71057: गोः पादान्ते =================== **Padacheda:** गोः | S | 5 | 1 | पादान्ते | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After गो when standing at the end of a ऋक् verse, the augment न् comes before the Genitive 6th-Case plural आम् । Vasu English Translation ------------------------ After गो when standing at the end of a ऋक् verse, the augment न् comes before the Genitive 6th-Case plural आम् । As विद्माहि त्वा सत्पतिं शूरगोनाम्; but गवां गोत्रमुदसृजो यदङ्गिरः in the beginning of a *Pada*. "All rules have exceptions in the Vedas" is an established maxim, so at the end of a *Pada*, sometimes this rule does not apply, as हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ Kashika ------- गो इत्येतस्मादृक्पादान्ते वर्तमानादुत्तरस्यामो नुडागमो भवति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ०१०.४७.१)। पादान्त इति किम्? गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः (ऋ०२.२३.१८)। **सर्वे विधयश्छन्दसि विकल्प्यन्ते** इति पादान्तेऽपि क्वचिद् न भवति। ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् (ऋ० १०.१६६.१)॥ Siddhanta Kaumudi ----------------- विद्मा हि त्वा गोपतिं शूर गोनाम् (वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म्) । पादान्ते किम् । गवां शता पृक्षयामेषु (गवां॑ श॒ता पृ॒क्षयामेषु) । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् (वि॒राजं॒ गोप॑तिं॒ गवा॑म्) ॥ Padamanjari ----------- च्छन्दसि इत्यधिकारदृक्पादस्यै ग्रहणम्, श्लोकपादस्येत्याह - ऋक्पादान्त इति ॥ Nyaas ----- `ऋक्पादान्ते वर्तमानात्` इति। छन्दसि ऋक्पाद एव सम्भवति, न श्लोकपाद इति ऋक्पादग्रहणम्॥ `कुण्डिता, हुण्डता` इति। `कुडि दाहे` (धातुपाठः-270), `हुडि सङ्घाते` (धातुपाठः-269) - आभ्यां तृच्, इट्, `ऋदुशनस्` (7.1.94) इत्यादिनानङ्।`किमयं धातूपदेशावस्थायामेव नुमु विधीयते? इत्याह - `कुण्डा, हुणडा` इत्यादि। यदि प्रत्यय उत्पन्ने नुम्? स्यात्, तद प्रत्ययविघधानवेलायं कुडिडुडओरगुरुत्वात्? क्तिन्नेव स्यात्, न त्वकारप्रत्ययः, स चेध्यते। तस्मात्? तदर्थं धातूपदेशावस्थायामेव नुम्? भवतीत्यवसीयते। कथं पुनर्धातूपदेशावस्थायां नुम्? भवतीत्यवसीयते, यावतात्रोपदेशग्रहणं नास्ति? इत्याह - `तथा हि` इत्यादि। `धिन्विकृण्ष्योर च` (3.1.80) इत्युप्रत्ययविधानकाले नुमनुषक्तयोग्र्रहणं सनुम्कयोरेव प्रकृततवं यथा स्यात्। एवं सनुम्कयोः परकृतत्वं भवति यद्युपदेशावस्थायामेव नुम्? भवति, नान्यथा। तस्मान्नुमनुषक्तयोग्र्रहणाज्ज्ञापकादवसीयते - धातूपदेशावस्थायामेव नुम्? भवतात्। तस्य ह्रतत्? प्रयोजनम् - उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम्? भवतीति। तस्य ह्रतत्? प्रयोजनम् - उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम भवितव्यम्, तत्र लक्षणवशादेव `धिन्विकृच्च्योर च` (3.1.80) इति नुमनुषक्तयोग्र्रहणम्, तत्कथमस्यार्थस्य ग्रहणं ज्ञापकम्? नैतदस्ति; न हि **धिन्विकृण्व्योर च** (3.1.80) इत्ययमिका निर्देशः, स हि `रोगाख्यायां ष्वुल्? बहुलम्` (3.3.108) इति बहुलवचनेन सन्निधानात्? क्वचिदेव भवति न सर्वत्र। एवञ्च **गुप्तिज्किद्भ्यः सन्** (3.1.5) इत्येवमादयो निर्देशा उपपद्यन्ते। तस्मात्? `धिन्विकृण्व्योः` (3.1.80) इति नायमिका निर्द्देशः, किं तर्हि? उच्चारणार्थेनेकारेण, यथा - `इन्धिभवतिभ्याम्` (1.2.6) इत्यत्रेकारेण निर्द्देशः; अन्यथा `अनिदिताम्` (6.4.24) इत्यादिनानुनासिकलोपः स्यात्। अथापि हि `धिन्विकृण्व्योः` (3.1.80) इतीका निर्देशः स्यात्, एवमपि यदि धातूपदेशावस्थायामेव नुम्भवतीत्ययमर्थो ज्ञापयितुं नाभीष्टः स्यात्, ततो लाघवार्थमनितयत्वादागमशासनस्य नुममकृत्वैव निर्द्देशं कुर्यात्, यथा - **युवोरनाकौ** (7.1.1) इत्यत्र