71058: इदितो नुम् धातोः¶
Padacheda: इदितः | S | 6 | 1 |
नुम् | S | 1 | 1 |
धातोः | S | 6 | 1 |
Sutrartha¶
इदित्-धातोः नुमागमः भवति ।
यस्मिन् धातौ औपदेशिक-अवस्थायाम् इकारः इत्संज्ञकः अस्ति, तस्य धातोः नुम्-आगमः भवति । अयमागमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः (1.1.47) इत्यनेन अन्त्यात् अचः परः आगच्छति । एतत् नुमागमस्य कार्यम् धातोः प्रकृतेः एव भवति, अत्र किमपि निमित्तम् नापेक्षते । उदाहरणम् - वदिँ (अभिवादनस्तुत्योः) अस्मिन् धातौ इकारः इत्संज्ञकः अस्ति । अतः अस्मिन् धातोः एतादृशम् परिवर्तनम् भवति - वदिँ → वन् द् [इँकारस्य उपदेशेऽजनुनासिक इत् (1.3.2) इति इत्संज्ञा, तस्य लोपः (1.3.9) इति तस्य लोपः । इदितो नुम् धातोः (7.1.58) इति नुमागमः ।] → वं द् [नश्चापदान्तस्य झलि (8.3.24) इति नकारस्य अनुस्वारः] → व न् द् [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति अनुस्वारस्य परसवर्णः नकारः] → वन्द् । अनेनैव प्रकारेण एते धातवः अपि परिवर्तन्ते - 1. अकिँ (लक्षणे) → अन् क् → अंक् → अङ्क् । 2. भजिँ (भाषायाम्) → भन् ज् → भंज् → भञ्ज् । 3. कुठिँ (प्रतिघाते) → कुन् ठ् → कुंठ् → कुण्ठ् । 4. चितिँ (स्मृत्याम्) → चि न् त् → चिंत् → चिन्त् । 5. जभिँ (नाशने) → जन् भ् → जंभ् → जम्भ् । 6. त्रसिँ (भाषायाम्) → त्रन् स् → त्रंस् । अत्र परसवर्णः न भवति, यतः अत्र अग्रे यय्-वर्णः नास्ति । 7. बृहिँ (भाषायाम्) → बृन् ह् → बृंह् । अत्रापि परसवर्णः न भवति, यतः अत्र अग्रे यय्-वर्णः नास्ति । 8. इवि (व्याप्तौ → इन्व् । अत्र नुमागमस्य अनुस्वारः एव न भवति, यतः वकारः झल्-वर्णः नास्ति । अत्र एतत् स्मर्तव्यम् यत् - (1) नकारस्य अनुस्वारनिर्माणम्, (2) अनुस्वारस्य च परसवर्णः - एतत् कार्यद्वयम् त्रिपाद्या क्रियते, अतः तिङ्गन्तकृदन्तप्रक्रियासु प्रायः सर्वत्र अस्य असिद्धत्वमस्ति । यथा, कपिँ धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कपिँ + लट् [वर्त्तमाने लट् (3.2.123) → कन् प् + लट् [इदितो नुम् धातोः (7.1.58) इति नुमागमः] → कन् प् + त [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य ‘त’ प्रत्ययः] → कन् प् + शप् + त [कर्त्तरि शप् (3.1.68) इति औत्सर्गिकम् विकरणम् शप्] → कन् प् अ ते [टित आत्मनेपदानां टेरे (3.4.79) इति एकारादेशः] → कं प् अ ते [नश्चापदान्तस्य झलि (8.3.54) इति नकारस्य अनुस्वारः] → कम्पते [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति अनुस्वारस्य परसवर्णः मकारः] अत्र अनुस्वार-परसवर्णौ अन्ते कृतौ स्तः । ज्ञातव्यम् - 1. येषु धातुषु इकारः इत्संज्ञकः नास्ति, तेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, जिरि (हिंसायाम्) अस्मिन् धातौ रेफात् परः इकारः / जकारात् परः इकारः च इत्संज्ञकौ न स्तः । अतः अस्य धातोः नुमागमः न भवति । 2. येषु धातुषु <! इर इत्संज्ञा वाच्या !> अनेन वार्त्तिकेन ‘इँर्’-इत्यस्य इत्संज्ञा भवति, तेषु धातुषु यद्यपि इकारः अनुनासिकः अस्ति, तथापि प्रयोजनाभावात् तस्य इत्संज्ञा न भवति । अतः एतेषां धातूनामपि नुमागमः न भवति । यथा - दृशिँर् (प्रेक्षणे) अत्र ‘इर्’ इत्यस्य समुदायस्य इत्संज्ञा भवति, अत्र केवल-इँकारः इत्संज्ञकः नास्ति, अतः अस्य नुमागमः न भवति । 3. येषु धातुषु प्रयोगे उपान्त्यस्थाने अनुनासिकः दृश्यते ते सर्वे इदिताः सन्तीति न । केषुचन धातुषु औपदेशिक-स्थितौ एव अनुनासिकम् दत्तमस्ति । यथा - मन्थँ (विलोडने), भञ्जोँ (आमर्दने) आदयः ।
