71048: इष्ट्वीनमिति च

Padacheda: इष्ट्वीनम् | S | 1 | 1 |

इति | S | 0 | 0 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) the Absolutive इष्ट्वीनम् is irregularly formed for इष्ट्वा।

Vasu English Translation

In the छन्दस् (Vedas) the Absolutive इष्ट्वीनम् is irregularly formed for इष्ट्वा। To the root यज् is added that क्त्वा, and the final आ is replaced by ईनम् ॥ As इष्ट्वीनम् देवान् for इष्ट्वा देवान् ॥ The च in the sutra indicates that there are other forms like this, as पीत्वीनम् for पीत्वा ॥

Kashika

इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये। यजेः क्त्वाप्रत्ययान्तस्य ईनमादेशोऽन्त्यस्य निपात्यते। इष्ट्वीनं देवान्। इष्ट्वा देवानिति प्राप्ते। पीत्वीनमित्यपीष्यते। चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धम्॥

Siddhanta Kaumudi

क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ॥

Nyaas

इष्ट्वीनम् इति। वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। पीत्वीनम् इति। धुमास्था (6.4.66) इत्यादिनेत्त्वम्। एतच्चेतिकरणादाद्यर्थाच्चकरास्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। अनयोरन्यतरोपादानेनैव सिद्ध उभयोरुपादानं वैचित्र्यार्थम्॥

Prakriyasarvasvam

क्वायामीत्वं निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इत्यर्थः । इति करणात् पीत्वीनं सोममित्याद्यपि ।