71006: शीङो रुट्

Padacheda: शीङः | S | 5 | 1 |

रुट् | S | 1 | 1 |

Sutrartha

शीङ्-धातोः परस्य झ-प्रत्ययस्य यः अत्-आदेशः भवति तस्य रुट्-आगमः भवति ।

शीङ् (स्वप्ने) इति अदादिगणस्य आत्मनेपदी धातुः । अस्मात् परस्य झ-प्रत्ययस्य आत्मनेपदेष्वनतः (7.1.5) इत्यनेन अत्-आदेशे कृते तस्य ‘रुट्’ आगमः भवति । रुट्-इत्यत्र उकारः उच्चारणार्थः अस्ति, टकारः च इत्संज्ञकः अस्ति । टित्वात् आद्यन्तौ टकितौ (1.1.46) इति अयमाद्यवयवः भवति । यथा, शी-धातोः लट्-लकारस्य प्रथमपुरुष-बहुवचनस्य प्रक्रिया इयम् - शी + लट् [वर्तमाने लट् (3.2.123) इति लट्] → शी + झ [तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः ‘झ’] → शी + शप् + झ [कर्तरि शप् (3.1.68) इति ओत्सर्गिकं विकरणम् शप्] → शी + झ [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → शे झ [शीङः सार्वधातुके गुणः (7.4.21) इति अङ्गस्य गुणः] → शे + अत [आत्मनेपदेश्वनतः (7.1.5) इति झकारस्य अत्-आदेशः] → शे + रुट् अत [शीङो रुट् (7.1.6) इति रुट्-आदेशः] → शे + र् अते [टित आत्मनेपदानां टेरे (3.4.79) इति एकारः] → शेरते ज्ञातव्यम् - यत्र झकारस्य ‘अत्’ आदेशः न भवति, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शी-धातोः लृट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - शी + लृट् [लृट् शेषे च (3.3.13) इति लृट्] → शी + स्य + लृट् [स्यतासी लृलुटोः (3.1.33) इति विकरणप्रत्ययः ‘स्य’] → शी + स्य + झ [तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः ‘झ’] → शी + इट् + स्य + झ [आर्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → शे + इ + स्य + झ [सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → शे + इ + स्य + अन्त [झोऽन्तः (7.1.3) इति झकारस्य अन्त् -आदेशः] → शे + इ + स्य + अन्ते [टित आत्मनेपदानां टेरे (3.4.79) इति एकारः] → शयिस्यन्ते [एचोऽयवायावः (6.1.78) इति अयादेशः] → शयिष्यन्ते [आदेशप्रत्यययोः (8.3.59) इति षत्वम् ] अत्र झ-प्रत्ययः अदन्तात् अङ्गात् परः आगच्छति, अतः अत्र आत्मनेपदेश्वनतः (7.1.5) इत्यस्य प्रसक्तिः नास्ति । अतः अत्र वर्तमानसूत्रेण रुट्-आदेशः अपि न भवति ।

Sutrartha (English)

When the झ-प्रत्यय attached to the verb root शीङ् gets the आदेश अत्, then this आदेश also gets a आगम ‘रुट्’.

Vasu English Summary

The अत् substitute of झ gets the रुट् augment after the root शी।

Vasu English Translation

The अत् substitute of झ gets the रुट् augment after the root शी। Thus शेरते, शेरताम्, अशेरत ॥ The augment र् is added at the beginning of the affix, making अत् = रत् ॥ Had this र् been an augment of झ, then like the आट् augment in शयान्तै, it would have intervened between the शी and झ, and झ not immediately following a non-अ stem, अत् would not have been substituted for झ at all. Therefore रुट् is made the augment of the substitute अत, and not of झ ॥ The root शी is read in the sutra with its anubandha ङ् in order to indicate, that there is no रुट् augment when there is elision of the Intensive affix यङ्, nor any Guna. As व्यति शेश्यते ॥

It is a general rule that an operation applying to a root which is exhibited with an anubandha, will not apply to the same root in its Intensive-yan-luk form. The following verse shows when operations applying to simple roots will not apply to their Intensive forms:–

श्तिपा शपानुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज् ग्रहणं चैव पंचैतानि न यङ्लुकि ॥

