71047: क्त्वो यक् ================= **Padacheda:** क्त्वः | S | 6 | 1 | यक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) the Absolutive affix क्त्वा gets at the end the augment य। Vasu English Translation ------------------------ In the छन्दस् (Vedas) the Absolutive affix क्त्वा gets at the end the augment य। Thus दत्वाय सविता धियः (for दत्वा), This *sutra* is not read immediately after (7.1.38), as in that *sutra*, the *anuvritti* of *samasa* is understood, while there is no such *anuvritti* here. Kashika ------- क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये। द॒त्त्वाय (ऋ०१०.८५.३३) सविता धियः। दत्त्वेति प्राप्ते। **क्त्वापिच्छन्दसि** (७.१.३८) इत्यस्यानन्तरमिदं कस्माद् नोच्यते? समास इति तत्रानुवर्तते॥ Siddhanta Kaumudi ----------------- दिवं सुपर्णो गत्वाय (दिवं॑ सुप॒र्णो ग॒त्वाय॑) ॥ Padamanjari ----------- दत्वायेति । दो दद्धोः । सौभाग्यमस्यै दत्वाय, दत्वायास्मभ्यं द्रविणेह भद्रः - इत्यादिमन्त्रगतमुदाहरणम् । दत्वाय सविता धियमिति क्वचित्, पठ।ल्ते, तत्र तैतिरीयकास्तत्वायेति पठन्ति । क्त्वापि च्छन्दसीत्यादि । एवं हि पुनः क्त्वाग्रहणं न कर्तव्यं भवति ॥ Nyaas ----- `दत्त्वाय` इति। `दो दद्? घोः` (7.4.46) इति ददादेशः। `क्त्वापि छन्दसि` इत्यादि। एवमुच्यमाने द्विः क्त्वाग्रहणं न कर्तव्यमिति भावः। `समास इत्यत्रानुवर्तते` इति। `समासेऽनञ्पूर्वे` (7.1.37) इत्यतः। यदि तस्यानन्तरमिदमुच्यते, तत्रापि समासग्रहणमनुवर्तत इत्याशङ्का स्यात्, ततस्तस्यानुवृत्तिनिवृत्त्यर्थं तस्यानन्तरमिदं नोक्तमित्यभिप्रायः॥ Prakriyasarvasvam ----------------- क्त्वाप्रत्ययस्य यगागमः स्यात् । हत्वाय शत्रून् ।