द्वन्द्वैकवद्भावपक्ष उक्तम्। तस्मान्नुमनुषक्तयोग्र्रहणं ज्ञापकमेव धातुग्रहणादप्यवसीयते। नुमुपदेशावस्थायामेव भवतीति दर्शयितुमाह - `धातुग्रहणं च` इत्यादि। धातुसंज्ञाप्रवृत्तिकालो धातूपदेशकालः, तत्रैव नुम्? भवतीत्येवमर्थमिह धातुग्रहणं क्रियते। तस्मादतोऽपि धातुग्रहणादुपदेशवस्थाया मेव नुम्? भवतीति ज्ञायते, न ह्रन्यद्धातुग्रहणस्य प्रयोजनमस्तीत्यभिप्रायः। ननु च भेत्ता, अभैत्सोदित्यत्राघात्वोस्तासिस्चोरिदितीर्नुम्? मा भूदित्येवमर्थं धातुग्रहणं स्यात्? इत्याह - `तासिसिचोः` इत्यादि। यदि तासिसिचोरिदित्कार्यं स्यात्, तदेकारस्येत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायेत, न चास्ति प्रयोजनमिति न प्रतिज्ञायते; ततश्च निरनुनासिकोऽप्रतिलब्धेत्संज्ञक उच्चारणार्थं एवानयोरिकारः पठत इति नुमः प्रसङ्ग एव नास्ति, तत्? किं तन्निवृत्त्यर्थेन धातुग्रहणेन! ननु चारंस्त, अमंस्त, मन्त#आ, संगन्तेत्यत्र `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपो मा भूदित्येवमर्थं तासिसिचोरिदित्कार्यम्, तत्? किमुच्यते इदित्कार्यं तासिसिचोर्नास्ति? इत्यत आह - `अरंस्त, अमंस्त` इत्यादि। **हनः सिच्** (1.2.14) इति कित्त्वविधावस्यैतत्प्रयोजनम् - आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिज्न्तस्यानुनासिकलोपः सार्वधातुकङित्त्वमाश्रित्य स्यात्? **हनः सिच्** (1.2.14) इति कित्त्वमनर्थकं स्यात्, प्रयोजनाभावात्? नैतदस्ति; अस्ति ह्रन्यत्? कित्त्वविधानस्य प्रयोजनम् - `अनुदात्तोपदेश` (6.4.37) इत्यादिना सिच्यनुनासिकलोपो यथा स्यादिति; `अनिदताम्` (6.4.24) इत्यादिना सिजन्तस्य सार्वधातुके मा भूदिति। कः पुनरत्र विशेषः - सार्वधातुके ङिति वा? सिचि किति वा? अयमस्ति विशेषः - समानाश्रये सिच्यनुनासिकलोपस्यासिद्धत्वादतो लोपो (6.4.48) न भवति; सार्वधातुके तूपधालोपे तस्य व्याश्रयत्वेनासिद्धत्वाभावादतो लोपः स्यादेव। नैषोऽस्ति विशेषः; अतो लोपविधौ `अनुदात्तोपदेश` (6.4.37) इत्यादेः सूत्रादुपदेशग्रहणमनुवर्तते, तेनार्थधातुकोपदेशे यदकारान्तमङ्गं तस्य लोपो विज्ञायते; न चाहतेत्यत्रोपदेशेन्कारान्तमेतत्। तस्मात्? **हनः सिच्** (1.2.14) इति कित्त्वविधानसामर्थ्यादरंस्तेत्यादौ नकारलोपो न भवति। तदेवं सिच इदित्कार्यं न भवतीति प्रतिपादितम्। इदानीं तासेरप्यनुनासिकलोपाभाव इदित्कार्यं न भवतीति प्रतिपादयितुमाह - `मन्ता` इत्यादि। नकारलोपो न भवतीति प्रकृतेन सम्बन्धः। उपधानकारस्य `अनिदिताम्` (6.4.24) इत्यादिना लोप उच्यते। न च मक्तेत्यत्र नकार उपधा भवति; टिलोपस्यासिद्धत्वात्। तस्मात्? तासेरपीदित्कार्यं न विद्यते। ततश्च युक्तमुक्तम् - `तासिसिचोरिदित्कार्य नास्ति` इति। अथ नुमागम इदित्कार्यं कस्मान्न भवति? अनिष्टत्वात्। न ह्रनिष्टं कार्यं शास्त्रे परिकल्पयितुं युक्तम्। यदि तर्हि तासेर्निरनुनासिक इकारः उच्चारणार्थः, एवं तर्हि **स्यतासी लृलुटोः** (3.1.33) इत्यत्र यदुक्तम् - `इदित्करणमनुनासिकलोपप्रतिबन्धर्थम्`, तत्कथं न विरुध्यते? यथा न विरुध्यते तदा तत्रैवोक्तम्। अथ भिदिरित्येवमादीनां नुम्? कस्मान्न भवति, स्ति ह्रेषामपीकार इत्संज्ञकः? इत्याह - `हरिताम्` इत्यादि। भिदिर्प्रभृतयो हीरितः, न त्विदितः; यस्मात्? `इर उपसंख्यानम्` (1.3.7।वा) इति रेफेकारस्य समुदायस्य तेषामित्संज्ञा, न प्रत्येकमवयवस्य। तत्रेदितामुच्यमानो नुम्? कः प्रसङ्गो यदिरितां स्यात्!स्यादेतत् - **उपदेशेऽजनुनासिक इत्** (1.3.2) इतीत्संज्ञेकारस्य, **हलन्त्यम्** (1.3.3) इति रेफस्य, तस्मादस्त्येव तेषामिदित्त्वम्? इत्याह - `अवयवस्यापि` इति। गतार्थम्॥ Prakriyasarvasvam ----------------- ऋक् पादान्ते गोर्नुट् स्यात् । गोपति शूरगोनाम् । अपादान्ते न । गवां गोत्रम् । छन्दसि विधीनां विकल्पात् पादान्तेऽपि क्वचिन्न । विराजं गोपति गवाम् । Sutra Prayogas -------------- * **विजिगीषुः** (भट्टिकाव्यम्): `सन्- लिटोजः` इति कुत्वम्।