Sutrartha (English)¶
The verb roots that have इकार as इत्संज्ञक get a नुमागम.
Vasu English Summary¶
न् is added after the vowel of a root in a root which has an indicatory इ in the धातुपाठ।
Vasu English Translation¶
न् is added after the vowel of a root in a root which has an indicatory इ in the धातुपाठ। Thus from कुडि — कुण्डितृ, कुण्डितुम्, कुण्डितव्यम्; from हुडि — हुण्डितृ, हुण्डितुम्, हुण्डितव्यम् &c. But पचति, पठति where इ is not इत् ॥ The न् is added to the root from its very inception, and they must be considered to have got a न, for the purposes of the application of the grammatical rules. Thus (3.3.103) says that आ is added in the feminine to a root which ends in a consonant and has a prosodially long vowel. The root कुडि must be considered to be such a root and कुण्डा, हुण्डा are thus formed. Similarly though the roots in the Dhatupatha are धिवि and कृवि, in applying affixes we must consider them as धिन्व् and कृन्व्, as the author himself has indicated in (3.1.80). In short, in adding affixes, these roots should be considered as having न् ॥ Moreover the root (dhatu) should have इ, and not the stem (anga). The affixes तासि (Future) and सिच् (Aorist) when added to roots, will not make those roots इदित्; for the इ in तासि and सिच् is merely for the sake of pronunciation, and is not to be considered as इत् in the strict sense of the word: in fact it should be considered as non-nasalised. If you say that “the इ in सिच् should be considered as इत्, for because of its being इत्, the न् of मन् is not elided by (6.4.24) in अमंस्ता”, we reply, “not so, the न् is not elided, because sutra हनः सिच् (1.2. 14) makes सिच् a कित् after हन् only, the result of which is that हन् only loses its न् by (6.4.37), and no other root”. In मन्ता = मन् + तासि + डा = मन् + त् + आ (the आस् is elided (6.4.143)). For the purposes of the elision of न्, the elided आस् would be considered as asiddha (6.4.22), for both (6.4.143), and (6.4.37), requiring the elision of न् are abhiya sutras. In भेत्ता, छेत्ता from भिदिर् and छिदिर् the whole combination इर् is इत्, and not इ and र् separately, and hence नुम् is not added. But even if these roots be considered as इदित्, the syllable इर् having an इ, yet they will not get the नुम् augment, because the word अन्त of पादान्ते (7.1.57) is understood here in this sutra also, so that the roots must have a final इ as इत् for the application of this rule.