“These five sorts of operations will not apply to Intensive-yan-luk forms: 1. When the simple root is exhibited in the sutra with श्तिप् as भू in (7.4.73) is shown as भवति ॥ In Intensive, the perfect will be बोभवाञ्चकार and not बभवाञ्चकार ॥ 2. Where the root is exhibited with शप्, as the root भृ in (7.2.49) is shown as भर ॥ There is इट् after the Desiderative of simple root but not in Intensive. 3. When a simple root is exhibited with an anubhandha, as शीङ् here. 4. Where a gana is mentioned in a rule, as श्यन् is taught after Divadi-roots (3.1.69). It will apply to simple roots of Divadi gana, and not to their Intensive. 5. Lastly, where the word एकाच् is used in a sutra. As (7.2.10). That rule will apply to एकाच् simple roots and not to their Intensives.

Bhashya

शीङो रुट् ॥ रुटि दृशिगुणप्रतिषेधः ॥ रुटि दृशिगुणः प्राप्नोति । अदृशन्नस्य केतव इति, -तस्य प्रतिषेधो वक्तव्यः ॥ न वक्तव्यः, परस्मिन्निति क्ङितिचेति प्रतिषेधो भविष्यति ॥ एवमदृश्रमस्य केतव इत्यत्रापि प्राप्नोति ॥ एवं तर्हि पूर्वान्तः करिष्यते ॥ पूर्वान्ते शीङो गुणविधिः ॥ पूर्वान्ते शीङो गुणो विधेयः शेरते ॥ (सिध्द्यत्येवं(1)) सूत्रं च भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं रुटि दृशिगुणप्रतिषेध इति ॥ पूर्वान्तेप्येष दोषः ॥ कथम् ? ॥ अयं दृशिगुणः प्रतिषेधविषय आरभ्यते स यथा क्ङिति चेत्येतं प्रतिषेधं बाधते एवमनुपधाया अपि प्रसज्येत । तस्मादुभाभ्यामेव दृशोरक्प्रत्ययान्तरं वक्तव्यं, पितरं च दृशेयं मातरं च दृशेयमित्येवमर्थम् ॥ झादेशादाड्लेटि ॥ झादेशादाड् लेटि भवति विप्रतिषेधेन । झादेशस्यावकाशः - लुनते । लुनताम् । अलुनत । आटोऽवकाशः - पताति दिद्युत् । उदधिं च्यावयाति । इहोभयं प्राप्नोति- अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै । आड् लेटि भवति विप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वा नित्यत्वादाटः ॥ न वा वक्तव्यः ॥ किं कारणम् ? ॥ नित्यत्वादाटः । नित्य आडागमः ॥ स कथं नित्यः ? ॥ यद्यनकारान्तग्रहणं झकारविशेषणम् ॥ अथ हि प्रत्ययविशेषणम् ? ॥ झादेशोपि नित्यः । । अन्तरङ्गलक्षणत्वाच्च । । अन्तरङ्गः खल्वपि आडागमः ॥ कथमन्तरङ्गः ? ॥ यदि प्राग्लादेशाद्धात्वधिकारः ॥ अथ हि लादेशे धात्वधिकारोऽनुवर्तते उभयं समानाश्रयम् ॥ यद्येव अनकारान्तग्रहणं प्रत्ययविशेषणम्, अथापि लादेशे धात्वधिकारोऽनुवर्तते उभयथापि पूर्वविप्रतिषेधेन नार्थः ॥ कथम् ? ॥ बहुलं छन्दसीत्येवमत्र शपो लुङ्ग भविष्यति । तत्राऽनत इति प्रतिषेधो भविष्यति ॥ (शीङो रुट्) ।

Kashika

शीङोऽङ्गादुत्तरस्य झादेशस्यातो रुडागमो भवति। शेरते। शेरताम्। अशेरत। रुडयं परादिः क्रियते। स यदि झकारस्यैव स्याददादेशो न स्यादित्यत एवायमादेशस्यागमो विधीयते। सानुबन्धग्रहणमयङ्लुगर्थम्। तेनेह न भवति — व्यतिशेश्यते॥

