाभीष्टः स्यात्, ततो लाघवार्थमनितयत्वादागमशासनस्य नुममकृत्वैव निर्द्देशं कुर्यात्, यथा - युवोरनाकौ (7.1.1) इत्यत्र द्वन्द्वैकवद्भावपक्ष उक्तम्। तस्मान्नुमनुषक्तयोग्र्रहणं ज्ञापकमेव धातुग्रहणादप्यवसीयते। नुमुपदेशावस्थायामेव भवतीति दर्शयितुमाह - धातुग्रहणं च इत्यादि। धातुसंज्ञाप्रवृत्तिकालो धातूपदेशकालः, तत्रैव नुम्? भवतीत्येवमर्थमिह धातुग्रहणं क्रियते। तस्मादतोऽपि धातुग्रहणादुपदेशवस्थाया मेव नुम्? भवतीति ज्ञायते, न ह्रन्यद्धातुग्रहणस्य प्रयोजनमस्तीत्यभिप्रायः। ननु च भेत्ता, अभैत्सोदित्यत्राघात्वोस्तासिस्चोरिदितीर्नुम्? मा भूदित्येवमर्थं धातुग्रहणं स्यात्? इत्याह - तासिसिचोः इत्यादि। यदि तासिसिचोरिदित्कार्यं स्यात्, तदेकारस्येत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायेत, न चास्ति प्रयोजनमिति न प्रतिज्ञायते; ततश्च निरनुनासिकोऽप्रतिलब्धेत्संज्ञक उच्चारणार्थं एवानयोरिकारः पठत इति नुमः प्रसङ्ग एव नास्ति, तत्? किं तन्निवृत्त्यर्थेन धातुग्रहणेन! ननु चारंस्त, अमंस्त, मन्त#आ, संगन्तेत्यत्र अनिदिताम् (6.4.24) इत्यनुनासिकलोपो मा भूदित्येवमर्थं तासिसिचोरिदित्कार्यम्, तत्? किमुच्यते इदित्कार्यं तासिसिचोर्नास्ति? इत्यत आह - अरंस्त, अमंस्त इत्यादि। हनः सिच् (1.2.14) इति कित्त्वविधावस्यैतत्प्रयोजनम् - आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिज्न्तस्यानुनासिकलोपः सार्वधातुकङित्त्वमाश्रित्य स्यात्? हनः सिच् (1.2.14) इति कित्त्वमनर्थकं स्यात्, प्रयोजनाभावात्? नैतदस्ति; अस्ति ह्रन्यत्? कित्त्वविधानस्य प्रयोजनम् - अनुदात्तोपदेश (6.4.37) इत्यादिना सिच्यनुनासिकलोपो यथा स्यादिति; अनिदताम् (6.4.24) इत्यादिना सिजन्तस्य सार्वधातुके मा भूदिति। कः पुनरत्र विशेषः - सार्वधातुके ङिति वा? सिचि किति वा? अयमस्ति विशेषः - समानाश्रये सिच्यनुनासिकलोपस्यासिद्धत्वादतो लोपो (6.4.48) न भवति; सार्वधातुके तूपधालोपे तस्य व्याश्रयत्वेनासिद्धत्वाभावादतो लोपः स्यादेव। नैषोऽस्ति विशेषः; अतो लोपविधौ अनुदात्तोपदेश (6.4.37) इत्यादेः सूत्रादुपदेशग्रहणमनुवर्तते, तेनार्थधातुकोपदेशे यदकारान्तमङ्गं तस्य लोपो विज्ञायते; न चाहतेत्यत्रोपदेशेन्कारान्तमेतत्। तस्मात्? हनः सिच् (1.2.14) इति कित्त्वविधानसामर्थ्यादरंस्तेत्यादौ नकारलोपो न भवति। तदेवं सिच इदित्कार्यं न भवतीति प्रतिपादितम्। इदानीं तासेरप्यनुनासिकलोपाभाव इदित्कार्यं न भवतीति प्रतिपादयितुमाह - मन्ता इत्यादि। नकारलोपो न भवतीति प्रकृतेन सम्बन्धः। उपधानकारस्य अनिदिताम् (6.4.24) इत्यादिना लोप उच्यते। न च मक्तेत्यत्र नकार उपधा भवति; टिलोपस्यासिद्धत्वात्। तस्मात्? तासेरपीदित्कार्यं न विद्यते। ततश्च युक्तमुक्तम् - तासिसिचोरिदित्कार्य नास्ति इति। अथ नुमागम इदित्कार्यं कस्मान्न भवति? अनिष्टत्वात्। न ह्रनिष्टं कार्यं शास्त्रे परिकल्पयितुं युक्तम्। यदि तर्हि तासेर्निरनुनासिक इकारः उच्चारणार्थः, एवं तर्हि स्यतासी लृलुटोः (3.1.33) इत्यत्र यदुक्तम् - इदित्करणमनुनासिकलोपप्रतिबन्धर्थम्, तत्कथं न विरुध्यते? यथा न विरुध्यते तदा तत्रैवोक्तम्। अथ भिदिरित्येवमादीनां नुम्? कस्मान्न भवति, स्ति ह्रेषामपीकार इत्संज्ञकः? इत्याह - हरिताम् इत्यादि। भिदिर्प्रभृतयो हीरितः, न त्विदितः; यस्मात्? इर उपसंख्यानम् (1.3.7।वा) इति रेफेकारस्य समुदायस्य तेषामित्संज्ञा, न प्रत्येकमवयवस्य। तत्रेदितामुच्यमानो नुम्? कः प्रसङ्गो यदिरितां स्यात्!स्यादेतत् - उपदेशेऽजनुनासिक इत् (1.3.2) इतीत्संज्ञेकारस्य, हलन्त्यम् (1.3.3) इति रेफस्य, तस्मादस्त्येव तेषामिदित्त्वम्? इत्याह - अवयवस्यापि इति। गतार्थम्॥
Prakriyasarvasvam¶
ऋक् पादान्ते गोर्नुट् स्यात् । गोपति शूरगोनाम् । अपादान्ते न । गवां गोत्रम् । छन्दसि विधीनां विकल्पात् पादान्तेऽपि क्वचिन्न । विराजं गोपति गवाम् ।
Sutra Prayogas¶
विजिगीषुः (भट्टिकाव्यम्): सन्- लिटोजः इति कुत्वम्।