71056: श्रीग्रामण्योश्छन्दसि¶
Padacheda: श्री-ग्रामण्योः | S | 6 | 2 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) after the words श्री and ग्रामणी the Genitive 6th-Case plural आम् gets the augment न्।
Vasu English Translation¶
In the छन्दस् (Vedas) after the words श्री and ग्रामणी the Genitive 6th-Case plural आम् gets the augment न्। As श्रीणामुदारो धरुणो रयीणाम्, अन्यत्र सूतग्रामणीनाम् ॥ This sutra could be well dispensed with: by (1.4.5). श्री is optionally a Nadi in the Genitive plural. We make the option of that sutra a vyavasthita-vibhasha, by saying श्री is always Nadi in the Veda, and optionally every where else. As regards सूतग्रामणीनाम्, we have सूतश्च ग्रामणीश्च = सूतग्रामणि, the Genitive Plural of which by (7.1.54) will be सूतग्रामणीनाम् ॥
The necessity of this sutra will, however, arise if the compound be सूताश्च ते ग्रामण्यश्च सूतग्रामण्यः ॥
Bhashya¶
श्रीग्रामण्योश्छन्दसि अयं योगः(1) शक्योऽवक्तुम् ॥ कथं श्रीणामुदारहो धरूणो रयीणाम् । अपि तत्र सूतग्रामणीनाम् ? ॥ इह तावच्छ्रीणामुदारो धरुणो रयीणां, विभाषाऽऽमि नदीसंज्ञा, सा छन्दसि व्यवस्थितविभाषा भविष्यति । अपि तत्र सूतग्रामणीनामिति, सूताश्च ग्रामण्यश्च सूतग्रामणि । तत्र ह्रस्वनद्यापो नुडित्येव सिद्धम् ॥
Kashika¶
श्री ग्रामणी इत्येतयोश्छन्दसि विषय आमो नुडागमो भवति। श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम् (ऋ० १०.४५.५)। अपि तत्र सूतग्रामणीनाम् (काठ०सं० २८.३)। श्रीशब्दस्य वामि (१.४.५) इति विकल्पेन नदीसंज्ञा, तत्र नित्यार्थं वचनम्। सूतग्रामणीनामिति यदा सूताश्च ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थमिदं वचनम्। यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि चेति सूतग्रामणीनामिति, तदा ह्रस्वादित्येव सिद्धम्॥
Siddhanta Kaumudi¶
आमो नुट् श्रीणामुदारो धरुणो रयीणाम् (श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्) । सूतग्रामणीनाम् ॥
Padamanjari¶
नित्यार्थ वचनमिति । अन्यथा भाषायामिव विकल्पः स्यात्, च्छन्दसि नुडेव चेद् दृश्यते, तस्य च लक्षणमस्ति, कोऽयं विकल्पप्रसङ्ग इति चिन्त्यमेतत् । सूताश्च ते ग्रामण्यश्चेति । नेदं कर्मधारयस्य वाक्यम्, किं तर्हि बहुवचनान्तयोर्यदेतरेतरयोगे द्वन्द्वस्तदा नुड्विधेः प्रयोजनम् । यदैकवचनान्तयोः समाहारद्वन्द्वं कृत्वा एकशेषः क्रियते तदा ह्रस्वान्तत्वादेव नुट् सिद्ध इति न प्रयोजनमिति दर्शयति । एवं च तेशब्दो न पठितव्यः । अत्रापि नुडेव चेद् दृश्यते तस्य च निर्वाहोऽस्ति, इतरेतरेतरयोगद्वन्द्वो न करिष्यते, तदेवमिदं सूत्रं भाष्ये प्रत्याख्यातम् ॥
Nyaas¶
श्रीग्रामण्योरिति सम्बन्धलक्षणा षष्ठी। नित्यार्थं `वचनम् इति। श्रीशब्दस्य, न तु ग्रामणीशब्दस्य। तस्तु तु प्राप्त्यर्थमेव। यथैव हि भाषायां नदीसंज्ञापक्षे ह्रस्वनद्यापो नुट् (7.1.54) इति सिध्यति तथा छन्दस्यपि। तस्मान्नित्य यथा स्यादित्येवमर्थम्। असति ह्रस्मिन्? यदा नदीसंज्ञा, तदैव स्यात्, नान्यदा। यदा सूताश्च इत्यादि। एतेनैतद्दर्शयति - यदा सूतशब्दस्य ग्रामणीशब्देन सह कर्मधारयः क्रियते तदा सूतग्रामणीशब्दो न ह्रस्वान्तः न नद्यन्तः, नाप्याबन्त इति न प्राप्नोति, इष्यते च, ततो यथा स्यादित्यवमर्थं वचनम्। यदा सूतग्रामणीशब्दयोः सर्वो द्वन्द्वो विभाषयैकवद्भवति (पु।प।वृ।50) इत्येकवद्भावी द्वन्द्वः, तदा स नपुंसकम् (2.4.17) इति नपुंसकत्वात्, ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति ह्रस्वत्वं कृत्वा बहूनां सूतग्रामणीशब्दानामेकशेषञ्च, ततः षष्ठीबहुवचनं विधीयते। तदा ह्रस्वान्तत्वादेव सिद्धमिति नार्थस्तवर्थेन वचनेन॥
Prakriyasarvasvam¶
अनयोरामि नुट् स्यात् । श्रियो नित्यार्थमुक्तिः । श्रीणामुदारः । सूत- ग्रामणीनाम् ।