Siddhanta Kaumudi

शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥ अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी ।{$ {!1033 यु!} मिश्रणेऽमिश्रणे च$} ॥

Laghu Siddhanta Kaumudi

शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शयाथे । शेध्वे । शये । शेवहे । शेमहे । शिश्ये । शिश्याते । शिश्यिरे । शयिता । शयिष्यते । शेताम् । शयाताम् । अशेत । अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । शयिषीष्ट । अशयिष्ट ॥ {$ {! 20 इङ् !} अध्ययने $} (धातुपाठे (02.0041)) ॥ इडिकावध्युपसर्गतो न व्यभिचरतः । अधीते । अधियाते । अधीयते ॥

Balamanorama

शीङो रुट् - शीङो रुट् । ‘झोऽन्तः’ इत्यतो झ इत्यनुवर्तते । ‘अदभ्यस्ता’ दित्यतोऽदित्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — शीङः परस्येति । रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति ।षीध्वंलुङ्लिटा॑मित्युक्तेर्न ढः । शिश्ये इति । शिश्यिषे । शिश्यिढ्वे — शिश्यिध्वे । शयितेति । शयिष्यते । शेताम् शयाताम् शेरताम् । सेष्व शयाथाम् शेध्वम् । शयै शयावहै शयामहै । अशेत अशयातामशेरत । अशेथाः अशयाथाम् ।अशेध्वम् । अशयि अशेवहि अशेमहि । शयीत । शयिषीष्ट । अशयिष्टेति । अशयिष्यतेत्यपि ज्ञेयम् । स्तौत्यन्ता इति ।ष्टुञ् स्तुता॑वित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति । ञित्त्वादिति भावः । यु मिश्रणेऽमिश्रणे चेति । अमिश्रणं पृथग्भावः । सेडयम् ।

Tattvabodhini

शीङो रुट् - शीङो रुट् ।झोऽन्तः॑ इत्यतोझ॑ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यतोऽदिति च । तथा चेष्टानुरोधेनाऽदिति प्रथमान्तस्य षष्ठन्तत्वमाश्रित्य व्याचष्टे झादेशस्याऽत इति । झस्यैव रुडागमे तु अदादेशो दुर्लभ इत्यदित्यस्याप्यनुवृत्तिः कृता । शिश्ये इति ।एरनेकाचः॑ इति यण् । शेताम् । शयाताम् । शेरताम् । शेध्वम् ।

Padamanjari

झादेशस्यात् इति । ननु च नेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, शीङ् इत्येषा पञ्चमी अदिति प्रथमायाः षष्ठआआ प्रकल्पयिष्यति, तस्मादित्युतरस्य इति । शेरत इति । सार्वधातुकावयवस्य झस्यादादेशस्तदागमो रुट् तद्ग्रहणेन गृह्यते । अवयवस्य समुदायं प्रत्यवयवत्वं लोकेऽपि दृश्यते, यथा - देवदतस्याङ्गुलिरिति । सार्वधातुकस्याप्यवयवो रुडिति शीडः सार्वधातुके गुणः इति गुणो भवति । किं पुनः कारणं रुडागमो झदेशस्यातो विधीयते, नझकारस्यैव वधीयते, एवं हि न षष्ठी प्रकल्प्या एभवति अत आह - रुडयमिति । यदि तु ककारासञ्जनेन पूर्वान्तः क्रियेत, शेरत इत्यत्र गुणो न स्याद् अनिगन्तत्वात् । तस्मात् परादिरेव वक्तव्यः । स यदिच झकारस्यैव स्यात्, ततो यथा शयान्तै इत्यत्राटा व्यवहितत्वाज्झस्यादादेशो न भवति, तथा शेरते इत्यत्रापि न स्यात् रुटा व्यवहितत्वात् । ननु च युक्तमाटा व्यवधानम्, स हि सार्वधातुकभक्तस्तदेव न व्यवदध्यात्, झकारं तु व्यवदधात्येव, रुट् पुनर्झकारभक्तः स कथं तस्य व्यबधायकः उच्यते गृह्यता तावतद्ग्रहथणेन , तथापि निर्द्दिश्यमानस्यादेशा भवन्तीति यदत्र निर्द्दिश्यते झ इति विशिष्ट्ंअ रुपं न तदनन्तरम्, यश्चानन्तरो रेफझकारसमुदायो न स निर्द्दिश्यत इति न स्यादेवादेशः । अपर आह - आदेशो न स्यादिति, कोऽर्थः झस्य न स्यादिति, कस्य तर्हि स्यात् आदेः परस्य इति रुट एव स्यात् । न च रुटेः वैयर्थ्यं स्यात्, झकारस्य श्रवणार्थत्वात् इति, तच्चिन्त्यमनेकाल्त्वात्सर्वादेशः प्राप्नोति । सर्वादेशे रुटो वैयर्थ्यमिति चेत् किं कुर्मः मा भूदादेशः । शीङ्ः इत्यनुबन्धोच्चारणं यङ्लुग्निवृत्यर्थम् - व्यतिशेश्यते । गुणोऽपि न भवति तत्राप्यनुबन्धनिर्द्दशात् ॥