Bhashya¶
इदितो नुम् धातोः अथ धातोरिति किमर्थम् ? ॥ अभैत्सीत् । अच्छैत्सीत्(2) ॥ नुम्विधावुपदेशिवद्वचनं प्रत्ययविध्यर्थम् ॥ नुम्विधावुपदेशिवद्भावो वक्तव्यः । उपदेशात्वस्थायां नुम्भवतीति वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ प्रत्ययविध्यर्थम् । उपदेशावस्थायां नुमि कृते इष्टः प्रत्ययविधिर्यथा स्यात् - कुण्डा हुण्डा इति ॥ इतरथा ह्यनकारे प्रत्ययः ॥ अक्रियमाणे हि उपदेशिवद्भावेऽनकारे यः(1) प्रत्ययः प्राप्नोति स तावत्स्यात्तस्मिन्नवस्थिते नुम् ॥ तत्र को दोषः ? ॥ तत्राऽयथेष्टप्रसङ्गः ॥ तत्राऽयथेष्टं प्रसज्येत । अनिष्टे प्रत्ययेऽवस्थिते नुम् । अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्यते ॥ धातुग्रहणसार्मथ्याद्वा तदुपदेशे नुम्विधानम् ॥ 8 ॥ धातुग्रहणसार्मथ्याद्वा तदुपदेशे - धातूपदेशे - नुम् भविष्यति ॥ ननु च अन्यद्धातुग्रहणस्य प्रयोजनमुक्तम् ? ॥ किं (तत्) ? ॥ अभैत्सीत् । अच्छैत्सीदिति(2) ॥ नैतदस्ति प्रयोजनम् । प्रयोजनं नाम तद्वक्तव्यं यन्नियोगतः स्यात् । यच्चाऽत्रेकारेण क्रियतेऽकारेणापि तच्छक्यं कर्तुम् ॥ ( इदितो ) ॥
Kashika¶
इदितो धातोर्नुमागमो भवति। कुडि — कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। कुण्डा। हुडि — हुण्डिता। हुण्डितुम्। हुण्डा। इदित इति किम्? पचति। पठति। अयं धातूपदेशावस्थायामेव नुमागमो भवति, कुण्डा हुण्डेति गुरोश्च हलः**(३.३.१०३) इत्यकारप्रत्ययो यथा स्यात्। तथा हि **धिन्विकृण्व्योर च (३.१.८०) इति प्रत्ययविधावेव नुमनुषक्तयोर्गर्हणम्। धातुग्रहणं चेह क्रियते धातूपदेशकाल एव नुमागमो यथा स्यादित्येवमर्थम्। तासिसिचोरिदित्कार्यं नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते। अमंस्तेत्येवमादौ हि हनः सिच् (१.२.१४) इति कित्त्वविधानसामर्थ्याद् नकारलोपो न भवति। मन्तेत्यत्रापि असिद्धवदत्राभात् (६.४.२२) इति टिलोपस्यासिद्धत्वाद् नलोपो न भवति। इह कस्माद् न भवति — भेत्ता छेत्तेति? **इरितां समुदायस्येत्संज्ञा**(महाभाष्य १.२६३) इतीदित्त्वं नास्ति। अवयवशोऽपीत्संज्ञायां सत्यां’ गोः पादान्ते’ (७.१.५७) इतोऽन्तग्रहणमनुवर्तयितव्यम्। तेनान्तेदितो धातवो गृह्यन्ते॥
Siddhanta Kaumudi¶
स्कुन्दते । चुस्कुन्दे ।{$ {!10 श्विदि!} श्वैत्ये$} । अकर्मकः । श्विन्दते । शिश्विन्दे ।{$ {!11 वदि!} अभिवादनस्तुत्योः$} । वन्दते । ववन्दे ।{$ {!12 भदि!} कल्याणे सुखे च$} । भन्दते । बभन्दे ।{$ {!13 मदि!} स्तुतिमोदमदस्वप्नकान्तिगतिषु$} । मन्दते । ममन्दे ।{$ {!14 स्पदि!} किंचिच्चलने$} । स्पन्दते । पस्पन्दे ।{$ {!15 क्लिदि!} परिदेवने$} । शोक इत्यर्थः । सकर्मकः । क्लिन्दते जैत्रम् । चिक्लिन्दे ।{$ {!16 मुद!} हर्षे$} । मोदते ।{$ {!17 दद!} दाने$} । ददते ॥
