71047: क्त्वो यक्¶
Padacheda: क्त्वः | S | 6 | 1 |
यक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) the Absolutive affix क्त्वा gets at the end the augment य।
Vasu English Translation¶
In the छन्दस् (Vedas) the Absolutive affix क्त्वा gets at the end the augment य। Thus दत्वाय सविता धियः (for दत्वा), This sutra is not read immediately after (7.1.38), as in that sutra, the anuvritti of samasa is understood, while there is no such anuvritti here.
Kashika¶
क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये। द॒त्त्वाय (ऋ०१०.८५.३३) सविता धियः। दत्त्वेति प्राप्ते। क्त्वापिच्छन्दसि (७.१.३८) इत्यस्यानन्तरमिदं कस्माद् नोच्यते? समास इति तत्रानुवर्तते॥
Siddhanta Kaumudi¶
दिवं सुपर्णो गत्वाय (दिवं॑ सुप॒र्णो ग॒त्वाय॑) ॥
Padamanjari¶
दत्वायेति । दो दद्धोः । सौभाग्यमस्यै दत्वाय, दत्वायास्मभ्यं द्रविणेह भद्रः - इत्यादिमन्त्रगतमुदाहरणम् । दत्वाय सविता धियमिति क्वचित्, पठ।ल्ते, तत्र तैतिरीयकास्तत्वायेति पठन्ति । क्त्वापि च्छन्दसीत्यादि । एवं हि पुनः क्त्वाग्रहणं न कर्तव्यं भवति ॥
Nyaas¶
दत्त्वाय इति। दो दद्? घोः (7.4.46) इति ददादेशः। क्त्वापि छन्दसि इत्यादि। एवमुच्यमाने द्विः क्त्वाग्रहणं न कर्तव्यमिति भावः। समास इत्यत्रानुवर्तते इति। समासेऽनञ्पूर्वे (7.1.37) इत्यतः। यदि तस्यानन्तरमिदमुच्यते, तत्रापि समासग्रहणमनुवर्तत इत्याशङ्का स्यात्, ततस्तस्यानुवृत्तिनिवृत्त्यर्थं तस्यानन्तरमिदं नोक्तमित्यभिप्रायः॥
Prakriyasarvasvam¶
क्त्वाप्रत्ययस्य यगागमः स्यात् । हत्वाय शत्रून् ।