71046: इदन्तो मसि ================= **Padacheda:** इदन्तः | S | 1 | 1 | मसि | S | | | 1 Sutrartha --------- **** Vasu English Summary -------------------- The personal ending मस् becomes in the छन्दस् (Vedas) मसि ending with a इ। Vasu English Translation ------------------------ The personal ending मस् becomes in the छन्दस् (Vedas) मसि ending with a इ। Thus पुनस्त्वां दीपयामसि (for दीपयामः) शलभं भञ्जयामसि (for भञ्जयामः), त्वयि रात्रिं वासयामसि for वासयामः ॥ Kashika ------- छन्दसि विषये मसीत्ययं शब्द इकारान्तो भवति। मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति। तद्ग्रहणेन गृह्यत इत्यर्थः। पुन॒स्त्वोद् दी॑पयामसि (शौ०सं०१२.२.५)। उद्दीपयाम इति प्राप्ते। शलभान् भञ्जयामसि (पै०सं० ५.२०.४)। भञ्जयाम इति प्राप्ते। त्वयि॑ रात्रि वसामसि (शौ०सं०१९.४७.९)। वसाम इति प्राप्ते॥ Siddhanta Kaumudi ----------------- मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकार रूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि (नमो॒ भर॑न्त॒ एम॑सि ) । त्वमस्माकं तव स्मसि (त्वम॒स्माकं॒ तव॑ स्मसि) । इमः स्मः इति प्राप्ते ॥ Padamanjari ----------- मसीत्यविभक्तिको निर्द्देशः । इकार उच्चारणार्थः । अन्तशब्दोऽवयववचनः - इत् अन्तो यस्य स इदन्तः । तपरकरणमसन्देहार्थम्, यन्तः इत्युच्यमाने सन्देहः स्यात् - किं यकारन्त ईदन्तः इदन्तो वेति तत्र यदि सकारोपमर्द्देन इकारान्तमभिप्रेतं स्यात्, मस इत इत्येव वाच्यं स्यात् । तस्मादवस्थित थएव सकार इकाह उपसृज्यते । अन्तग्रहणाच्च तद्ग्रहणेन गृह्यते, ततश्च टित्वादेरागमलिङ्गस्याभावेऽपि अर्थादागमोऽयं सम्पद्यते । तदिदमुक्तम् - मसः सकारान्तस्येत्यादि । एवं च मस इक् इति वक्तव्यम् प्रत्याहारसन्देहप्रसङ्गातथा नोक्तम् ॥ Nyaas ----- `इदन्तः` इति। तकारोऽसन्देहार्थः। असति हि तकारे यणादेशे कृते `यन्तः` इति भवितव्यम्, तत्र सन्देहः स्यात् - किमयं यकारान्तः, उतेकारान्त इति। इद्? अन्तो यस्य इदन्तः। मसित्ययं शब्दोऽन्यपदार्थः। सकारान्तमसीत्यविभक्तिकोऽयं निर्द्देशः; `सुपां सुलुक्` (7.1.39) इति प्रथमैकवचनस्य लुप्तत्वात्। इकार उच्चारणार्थः। भसीत्ययं शब्द इकारान्तो भवतीत्यस्यार्थं `मसः सकारान्तस्य` इत्यादिना व्यक्तीकरोति। `सकारान्तस्य` इत्यनेन मन्त्रं वोचेमेत्यत्राकारान्तस्य न भवतीति दर्शयति। कथं पुनः सकारान्तस्योपादानेऽसकारान्तस्य प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्। यद्येवम्, कस्मान्न भवति? छन्दसि यथादृष्टानुविधानात्। अपौत्यधिकाराद्वा। `वोचेम` इति। वचेः परस्याशिषि लिङो मस्, यासुट्, `लिङ्याशिषि` (3.1.86) इत्यङ्, **अतो येयः** (7.2.80) इतीयादेशः, वचेः परस्याशिषि लिङो मस्, यासुट्? `लिङ्याशिषि` (3.1.86) इत्यङ्,तो येयः` (7.2.80) इतीयादेशः, `वच उम्` (7.4.20) इत्युमागमः। **छन्दस्युभयथा** (6.4.86) इति सार्वधातुकत्वात्? **लिङः सलोपोऽनन्त्यस्य** (7.2.79) इति सलोपः, **नित्यं ङितः** (3.4.99) इत्युत्तमस्य सलोपः, **लोपो व्योर्वलि** (6.1.66) इति यकारसय च, `आदगुणः` (6.1.84) । `आगम इकारो भवति` इति। कथम्पुनरयमागमः? कथञ्च न स्यात्? आगमलिङ्गाभावात्। टित्त्व - कित्त्व-मित्त्वान्यागमलिङ्गानि, अत्र चैषामेकमपि नास्ति, ततो नासावागमः, यथा - **अस्तेर्भूः** (2.4.52) इति भूभावः। यद्येवम्, `न य्वाभ्यां पदान्ताभ्यां पूर्वौ च ताभ्यामैच्` (7.3.3) इत्यैजागमो न स्यात्। अथ पूर्वग्रहणात्? तस्यागमत्वमवसीयते? अस्याप्यन्तग्रहणादवसीयताम्। यथैव हि पूर्वशब्दोऽवयववचनो नियतदेशमदयवमाचष्टे, तथान्तशब्दोऽपीति समानमेतत्। `स च तस्यान्तो भवति` इति। अन्त एकदेशोऽवयव इति यावत्। अत एवासौ तद्गरहणेन गृह्रत इत्याह - `तद्ग्रहणेन च प्रयोजनम् - पृथक्? स्वरनिवृत्तिरिति; `तिङ्ङतिङा` (8.1.28) इति निघातश्च। `मस इक्` इति नोक्तम्; असन्देहार्थम्। एवं ह्रुच्यमाने सन्देहः स्यात् - किमिगागमः, उत प्रत्याहार इति। `दीपयामसि, जम्भयमसि` इति। `दीपी दृप्तौ` (धातुपाठः-1150),जभि जृभी गात्रविनामे`[`जभी, जृभि - धा।पा] (धातुपाठः-388,389) - आभ्यां णायन्ताभ्यां लट्, **रधिजभोरचि** (7.1.61) इति लुम्। क्वचित्? भञ्जयामसीति पाठः। स च `भञ्जो आमर्दने` (धातुपाठः-1453) इत्यस्य ण्यक्तस्य वेदितव्यम्॥ Prakriyasarvasvam ----------------- मस् प्रत्ययस्य इदन्त (ता) स्यात् । गृजीमसि त्वेषम् ।