Laghu Siddhanta Kaumudi¶
नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्। नन्देत्। नन्द्यात्। अनन्दीत्। अनन्दिष्यत्। ॥ {$ {! 9 अर्च !} पूजायाम् $} (धातुपाठे (01.0232)) ॥ अर्चति॥
Balamanorama¶
इदितो नुम् धातोः - इदितः । इत् = ह्रस्व इकारः, इत् = इत्संज्ञको यस्य स इदित्, तस्येति विग्रहः । इत्संकेदनतधातोरित्यर्थः । तेन चक्षिङादौ न दोषः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । स्कुन्दत इति ।नश्चापदान्तस्ये॑त्यनुस्वारः परसवर्णः । चुस्कुन्द इति । लिटि द्वित्वे ‘शर्पूर्वाः खयः’ इत्यभ्यासे ककारः शिष्यते ।कुहोश्चु॑रिति तस्य कुत्वेन चकारः । इआदीति । औत्यं — औत्यकरणम् । अकर्मक इति । औत्यस्य धात्वर्थेनोपसङ्ग्रहादिति भावः । ततश्चआन्दयति देवदत्तं यज्ञदत्त॑ इत्यादौगतिबुद्धिप्रत्यवसाने॑त्यादिनाऽकर्मककार्यं द्वितीया भवति । ओतीभवनं वा औत्यम् । इआन्दत इति । ओतीभवतीत्यर्थः । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । तत्कारणभूतो व्यापारः — प्रणामादिरभिवादनम् । वन्दत इति । इदित्त्वान्नुम् । भदीति । कल्याणं — शुभक्रिया । सुखं — सुखीभावः । भन्दत इति । इदित्त्वान्नुम् बभन्द इति । अभ्यासे भकारस्य जश्भावेन बकारः । मदीति । मोदः — सन्तोषः । मदः — गर्वः । मन्दत इति । इदित्त्वान्नुम् । ममन्द इति । नुमि सति संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ नेति भावः । स्पदीति । अकर्मकः । स्पन्दत इति । इदित्त्वान्नुम् । पस्पन्द इति । ‘शर्पूर्वाः खयः’ इत्यभ्यासे पकारः शिष्यते । क्लिदीति । परिदेवनशब्दं व्याचष्टे — शोक इति । स्मृत्वा क्लेशः — शोकः । तदाह — सकर्मक इति । क्लिन्दते चैत्रमिति । अतीतं चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः । इदित्त्वान्नुम् । चिक्लिन्द इति । अभ्यासे ककारस्य चुत्वेन चकार इति भावः । मुदेति । हर्षः — तुष्टिः । मोदत इति । शपि लघूपधगुणः । मुमुद इति ।असंयोगल्लिट्कि॑दिति कित्वान्न गुणः । ददेति । न ममेति त्यागो दानं, न तु द्रव्यत्यागः । तथा सति धात्वर्थौपसङ्ग्रहादकर्मकत्वापत्तेः ।
Tattvabodhini¶
इदितो नुम् धातोः - मदि स्तुति । मोदः - संतोषः ।मदो- गर्वः । स्वप्नः- आलस्यम् ।
Padamanjari¶
