71045: तप्तनप्तनथनाश्च¶
Padacheda: तप्-तनप्-तन-थनाः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Also त and तन (before both, on account of the indicatory प् the preceding vowel of the verbal अङ्ग (stem) is strengthened or if weak not shortened) तन and थन are substituted for the त of the 2nd person plural Imperative in the छन्दस् (Vedas).
Vasu English Translation¶
Also त and तन (before both, on account of the indicatory प् the preceding vowel of the verbal अङ्ग (stem) is strengthened or if weak not shortened) तन and थन are substituted for the त of the 2nd person plural Imperative in the छन्दस् (Vedas). This शृणोत ग्रावाणः (for शृणुत), सुनोत (= सुनुत), संवरत्रा दधातन (for धत्त), जुजुष्टन (for जुषत) the slu vikarana being added as a Vedic irregularity; यदिष्ठन for यदिच्छत ॥ The indicatory प् makes तप् and तनप् non-ङित् affixes (1.2.4).
Kashika¶
तस्येति वर्तते। छन्दसि विषये तस्य स्थाने तप् तनप् तन थन इत्येत आदेशा भवन्ति। तप् — शृ॒णोत॑ ग्रावाणः (तै०सं०१.३.१३.१)। शृणुतेति प्राप्ते। सु॒नोता॑ (ऋ०७.३२.८)। सुनुतेति प्राप्ते। तनप् — सं व॑र॒त्रा द॑धातन (ऋ०१०.१०.१.५)। धत्तेति प्राप्ते। तन — जु॑जुष्टन (ऋ०४.३६.७)। जुषतेति प्राप्ते। छान्दसत्वात् श्लुः। थन — यदिष्ठन। यदिच्छतेति प्राप्ते। पित्करणमङित्त्वार्थम्॥
Siddhanta Kaumudi¶
तस्येत्येव । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । शृणुतेति प्राप्ते तप् । सुनोतन पचन ब्रह्मवाहसे दधस्तन द्रविणं चित्रमस्मे (सुनोतन पचन ब्रह्मवाहसे दधस्त॒न द्रवि॑णं चि॒त्रम॒स्मे) । तनप् । मरुतस्तज्जुजुष्टन (म॒रुत॒स्तज्जु॑जुष्टन) । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवदेवासो मरुतो यतिष्ठन (विश्वेदेवासो मरुतो॒ यति॒ष्ठन॑) । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छान्सो डतिः अस्तेस्तस्य थनादेशः ॥
Padamanjari¶
शृणोतेति । श्रुवः शृ चेति श्नुप्रत्ययः शृभावश्च, पित्वे सति ङ्त्वाभावाद् गुणिः । दधातनेति । अत्रापि पित्वाभावात् श्नाभ्यस्तयोः इत्याकारलोपाभावः । जुजुष्टनेति । व्यत्ययेन परस्मैपदम्, तुदादित्वाच्छः, तस्य बहुलं च्छन्सि इति श्नुः ,द्विर्वजनम् । जुषेरनुदातेत्वात् जुषध्वमिति प्राप्त इति तु युक्तः पाठः । यदिच्छतेति प्राप्त इति । बह्वचास्तु - कोवस्तो मरुतो यतिष्टन इत्यस्यामृचि यतिष्ठनेति पठन्ति । यतिस्थनेति पदकाले, तत्रास्ते रुपम् ॥
Nyaas¶
शृणोतेः इति। श्रुवः शृ च (3.1.74) इति श्नुप्रत्ययः, शृभावश्च। पित्त्वे ङित्त्वाभावाद्गुणः। सुनोत इति। स्वदिभ्यः श्नुः (3.1.73) । दधातन इति। दधातेः श्लौ (6.1.10) इति द्विर्वचनम्। अत्रापि पूर्वलत्? ङित्त्वाभावात्? श्नाब्यस्तयोरातः (6.4.112) इत्याकारलोपो न भवति। धत्त इति। दधस्तथोश्च (8.2.38) इत्यभ्यासादकारस्य धकारः। धातोरकारलोपे कृते झलां जश् झशि (8.4.53) इति जश्त्वम् - डकारः, तस्य खरि च (8.4.54) इति चर्त्वम् - तकारः। जुजुष्टन इति। इषेरिच्छार्थात्? पूर्ववच्छः, बहुलं छन्दसि (7.4.78) इति तस्य लुक्। यदिच्छत इति। इषुगमियमां छः (7.3.77) । चकार स्तस्येत्यस्येहानुकर्षणार्थः॥
Prakriyasarvasvam¶
त शब्दस्यैते च स्युः । तप् तनपोः पित्त्वाद् अङित्त्वाद् गुणः । शृणोत ग्रावाणः । मधुच्छन्दाः शृणोतन । तने तु-“ते नो रत्नानि धत्तन । अपित्त्वेन ङित्त्वाद् आल्लोपः । थन-हव्या मित्र प्रयाथन ।