71046: इदन्तो मसि

Padacheda: इदन्तः | S | 1 | 1 |

मसि | S | | | 1

Sutrartha


Vasu English Summary

The personal ending मस् becomes in the छन्दस् (Vedas) मसि ending with a इ।

Vasu English Translation

The personal ending मस् becomes in the छन्दस् (Vedas) मसि ending with a इ। Thus पुनस्त्वां दीपयामसि (for दीपयामः) शलभं भञ्जयामसि (for भञ्जयामः), त्वयि रात्रिं वासयामसि for वासयामः ॥

Kashika

छन्दसि विषये मसीत्ययं शब्द इकारान्तो भवति। मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति। तद्ग्रहणेन गृह्यत इत्यर्थः। पुन॒स्त्वोद् दी॑पयामसि (शौ०सं०१२.२.५)। उद्दीपयाम इति प्राप्ते। शलभान् भञ्जयामसि (पै०सं० ५.२०.४)। भञ्जयाम इति प्राप्ते। त्वयि॑ रात्रि वसामसि (शौ०सं०१९.४७.९)। वसाम इति प्राप्ते॥

Siddhanta Kaumudi

मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकार रूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि (नमो॒ भर॑न्त॒ एम॑सि ) । त्वमस्माकं तव स्मसि (त्वम॒स्माकं॒ तव॑ स्मसि) । इमः स्मः इति प्राप्ते ॥

Padamanjari

मसीत्यविभक्तिको निर्द्देशः । इकार उच्चारणार्थः । अन्तशब्दोऽवयववचनः - इत् अन्तो यस्य स इदन्तः । तपरकरणमसन्देहार्थम्, यन्तः इत्युच्यमाने सन्देहः स्यात् - किं यकारन्त ईदन्तः इदन्तो वेति तत्र यदि सकारोपमर्द्देन इकारान्तमभिप्रेतं स्यात्, मस इत इत्येव वाच्यं स्यात् । तस्मादवस्थित थएव सकार इकाह उपसृज्यते । अन्तग्रहणाच्च तद्ग्रहणेन गृह्यते, ततश्च टित्वादेरागमलिङ्गस्याभावेऽपि अर्थादागमोऽयं सम्पद्यते । तदिदमुक्तम् - मसः सकारान्तस्येत्यादि । एवं च मस इक् इति वक्तव्यम् प्रत्याहारसन्देहप्रसङ्गातथा नोक्तम् ॥

Nyaas

इदन्तः इति। तकारोऽसन्देहार्थः। असति हि तकारे यणादेशे कृते यन्तः इति भवितव्यम्, तत्र सन्देहः स्यात् - किमयं यकारान्तः, उतेकारान्त इति। इद्? अन्तो यस्य इदन्तः। मसित्ययं शब्दोऽन्यपदार्थः। सकारान्तमसीत्यविभक्तिकोऽयं निर्द्देशः; सुपां सुलुक् (7.1.39) इति प्रथमैकवचनस्य लुप्तत्वात्। इकार उच्चारणार्थः। भसीत्ययं शब्द इकारान्तो भवतीत्यस्यार्थं मसः सकारान्तस्य इत्यादिना व्यक्तीकरोति। सकारान्तस्य इत्यनेन मन्त्रं वोचेमेत्यत्राकारान्तस्य न भवतीति दर्शयति। कथं पुनः सकारान्तस्योपादानेऽसकारान्तस्य प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्। यद्येवम्, कस्मान्न भवति? छन्दसि यथादृष्टानुविधानात्। अपौत्यधिकाराद्वा। वोचेम इति। वचेः परस्याशिषि लिङो मस्, यासुट्, लिङ्याशिषि (3.1.86) इत्यङ्, अतो येयः (7.2.80) इतीयादेशः, वचेः परस्याशिषि लिङो मस्, यासुट्? लिङ्याशिषि (3.1.86) इत्यङ्,तो येयः` (7.2.80) इतीयादेशः, वच उम् (7.4.20) इत्युमागमः। छन्दस्युभयथा (6.4.86) इति सार्वधातुकत्वात्? लिङः सलोपोऽनन्त्यस्य (7.2.79) इति सलोपः, नित्यं ङितः (3.4.99) इत्युत्तमस्य सलोपः, लोपो व्योर्वलि (6.1.66) इति यकारसय च, आदगुणः (6.1.84) । आगम इकारो भवति इति। कथम्पुनरयमागमः? कथञ्च न स्यात्? आगमलिङ्गाभावात्। टित्त्व - कित्त्व-मित्त्वान्यागमलिङ्गानि, अत्र चैषामेकमपि नास्ति, ततो नासावागमः, यथा - अस्तेर्भूः (2.4.52) इति भूभावः। यद्येवम्, न य्वाभ्यां पदान्ताभ्यां पूर्वौ च ताभ्यामैच् (7.3.3) इत्यैजागमो न स्यात्। अथ पूर्वग्रहणात्? तस्यागमत्वमवसीयते? अस्याप्यन्तग्रहणादवसीयताम्। यथैव हि पूर्वशब्दोऽवयववचनो नियतदेशमदयवमाचष्टे, तथान्तशब्दोऽपीति समानमेतत्। स च तस्यान्तो भवति इति। अन्त एकदेशोऽवयव इति यावत्। अत एवासौ तद्गरहणेन गृह्रत इत्याह - तद्ग्रहणेन च प्रयोजनम् - पृथक्? स्वरनिवृत्तिरिति; `तिङ्ङतिङा (8.1.28) इति निघातश्च। मस इक् इति नोक्तम्; असन्देहार्थम्। एवं ह्रुच्यमाने सन्देहः स्यात् - किमिगागमः, उत प्रत्याहार इति। दीपयामसि, जम्भयमसि इति। दीपी दृप्तौ (धातुपाठः-1150),जभि जृभी गात्रविनामे`[जभी, जृभि - धा।पा] (धातुपाठः-388,389) - आभ्यां णायन्ताभ्यां लट्, **रधिजभोरचि** (7.1.61) इति लुम्। क्वचित्? भञ्जयामसीति पाठः। स च `भञ्जो आमर्दने (धातुपाठः-1453) इत्यस्य ण्यक्तस्य वेदितव्यम्॥

Prakriyasarvasvam

मस् प्रत्ययस्य इदन्त (ता) स्यात् । गृजीमसि त्वेषम् ।