कुडि दाहे, हुङ् सिङ्घाते । अङ्गाधिकारान् नुमयं प्रत्यये परतो भवेत् । कुण्डेत्यादौ ततश्च क्तिन्स्यान्नाकारो गुरोर्हलः इत्याशङ्क्याह - अयमिति । अत्र प्रमाणमाह - तथा हीति । कथं पुनरेतज्ज्ञापकम्, यावता इक्श्तिपौ धातुनिर्द्देशे वक्यतव्यौ इति इक्प्रत्यये कृतेऽङ्गसंज्ञायां सत्यां नुमा भवितव्यमिति लक्षणवशादेव नुमनुषक्तयोर्ग्रहणं कर्तव्यम् एवं मन्यते - नायमिका निर्देशः, किं तर्हि आगन्तुकेनेकारेण, तत्राप्राप्तो नुमिति । नात्र किञ्चित्प्रमाणमस्तीत्याशङ्क्याह - धातुग्रहणं चेति । धातुत्वमेवापेक्षितं न त्वङ्गत्वमित्येवमर्थं धातुग्रहणम्, नान्यत्किञ्चित्प्रयोजनमस्तीति भावः । ननु च भेता, अभैत्सीदित्यत्राधात्वोस्तासिचसिचोरिदितोर्नुम्निवृत्यर्थं धातुग्रहणं स्यात् अत आह - तासिसिचोरिति । ननु चामंस्तेत्यादौ आत्मनेपदं ङ्तिमपेक्ष्य सिजन्तस्य अनिदिताम् इति लोप मा भूदित्येतत्सिचीदित्कार्यं स्यात् इत्यत आह - अमंस्तेत्यादाविति । यथा हनः सिच् इति कित्वविधानमस्य लिङ्गं तथा तत्रैव प्रतिपादितम् । तासेस्तर्हीदित्करणं मन्तेत्यादौ आत्मनेपदैकवचनस्य डादेशे कृते टिलोपे च मनत् - आ इति स्थिते नकारस्योपधालोपे मा भूदित्येवमर्थं स्यादत आहमन्तेत्यत्रेति । नकारलोपो न भवतीत्यनुषङ्गः । जयादित्यस्तु - आभीयमसिद्धत्वमनित्यमाश्रित्य तासेरिदितकरणमनुनासिकलोपप्रतिषेधार्थमित्यवोचत् । तन्मते धातुग्रहणं तासिनिवृत्यर्थं कर्तव्यमिति उपदेशे नुम्भवति इत्यत्र यत्नान्तरमास्थेयम् । इह भिदिर्प्रभृतिषु इकारस्य उपदेशेऽजनुनासिक कैत् इतीत्संज्ञा, रेफस्यापि हलन्तयम् इति, ततश्चेदित्वान्नुम् प्राप्नोति तत्राह - इरितामिति । इरितामिर उपसङ्ख्यानम् इत्यौपसङ्ख्यानिकी समुदायस्येत्संज्ञा, न प्रत्येकं सौत्री, ततश्चानिदित्वान्नुम् न भवतीत्यर्थः । नन्वेवमपि स्वरितेत्वनिबन्धनमात्मनेपदं न प्राप्नोति भिदिर्प्रभृतिषु, तस्मात्प्रत्येकपक्षे परिहारो वाच्यः - इति मत्वा प्रत्येकपक्षे परिहारमाह - अवयवशोऽपीति । अपर आह - इदित इति नायं बहुव्रीहिः, किं तर्हि कर्मधारः ततश्च वर्णग्रहणमिदं भवति । तत्र तदन्तविधिनेत्संज्ञकेकारान्तस्य धातोर्नुमिति । अथेदितो धातोवो ननमनुषक्ता एव कस्मान्न पठिताः, एवं हीदं न कर्तव्यं भवति नुम्ग्रहणं तावदुतरार्थं कर्तव्यम्, इदितां च भूयस्त्वातप्रत्येकं नक्रोच्चारणादिदमेव सूत्रं लघीयः ॥
Prakriyasarvasvam¶
इदितो धातोर्नुं स्यात् । तृच्, इट् । नन्दिता । ग्रहि तृ,
Sutra Prayogas¶
तमाञ्जिहन्मैथिल (भट्टिकाव्यम्): इदितो नुम् धातोः इति नुम्।
जुगुञ्ज (भट्टिकाव्यम्): इदितो नुम् धातोः इति नुमि लिटि रूपम्।
आंहिष्ट (भट्टिकाव्यम्): इदितो नुम् तस्मादं हितुमिच्छतीति सन्।
निंस्ते (भट्टिकाव्यम्): इदितो नुम् धातोः इति नुम्।
भनज्मि (भट्टिकाव्यम्): इदितो नुम् इति नुमागमः।
पिपासा-वध-काङ्क्षिणः (भट्टिकाव्यम्): इदितो नुम् इति नुम्।