71056: श्रीग्रामण्योश्छन्दसि ============================ **Padacheda:** श्री-ग्रामण्योः | S | 6 | 2 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) after the words श्री and ग्रामणी the Genitive 6th-Case plural आम् gets the augment न्। Vasu English Translation ------------------------ In the छन्दस् (Vedas) after the words श्री and ग्रामणी the Genitive 6th-Case plural आम् gets the augment न्। As श्रीणामुदारो धरुणो रयीणाम्, अन्यत्र सूतग्रामणीनाम् ॥ This *sutra* could be well dispensed with: by (1.4.5). श्री is optionally a *Nadi* in the Genitive plural. We make the option of that *sutra* a *vyavasthita*-*vibhasha*, by saying श्री is always *Nadi* in the *Veda*, and optionally every where else. As regards सूतग्रामणीनाम्, we have सूतश्च ग्रामणीश्च = सूतग्रामणि, the Genitive Plural of which by (7.1.54) will be सूतग्रामणीनाम् ॥ The necessity of this *sutra* will, however, arise if the compound be सूताश्च ते ग्रामण्यश्च सूतग्रामण्यः ॥ Bhashya ------- श्रीग्रामण्योश्छन्दसि अयं योगः(1) शक्योऽवक्तुम् ॥ कथं श्रीणामुदारहो धरूणो रयीणाम् । अपि तत्र सूतग्रामणीनाम् ? ॥ इह तावच्छ्रीणामुदारो धरुणो रयीणां, विभाषाऽऽमि नदीसंज्ञा, सा छन्दसि व्यवस्थितविभाषा भविष्यति । अपि तत्र सूतग्रामणीनामिति, सूताश्च ग्रामण्यश्च सूतग्रामणि । तत्र ह्रस्वनद्यापो नुडित्येव सिद्धम् ॥ Kashika ------- श्री ग्रामणी इत्येतयोश्छन्दसि विषय आमो नुडागमो भवति। श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम् (ऋ० १०.४५.५)। अपि तत्र सूतग्रामणीनाम् (काठ०सं० २८.३)। श्रीशब्दस्य **वामि** (१.४.५) इति विकल्पेन नदीसंज्ञा, तत्र नित्यार्थं वचनम्। सूतग्रामणीनामिति यदा सूताश्च ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थमिदं वचनम्। यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि चेति सूतग्रामणीनामिति, तदा ह्रस्वादित्येव सिद्धम्॥ Siddhanta Kaumudi ----------------- आमो नुट् श्रीणामुदारो धरुणो रयीणाम् (श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्) । सूतग्रामणीनाम् ॥ Padamanjari ----------- नित्यार्थ वचनमिति । अन्यथा भाषायामिव विकल्पः स्यात्, च्छन्दसि नुडेव चेद् दृश्यते, तस्य च लक्षणमस्ति, कोऽयं विकल्पप्रसङ्ग इति चिन्त्यमेतत् । सूताश्च ते ग्रामण्यश्चेति । नेदं कर्मधारयस्य वाक्यम्, किं तर्हि बहुवचनान्तयोर्यदेतरेतरयोगे द्वन्द्वस्तदा नुड्विधेः प्रयोजनम् । यदैकवचनान्तयोः समाहारद्वन्द्वं कृत्वा एकशेषः क्रियते तदा ह्रस्वान्तत्वादेव नुट् सिद्ध इति न प्रयोजनमिति दर्शयति । एवं च तेशब्दो न पठितव्यः । अत्रापि नुडेव चेद् दृश्यते तस्य च निर्वाहोऽस्ति, इतरेतरेतरयोगद्वन्द्वो न करिष्यते, तदेवमिदं सूत्रं भाष्ये प्रत्याख्यातम् ॥ Nyaas ----- श्रीग्रामण्योरिति सम्बन्धलक्षणा षष्ठी। `नित्यार्थं `वचनम्` इति। श्रीशब्दस्य, न तु ग्रामणीशब्दस्य। तस्तु तु प्राप्त्यर्थमेव। यथैव हि भाषायां नदीसंज्ञापक्षे `ह्रस्वनद्यापो नुट्` (7.1.54) इति सिध्यति तथा छन्दस्यपि। तस्मान्नित्य यथा स्यादित्येवमर्थम्। असति ह्रस्मिन्? यदा नदीसंज्ञा, तदैव स्यात्, नान्यदा। `यदा सूताश्च` इत्यादि। एतेनैतद्दर्शयति - यदा सूतशब्दस्य ग्रामणीशब्देन सह कर्मधारयः क्रियते तदा सूतग्रामणीशब्दो न ह्रस्वान्तः न नद्यन्तः, नाप्याबन्त इति न प्राप्नोति, इष्यते च, ततो यथा स्यादित्यवमर्थं वचनम्। यदा सूतग्रामणीशब्दयोः `सर्वो द्वन्द्वो विभाषयैकवद्भवति` (पु।प।वृ।50) इत्येकवद्भावी द्वन्द्वः, तदा **स नपुंसकम्** (2.4.17) इति नपुंसकत्वात्, `ह्रस्वो नपुंसके प्रातिपदिकस्य` (1.2.47) इति ह्रस्वत्वं कृत्वा बहूनां सूतग्रामणीशब्दानामेकशेषञ्च, ततः षष्ठीबहुवचनं विधीयते। तदा ह्रस्वान्तत्वादेव सिद्धमिति नार्थस्तवर्थेन वचनेन॥ Prakriyasarvasvam ----------------- अनयोरामि नुट् स्यात् । श्रियो नित्यार्थमुक्तिः । श्रीणामुदारः । सूत- ग्रामणीनाम् ।