71055: षट्चतुर्भ्यश्च¶
Padacheda: षट्-चतुर्भ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
षट्-संज्ञकात् परस्य चतुर्-शब्दात् परस्य च आम्-प्रत्ययस्य नुट्-आगमः भवति ।
किम् नाम षट्-संज्ञकः ? अष्टाध्याय्यां षट्-संज्ञा द्वयोः सूत्रयोः दीयते - ष्णान्ताः षट् (1.1.24) - षकारान्ताः नकारान्ताश्च सङ्ख्यावाचिनः शब्दाः षट्-संज्ञकाः सन्ति । यथा - पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन् आदयः । डति च (1.1.25) - डति-प्रत्ययान्तशब्दाः अपि षट्-संज्ञकाः भवन्ति । यथा - कति । एतेभ्यः परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य नुट्-आगमः भवति । यथा - 1. पञ्चन् + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → पञ्चन् + नुट् आम् [षट्चतुर्भ्यश्च (7.1.55) इत्यनेन षट्-संज्ञकस्य पञ्चन्-शब्दस्य नुट्-आगमः] → पञ्चन् + न् आम् [इत्संज्ञालोपः] → पञ्चान् + नाम् [नोपधायाः (6.4.7) इत्यनेन नाम्-प्रत्यये परे नकारान्तस्य अङ्गस्य उपधादीर्घः] → पञ्चानाम् [नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन पदान्तनकारस्य लोपः] 2. षष् + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → षष् + नुट् आम् [षट्चतुर्भ्यश्च (7.1.55) इत्यनेन षट्-संज्ञकस्य षष्-शब्दस्य नुट्-आगमः] → षष् + न् आम् [इत्संज्ञालोपः] → षड् + नाम् [नाम्-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञा । पदसंज्ञायाम् सत्याम् झलां जशोऽन्ते (8.2.39) इति पदान्तषकारस्य डकारः] → षड् + णाम् [ष्टुना ष्टुः (8.4.41) इत्यनेन ष्टुत्वे णकारः] → षण्णाम् [यरोऽनुनासिकोऽनुनासिके वा (8.4.45) इत्यनेन षकारस्य णकारः । <! प्रत्यये भाषायां नित्यम् !> अनेन वार्त्तिकेन णत्वम् नित्यम् भवति, विकल्पेन न । 3. कति + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → कति + नुट् आम् [षट्चतुर्भ्यश्च (7.1.55) इत्यनेन षट्-संज्ञकस्य कति-शब्दस्य नुट्-आगमः] → कति + न् आम् [इत्संज्ञालोपः] → कती + नाम् [नामि (6.4.3) इति अङ्गस्य दीर्घः] → कतीनाम् 4. चतुर् + आम् [स्वौजस्.. (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → चतुर्नुट् आम् [षट्चतुर्भ्यश्च (7.1.55) इत्यनेन षट्-संज्ञकस्य कति-शब्दस्य नुट्-आगमः] → चतुर्न् आम् [इत्संज्ञालोपः] → चतुर् णाम् [रषाभ्यां नो णः समानपदे (8.4.1) इति णत्वम्] → चतुर्णाम् , चतुर्ण्णाम् , चतुर्णाम्म् , चतुर्ण्णाम्म् [अचो रहाभ्यां द्वे (8.4.46) इति णकारस्य वैकल्पिकम् द्वित्वम् । अनचि च (8.4.47) इति मकारस्यापि वैकल्पिकं द्वित्वम् । णकारस्य द्वित्वपक्षे हलो यमां यमि लोपः (8.4.64) इत्यनेन एक-णकारस्य वैकल्पिकः लोपः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् अनया परिभाषया सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति । 2. अस्मिन् सूत्रे निर्दिष्टः ‘आम्’ शब्दः षष्ठीबहुवचनस्य प्रत्ययः अस्ति, सप्तमी-एकवचनस्य ङेराम्नद्याम्नीभ्यः (7.3.116) इत्यनेन निर्दिष्टः आम्-आगमः नास्तीति भाष्ये स्पष्टीकृतमस्ति । 3. चतुर्-शब्दः समस्तपदे प्रधानत्वेन अस्ति चेदेव अयम् नुडागमः भवति । यथा - प्रियाश्च ते चत्वारश्च = प्रियचत्वारः । इत्यत्र ‘प्रितचतुर्’ अस्मिन् समस्तपदे चतुर्-शब्दः प्राधान्यत्वेन अस्ति, अतः अस्य नुडागमं कृत्वा ‘प्रियचतुर्णाम्’ इति रूपं जायते । परन्तु यदि चतुर्-शब्दः गौणत्वेन आगच्छति - यथा - ‘प्रियाः चत्वारः यस्य सः = प्रियचतुर्’ - तर्हि अनेन सूत्रेण निर्दिष्टः नुडागमः न भवति । यथा - प्रियचतुर् + आम् → प्रियचतुराम् ।
Sutrartha (English)¶
The आम्-प्रत्यय present after a षट्-संज्ञक word or after the word चतुर् gets a नुट्-आगम.