Nyaas

झादेशस्यातो रुडागमो भवति इति। ननु न चेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्देशेन चेहार्थः, तत्? कथं झादेशस्यातो रुडागमो भवतीति शक्यं विज्ञातुम्? नैतदस्ति; तस्मादित्युत्तरस्य (1.1.67) इति शीङ इत्येषा पञ्चमी अदित्यस्याः प्रथमायाः षष्ठीत्वं परिकलपयिष्यतीत्यदोषः। शेरते इति। शूङः सार्वधातुके गुणः (7.4.21) । ननु चात्र रुटा व्यवहितं सार्वधातुकम्, तत्कुतो गुणः, न ह्रयं सार्वधातुकभक्तस्तत्? कथं व्यवधायको न स्यात्, अचछब्दस्य सार्वधातुकावयवस्यायमवयव इति तद्ग्रहणेन गृह्रते, न सार्वधातुकग्रहणेन; अवयवावयवस्य समुदायानवयवत्वात्; तथा हि - छे च (6.1.73) इत्यत्रोक्तम् - नावयवावयवः समुदायावयवो भवति इति? नैष दोषः; अवयवावयवोऽपि समुदायावयवो भवत्येव। तथा हि - देवदत्तोऽलंक्तियतामित्युक्ते देवदत्तस्य येऽवयवा हस्तपादायस्तवयवाश्चङ्गुल्यादयोऽलंक्रियन्ते। तस्मात्? सार्वधातुकावयवस्याच्छब्दस्य योऽवयवो रुडागयः, सोऽपि सार्वधातुकावयव इति तद्ग्रहणेन गृह्रते, अतो नास्ति व्यवधानम्।यत्पुनः छे च (6.1.71) इत्यत्रोक्तम् - नावयवावयवः समुदायावयवो भवतीति, तत्? तत्सूत्रविहितमेव तुगागममभिप्रेत्योक्तम्, स तुगवयवावयवोऽपि समुदायग्रहणेन न गृह्रत इति कृत्वा। कस्मात्? पुनर्न गृह्रते? ह्रस्वानुकर्षणसामर्थ्यात्। तत्र हि चकारेण ह्रस्वोऽनुकृष्यते - ह्रस्वमात्रस्यागमित्वं यथा स्यात्, ह्रस्वन्तस्य मा भूदिति। यदि ह्रस्वान्तस्यागमित्वं स्यात्, चिच्छिदतुः, चिच्छिदुरित्यत्र तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। यदि च तत्सूत्रविहितस्तुगवयवावयवः समुदायग्रहणेन न गृह्रते, तदा ह्रस्वमात्रस्यायमित्वे हलादिशेषेण निवृत्तिः स्यादेव; ह्रस्ववयवस्य तुकोऽभ्यासग्रहणेन ग्रहणात्। ततश्च ह्रस्वानुकर्षणमनर्थकं स्यात्। अथ किमर्थमदादेशस्य रुङ्? विधीयते, न झकारस्य विधीयताम्, तत्रायमर्थः - अत #इति षष्ठी प्रकल्पयितव्या न भवति; झ इत्यस्य षष्ठन्तस्य प्रकृतत्वात्? अत आह - रुडयम् इत्यादि। यदि ककारमनुबन्धमासन्य पूर्वान्तः क्रियत, तदा शेरत इत्यत्र गुणो न स्यात्; अनिगन्तत्वात्। तस्मान्मा भूदेष दोष इति रुडयं परादिः क्रियते; परादिरपि क्रियमाणो यदि झकारस्यैव स्यात्? किमनिष्टं स्यात्? इत्याह - यदि इत्यादि। झकारस्यैव रुट्? स्यात्? तदाऽदादेशो न स्यात्। ततो यथा शयान्तै - इत्यत्राटा व्यवहितत्वाददादेशो न भवति; तथा शेरते इत्यत्रापि न स्यात्; रुटा व्यवहितत्वात्। तस्मादस्य दोषस्य परिहारार्थम् - अत एव रुडागमो विधीयते, न झकारस्येति केचिद्व्याचक्षते, एतच्चासम्यक्; झकारस्य क्रियमाणो रुट्? तस्यैव भक्तो भवति, तत्कथं तेन व्यवधानं भवेत्! न हि स्वावयवेन व्यवदधात्येव। तस्मादसद्व्याख्यनमेतदित्यन्यथा व्याख्यायते - अदादेशो न स्यादित्यत्र झकारस्येत्येतदपेक्षते, तदयमर्थो भवति - यदि रुडागमो झकारस्यैव स्यात्? तदादादेशस्तस्यैव न स्यात्। कस्य तर्हि स्यात्? तस्यैव रुटः स्यात्; आदेः परस्य (1.1.54) इति वचनात्। अनेकाल्त्वेऽपि सर्वादेशो न भवति; रुट आनर्थक्यप्रसङ्गात्। रुटो विधानसामर्थ्यान्न भविष्यतीति चेत्? नैतदस्ति; उत्तरार्थ रुङविधानंस्यात्। बहुलं छन्दसि (7.4.78) इत्यत्र रुजागमो यथा स्यात्। न हृदृश्रन्नित्यतटा सिध्यति। तस्माज्ताकश्रवणं रुङ्विधेः प्रयोजनम्। तदेतस्य दोषस्य निरासायादादेशस्य रुङ्विधीयते; न झकार्सय। शीङः इत्यनुबन्धेन निर्देशे यङ्लुग्निवृत्त्यर्थः - व्यतिशेस्यत इति॥