Vasu English Summary¶
The augment न् is added before the Genitive 6th-Case plural ending आम् after the numerals called षष् and after चतुर्।
Vasu English Translation¶
The augment न् is added before the Genitive 6th-Case plural ending आम् after the numerals called षष् and after चतुर्। As षण्णाम्, पञ्चानाम्, (6.4.7), सप्तानाम्, नवानाम्, दशानाम्, चतुर्णाम् ॥ A numeral ending in र् is not ‘shash’, hence the specific mention of चतुर ॥
This rule applies to compounds ending with these numerals, when these latter are the principal member, as परमषण्णाम्, परमपंचानाम्, परमचतुर्णाम्, but, प्रियषषाम्, प्रियपञ्चाम्, प्रियचतुराम् where the Numerals are secondary (upasarjana).
Kashika¶
षट्संज्ञकेभ्यश्चतुः शब्दाच्चोत्तरस्यामो नुडागमो भवति। षण्णाम्। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। चतुर्णाम्। रेफान्तायाः संख्यायाः षट्संज्ञा न विहिता, षड्भ्यो लुक् (७.१.२२) इति लुग् मा भूत्। बहुवचननिर्देशादत्र संख्याप्रधानस्य ग्रहणं भवति। परमषण्णाम्। परमपञ्चानाम्। परमसप्तानाम्। परमचतुर्णाम्। उपसर्जनीभूतायास्तु संख्याया न भवति। प्रियषषाम्। प्रियपञ्च्ञाम्। प्रियचतुरामिति॥
Siddhanta Kaumudi¶
षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् । द्वित्वम् । चतुर्ण्णाम् । चतुर्ण्णाम ॥
Laghu Siddhanta Kaumudi¶
एभ्य आमो नुडागमः॥
Balamanorama¶
षट्चतुर्भ्यश्च - षट्चतुभ्र्यश्च । षट्चतुभ्र्य इति पञ्चमी । ‘आमि सर्वनाम्नः’ इत्यत आमीत्यनुवृत्तं षष्ठ्या विपरिणम्यते । षडिति षट्संज्ञकं गृह्रते । नतु षट्शब्दः,कृत्रिमाकृत्रिमयो॑रिति न्यायात् । तदाह षट्संज्ञकेभ्य इत्यादिना । नुटि टकार इत्, उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । णत्वमिति ।रषाभ्या॑मित्यनेने॑ति शेषः । द्वित्वमिति ।अचो रहाभ्या॑मिति णकारस्ये॑ति शेषः । द्वित्वस्याऽसिद्धत्वात्पूर्वं णत्वे कृते ततो णस्य द्वित्वम् । नचपूर्वत्रासिद्धमद्विर्वचने॑ इनि निषेधः शङ्क्यः, द्वित्वे कर्तव्ये अन्यदसिद्धं नेति हि तदर्थः । न तु द्वित्वस्याऽप्यसिद्धत्वं नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भावः । चतुर् सु इति स्थिते रेफस्य विसर्गे प्राप्ते- ।
Tattvabodhini¶
षट्चतुर्भ्यश्च - षट्चतुभ्र्यश्च । बहुवचननिर्देशादर्थस्य प्राधान्यं विवक्षितम् । अर्थाच्चाऽऽमः परत्वं शब्दद्वारकं, तेन तदन्तविधौ सत्यपिपरमचतुर्णा॑मित्यादावेब भवति, न तु बहुव्रीहौ । तदेतद्वक्ष्यति — ॒गौणत्वे तु नुण्नेष्यते॑इत्यादिना । द्धित्वमिति ।अचोरहाभ्या॑मित्यनेन ।
Padamanjari¶
नुटि कृते नोपधायाः इति दीर्घः । नलोपः प्रातिपदिकान्तस्य । षण्णमिति । झलां जशोऽन्ते - इति षकारस्य डकारः, यरोऽनुनासिके इति डकारस्य णकारः, ष्टुअत्वम् । अथ ष्णान्ताः षट् इति रेफस्च प्रक्षेपणेन रेफान्ताया कापि संक्याया षटसंज्ञा कस्मान्न विहिता, एवं ह्यत्र चतुर्ग्रहथणं न कर्तव्यं भवति, तथा षट्त्रिचर्भ्यो हलादिः त्यित्रापि इत्यत आह - रेफान्ताया इति । बहुवचननिर्देशादिति । शब्दप्राधान्ये हीतरेतरयोगे द्विवचनेन भाव्यम्, समाहारद्वन्द्वे त्वेकवचनेन भाव्यम्, अर्थप्राधान्ये तु षट्संज्ञका एव प्रत्येकं बह्वर्थाश्चतुःशब्दश्चेत्युपपद्यते बहुवचनम् । अत्रामः परत्वं शब्दद्वारकम् । परमषण्णामिति । अत्रापि बडर्थप्राधान्यातत एव पर आम् भवति । बहुव्रीहौ त्वन्यपदार्थस्य प्राधन्यान्न षडर्थापेक्षं परत्वमिति न भवति । प्रियपञ्च्जामिति । अल्लोपे कृते चुत्वम् - ञकारः ॥
Nyaas¶
पञ्चानाम् इति। नोपधायाः (6.4.7) इति दीर्घः, नलोपः प्रातिपदकान्तस्य (8.2.7) इति नलोपः। षष्णाम् इति। झलां जशोऽन्ते (8.2.39) इति षकारस्य डकारः, यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इति डकारस्य णकारः, ष्टुना ष्टुः (8.4.41) इति नकारस्य णकारः। ष्णान्ता षट् (1.1.24) इति रेफान्ताया अपि संख्यायाः कस्मान्न विहिता षट्संज्ञेति, एवं सतीह चुतुग्र्रहणं न कर्तव्यं भवति? इत्याह - रेफान्तायाः इत्यादि। गतार्थम्। बहुवचननिर्देशात् इत्यादि। यदि हि शब्दस्य प्रधानस्य ग्रहणं स्यात्, तदेतरेतवयोगपक्षे षट्चतुभ्र्याम् इति द्विवचने निर्देशं कुर्यात्? समाहारपक्षे त्वे कवचनेन षट्चतुरः इति बहुवचनेन तु निर्देशः कृतः। तस्माद्बहुवचननिर्देशात्? संख्याप्रधानस्यैव षठ्संज्ञकस्य चतुःशब्दस्य च ग्रहणम्। तस्य चेदं प्रयोजनम् - यत्र संखक्यायाः प्राधान्यम्, तेन तदन्तादपि भवति। अर्थप्रधाने हि निर्देशेऽर्थग्रहणेतद्भवति, अर्थाच्च शब्दद्वारेणैवामः परत्वं विज्ञायते। अतः केवलेभ्यः षद्चतुर्भ्यो भवति, तदन्ताच्च। तदन्तादपि शब्दद्वारेणैवामः परत्वं भवत्येव। उपसर्जनोभूतायास्तु इत्यादि। बहुवचननिर्देशाद्वि संख्यार्थस्येदं ग्रहणम्। स चार्थो द्विविधः - प्रधानः अप्रधानश्च। तत्र प्रधाने कार्यसम्प्रत्ययाद्यत्र संख्यायाः प्राधान्यं तत्र तदन्तादपि भवति। यत्र तूपसर्जनीभूता संख्या तत्र न भवति - प्रियषषामित्यादौ। अन्यपदार्थस्य ह्यत्र प्राधान्यम्, संख्यायास्त्वप्राधान्यम्। प्रियपञ्च्ञाम इति। अल्लोपे (6.4.134) कृते स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्॥
Praudhamanorama¶
बहुवचननिर्देशादर्थप्राधान्यं विवक्षितम्। अर्थाच्चामः परत्वं शब्दद्वारकम्। तेन तदन्तविधौ सत्यपि परमचतुर्णामित्यदावेव भवति, न तु बहुव्रीहौ। तदेतद्वक्ष्यति—‘गौणत्वे तु नुट् नेष्यते’ इत्यादिना। द्वित्वमिति। ‘अचो रहाभ्याम्’ इत्यनेन। ॥ रान्ताः॥
Prakriyasarvasvam¶
षट्संज्ञेभ्यश्चतुरश्च परस्यामो नुट् स्यात् । चतुर्णाम् । चतुर् सु ।
Sudha¶
षट्चतुर्भ्यश्चेति । **आमि सर्वनाम्नः सुट्**(7.1.52) इत्यत आमीत्यनुवृत्तं षष्ठ्या विपरिणम्यते । षडिति षट्संज्ञकं गृह्यते । न तु षट्शब्दः, <ऽकृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययःऽ> इति न्यायात् । चतुर्ण्णामिति । चतुर् + आम् इत्यत्र **षट्चतुर्भ्यश्च**(7.1.55) इत्यामो नुडागमे टित्त्वादाद्यावयवे उटि गते ‘चतुर् न आम्’ इति जाते **रषाभ्यां नो णः समानपदे**(8.4.1) इति णत्वे **अचो रहाभ्यां द्वे**(8.4.46) इति णस्य च द्वित्वे विहिते ‘चतुर्ण्णाम्’ इति रूपम् ।