Prakriyasarvasvam

शीङः परस्य झादेशस्यातो रुट् स्यात् । शेरते । शेपे शेध्वे । शये । शेवहे । यकि शय्यते । शयीत । शयीयाताम् । शयीरन् । शयीय । शयीवहि । शेताम् । शयाताम् । शेरताम् । शेष्व । शेध्वम् । शयै । शयावहै । अशेत । अशयाताम् । अशेरत । अशेथाः । अशशेध्वम् । अशयि । अशेवहि१ । अशयिष्ट । अशयिषाताम् । अशयिष्ठाः । भावे अशायि । लिटि द्वित्वे ए—’ रिति यण् । शिश्ये । शिश्याते । शिश्यिषे । शिश्यिढ्वे; शिश्यिध्वे । शयिषीष्ट । शयिता । शयिष्यते । भावे चिण्वच्च । इङ् अध्ययने । अयमधिपूर्वं एव । अधीते । अजादावियङ् । अधीयाते । अधीयते । अधीषे । अधीध्वे । अधीये । अधीवहे । अधीयीत । अधीयीयाताम् । अधीयीरन् । अधीयीथाः । अधीयीध्वम् । अधीयीय । अधीयीवहि । इयङ्यकारः सीयुट्यकारश्चात्राजादिषु श्रूयते२ । अधीताम् । अधीयाताम् । अधीयताम् । अधीष्व । अधीध्वम् । आटः पित्त्वाद् गुणः । अध्यय । अध्ययावहै । लङि इ त इयाताम् इति स्थिते आड्वृद्धौ । अध्यैत अध्यैयाताम् । अध्यैयत । अध्यैथाः । अध्यैध्वम् । अध्यैयि । अध्यैवहि । कर्मणि अधीयते ।

Sutra Prayogas

  • शेरते (शिशुपालवधम्): शीङो रुट् इति रुडागमः।

  • शेरते (भट्टिकाव्यम्): शेरत इति शीडो रुट्।